| YouTube Channel

नित्यानित्यवस्तुविवेक (nityAnityavastuviveka)

 
शब्दकल्पद्रुमः
Sanskrit
नित्यानित्यवस्तुविवेकः,
पुं,
(नित्यानित्ये वस्तुनीतयोर्व्विवेकः विवेचनम् ।) ब्रह्मैव नित्यं वस्तुततोऽन्यदखिलमनित्यमिति विवेचनम् इतिवेदान्तसारः
वाचस्पत्यम्
Sanskrit
नित्यानित्यवस्तुविवेक
पु०
नित्यञ्च अनित्यञ्च नित्याऽनित्येते ते वस्तुनी नित्यानित्यवस्तुनी नित्यानित्यव-स्तुनोर्विवेकः पृथगात्मता ब्रह्मैव नित्यं वस्तु ततोऽन्य-दणिलमनित्यमिति विवेचने “ब्रह्म सत्यं जगन्मिथ्ये-त्येवं रूपो विनिश्चयः सोऽयं नित्यानित्यवस्तुविवेकःसमुदाहृतः” शब्दार्थचि धृतवाक्यम् अयञ्च ब्रह्मविद्या-याम् अधिकारप्रयोजकः