निदर्शना (nidarzanA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiनिदर्शना
- -
अलंकारशास्त्र में एक अलंकार
Shabdartha Kaustubha
Kannadaनिदर्शना
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಅರ್ಥಾಲಂಕಾರದ ಒಂದು ಭೇದ/ನಿದರ್ಶನಾಲಂಕಾರ
विस्तारः - > ಸಮಾನವಾದ ಎರಡು ವಾಕ್ಯಾರ್ಥಗಳಿಗೆ ಅಭೇದಾರೋಪವು ನಿದರ್ಶನಾಲಂಕಾರವಾಗುವುದು. "वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
L R Vaidya
Englishशब्दकल्पद्रुमः
Sanskritनिदर्शना, (निदर्शयतीति । नि + दृश् + णिच्+ ल्युः । टाप् ।) काव्यालङ्कारविशेषः । तस्यलक्षणम् ।“अर्थान्तरप्रवृत्तेन किञ्चित्तत्सदृशं फलम् ।सदसत्त्वान्निदर्श्येत यदि सा स्यान्निदर्शना ॥
”उदाहरणं यथा, दण्डी ।“उदयन्नेव सविता पद्मेष्वर्पयति श्रियम् ।विभावयितुमृद्धीनां फलं मुहृदनुग्रहम् ॥
”(यथा च साहित्यदर्पणे । १० । ७० ।“सम्भवन् वस्तुसम्बन्धोऽसम्भवन् वापि कुत्रचित् ।यत्र विम्बानुविम्बत्वं वोधयेत् सा निदर्शना ॥
अत्र सम्भवद्बस्तुसम्बन्धनिदर्शना । यथा, --‘कोऽत्र भूमिबलये जनान् मुधातापयन् मुचिरमेति सम्पदम् ।वेदयन्निति दिनेन भानुभा-नाममाद चरमाचलं ततः ॥
’अत्र रवेरीदृशार्थवेदनक्रियायां कर्त्तृत्वेनान्वयःसम्भतत्येव देदृशायंजाओअबसनर्त्गरमाचसप्राप्ति-रूपधर्म्मवत्त्वात् । स च रवेरस्ताचलगमनस्यपरतापिनां विपत्प्राप्तेश्च विम्बप्रतिविम्बभावंबोधयति । असम्भवद्वस्तुसम्बन्धनिदर्शना त्वेक-वाक्यानेकवाक्यगतत्वेन द्विविधा । तत्रैकवाक्यगायथा, --‘कलयति कुवलयमाला-ललितं कुटिलः कटाक्षविज्ञेपः ।अधरः किसलयलीला-माननमस्याः कलानिधेर्व्विलासम् ॥
’अत्रान्यस्य धर्म्मं कथमन्यो वहत्विति कटाक्ष-विक्षेपादीनां कुवलयमालादिगतललितादीनांकलनमसम्भवत् तल्ललितादिसदृशं ललितादिक-मवगमयत् कटाक्षविक्षेपादेः कुवलयमालादेश्चविम्बप्रतिविम्बभावं बोधयति । यथा वा ।‘प्रयाणे तव राजेन्द्र ! मुक्ता वैरीमृगीदृशाम् ।राजहंसगतिः पद्भ्यामाननेन शशिद्युतिः ॥
’अत्र पादाभ्यामसम्बद्धराजहंसगतेस्त्यागो-ऽनुपपन्न इति तयोस्तत्सम्बन्धः कल्प्यते । सचासम्भवन् राजहंसगतिमिव गतिं बोधयति ।अनेकवाक्यगा यथा, --‘इदं किलाव्याजमनोहरं वपु-स्तपः क्षमं साधयितुं य इच्छति ।ध्रुवं स नीनोत्पलपत्रधारयाशमीलतां छेत्तुमृषिर्व्यवस्यति ॥
’अत्र यत्तच्छब्दनिर्द्दिष्टवाक्यार्थयोरभेदेनान्वयो-ऽनुपपद्यमानस्तादृशवपुषस्तपः क्षमत्वसाधनेच्छानीलोत्पलपत्रधारया शमीलताछेदनेच्छेवेतिविम्बप्रतिविम्बभावे पर्य्यवस्यति । यथा वा ।‘जन्मेदं बन्ध्यतां नीतं भवभोगोपलिप्सया ।काचमूल्येन विक्रीतो हन्त चिन्तामणिर्म्मया ॥
’अत्र भवभोगलोभेन जन्मनो व्यर्थतानयनंकाचमूल्येन चिन्तामणिविक्रय इवेति पर्य्यव-सानम् । एवम् ।‘क्व सूर्य्यप्रभवो वंशः क्व चाल्पविषया मतिः ।तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥
’अत्र मन्मत्या सूर्य्यवंशवर्णनमुडुपेन सागर-तरणमिवेति पर्य्यवसानम् । इयं क्वचिदुपमेय-वृत्तस्योपमानेऽसम्भवेऽपि भवति । यथा, --‘योऽनुभूतः कुरङ्गाक्ष्यास्तस्या मधुरिमाधरे ।समास्वादि स मृद्वीकारसे रसविशारदैः ॥
’अत्र प्रकृतस्याधरस्य मधुरिमधर्म्मस्य द्राक्षा-रसेऽसम्भवात् । पूर्व्ववत् साम्ये पर्य्यवसानम् ।मालारूपापि यथा मम ।‘क्षिपसि शुकं वृषदंशकवदनेमृगमर्पयसि मृगादनरदने ।वितरसि तुरगं महिषविषाणेनिदधच्चेतो भोगविताने ॥
’इह विम्बप्रतिविम्बताक्षेपं विना वाक्यार्थापर्य्य-वसानम् । दृष्टान्ते तु पर्य्यवसितेन वाक्यार्थेनसामर्थ्याद्विम्बप्रतिविम्बताप्रत्यायनम् । नापीय-मर्थापत्तिस्तत्र ‘हारोऽयं हरिणाक्षीणाम् ।’इत्यादौ सादृश्यपर्य्यवसानाभावात् ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
