| YouTube Channel

नित्यक्षौरं (nityakSauraM)

 
शब्दकल्पद्रुमः
Sanskrit
नित्यक्षौरं,
क्ली,
(नित्यं कालाकालाभावतो राग-प्राप्तत्वात् सदातनं क्षौरम् ।) वैधेतरक्षौरम् ।रागप्राप्तकेशच्छेदनम् यथा, --“चूडोदिते तिथावृक्षे बुधेन्द्वोर्द्दिवसे नरः ।नित्यक्षौरं प्रकुर्व्वीत जन्ममासे तु क्वचित्
”इति ज्योतिःसागरसारः
*
राजमार्त्तण्डे तु ।“न स्नानमात्रगमनोत्सुकभूषिताना-मभ्यक्तभुक्तरणकालनिवासनानाम् ।सन्ध्या निशाशनिकुजार्कदिनेषु रिक्तेक्षौरं हितं प्रतिपदह्नि चापि विष्ट्याम्
”इति ज्योतिस्तत्त्वम्
*
तत्र मासाः सौराः भाद्रपौषचैत्रा निषिद्धाःजन्ममासोऽपि निषिद्धः तदितरे विहिताः ।वारस्तु बुधसोमयोर्व्विहितः सामगानां मङ्गल-वारोऽपि तिथयस्तु नन्दारिक्तापूर्णिमामा-वास्याष्टमीभिन्ना विहिताः नक्षत्राणि रेवत्य-श्विनी पुष्यः धनिष्ठा ज्येष्ठा श्रवणा स्वाती हस्तामृगशिरः शतभिषा पुनर्व्वसुः चित्रा राजा-देशे द्विजादेशे विवाहे मृतसूतकाशौचे बन्ध-मोक्षे यज्ञकर्म्मणि परीक्षायां निसिद्धमासादि-ष्वपि कार्य्यम् अशक्तश्चेन्निषिद्धेऽपि दिने ।“केशवमानर्त्तपुरं पाटलिपुत्त्रं पुरीमहीच्छ-त्राम् ।दितिमदितिञ्च स्मरतां क्षौरविधौ भवतिकल्याणम्
”इत्युच्चार्य्य कार्य्यम् इति ज्योतिषम्