| YouTube Channel

निदर्शनं (nidarzanaM)

 
शब्दकल्पद्रुमः
Sanskrit
निदर्शनं,
क्ली,
(निदृश्यतेऽनेनेति नि + दृश् +ल्युट् ।) दृष्टान्तः उदाहरणम् यथा, --“व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभे शास्त्रनिदर्शने
”इति नानार्थटीकायां भरतः
(“दृष्टान्तेनार्थः प्रसाध्यते यत्र तन्निदर्शनम्
यथाग्निर्वायुनासहितः कोष्ठे वृद्धिङ्गच्छति तथावातपित्तकफदुष्टो व्रण इति
इत्युत्तरतन्त्रे पञ्च-षष्टितमेऽध्याये सुश्रुतेनोक्तम्
)