| YouTube Channel

नित्यानध्याय (nityAnadhyAya)

 
शब्दसागरः
English
नित्यानध्याय
m.
(-यः) A period when the perusal of the Vedas is invari-
ably prohibited, as the day of full moon, new moon, the eighth
and fourteenth days of the half month.
E.
नित्य always, अन् nega-
tive prefix, अध्याय to be read.
Yates
English
नित्या-नध्याय (यः-या-यं)
a. Not to be
studied on particular days.
Spoken Sanskrit
English
नित्यानध्याय nityAnadhyAya
m.
invariable suspension of repetition of the Vedas
Wilson
English
नित्यानध्याय
m.
(-यः) A period when the perusal of the Vedas is
invariably prohibited, as the day of full moon, new moon, the eighth and
fourteenth days of the half month.
E.
नित्य always, अन् negative prefix, अध्याय to be read.
Monier Williams Cologne
English
नित्यानध्याय
m.
invariable suspension of repetition of the Vedas (as on the day of full moon
&c.
),
W.
Shabdartha Kaustubha
Kannada
नित्यानध्याय
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವೇದಪಾಠಕ್ಕೆ ಸರ್ವಥಾ ನಿಷಿದ್ಧವಾದ ಕಾಲ
L R Vaidya
English
nitya-anaDyAya {% m. %} invariable suspension of Vedic study.
शब्दकल्पद्रुमः
Sanskrit
नित्यानध्यायः,
पुं,
(नित्यं सर्व्वथा यथा तथा अन-ध्यायः अध्ययनाभावः ।) सर्व्वथा वर्ज्जनीयवेद-पाठकालादिः यथा, --“इमान्नित्यमनध्यायानधीयानो विवज्जयेत् ।अध्यापनञ्च कुर्व्वाणः शिष्यानां विधिपूर्व्वकम्
कर्णस्रवेऽनिले रात्रौ दिवा पांशुसमूहने ।एतौ वर्षास्वनध्यायावध्यायज्ञाः प्रचक्षते
विद्युत्स्तनितवर्षेषु महोल्कानाञ्च संप्लवे ।आकालिकमनध्यायमेतेषु मनुरब्रवीत्
एतांस्त्वभ्युदितान् विद्यात् यदा प्रादुष्कृतामिषु ।तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने
निर्घाते भूमिचलने ज्योतिषाञ्चोपसर्ज्जने ।एतानाकालिकान् विद्यादनध्यायानृतावपि
प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिस्वने ।सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवा
नित्यानध्याय एव स्याद्ग्रामेषु नगरेषु ।धर्म्मनैपुण्यकामानां पूतिगन्धे सर्व्वदा
अन्तर्गतशवे ग्रामे वृषलस्य सन्निधौ ।अनध्यायो रुद्यमाने समवाये जनस्य
उदके मध्यारात्रे विण्मूत्रस्य विसर्ज्जने ।उच्छिष्टः श्राद्धभुक् चैव मनसापि चिन्तयेत्
प्रतिगृह्य द्बिजो विद्वानेकोद्दिष्टस्य केतनम् ।त्र्यहं कीर्त्तयेद्ब्रह्म राज्ञो राहोश्च सूतके
यावदेकानुदिष्टस्य गन्धो लेपश्च तिष्ठति ।विप्रस्य विदुषो देहे तावद्ब्रह्म कीर्त्तयेत्
शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् ।नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव
नीहारे बाणशब्दे सन्ध्ययोरेव चोभयोः ।अमावास्याचतुर्द्दश्योः पौर्णमास्यष्टकासु
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्द्दशी ।ब्रह्माष्टकापौर्णमास्यौ तस्मात्ताः परिवर्ज्जयेत्
पांशुवर्षे दिशां दाहे गोमायुविरुते तथा ।श्वखरोष्ट्रे रुवति पङ्क्तौ पठेद्द्विजः
नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजेऽपि वा ।वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य
प्राणि वा यदि वाप्राणि यत् किञ्चित् श्राद्धिकंभवेत् ।तदालभ्याप्यनध्यायः पाण्यास्यो हि द्विजःस्मृतः
चौरैरुपप्लुते ग्रामे सम्भ्रमे चाग्निकारिते ।आकालिकमनध्यायं विद्यात् सर्व्वाद्भुतेषु
उपाकर्म्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम् ।अष्टकासु त्वहोरात्रमृत्वन्तासु रात्रिषु
नाधीयीताश्वमारूढो वृक्षं हस्तिनम् ।न नावं खरं नोष्ट्रं नेरिणस्थो यानगः
विवादे कलहे सेनायां सङ्गरे ।न भुक्तमात्रे नाजीर्णे वमित्वा सूतके
अतिथिञ्चाननुज्ञाप्य मारुते वाति वा भृशम् ।रुधिरे स्रुते गात्राच्छस्त्रेण परिक्षते
सामध्वनावृग्यजुषी नाधीयीत कदाचन ।वेदस्याधीत्य वाप्यन्तमारण्यकमधीत्य
ऋग्वेदो देवदैवत्यो यजुर्व्वेदस्तु मानुषः ।सामवेदः स्मृतः पित्र्यस्तस्मात्तस्याशुचिर्ध्वनिः
एतद्विदन्तो विद्बांसस्त्रयीनिष्कर्षमन्वहम् ।क्रमतः पूर्व्वमभ्यस्य पश्चाद्बेदमधीयते
पशुमण्डूकमार्ज्जारश्वसर्पनकुलाखुभिः ।अन्तरागमने विद्यादनध्यायमहर्न्निशम्
द्वावेव वर्ज्जयेन्नित्यमनध्यायौ प्रयत्नतः ।स्वाध्यायभूभिञ्चाशुद्धामात्मानञ्चाशुचिं द्बिजः
”इति मानवे १०१ -- १२७
वाचस्पत्यम्
Sanskrit
नित्यानध्याय
पु०
सर्वथा वर्जनीयवेदपाठकालादौ “द्वावेववर्जयेन्नित्यमनध्यायौ प्रयत्नतः खाध्यायभूमिञ्चाशुद्धा-मात्मानं चाशुचिं द्विजः” इति “इमान्नित्यमनध्यायान० घीयानो विवर्जयेत्” इति मनुना प्रदर्शितोऽनध्यायभेदःअनध्यायशब्दे १४६ पृ० दृश्यम्