| YouTube Channel

नित्यक्षौर (nityakSaura)

 
Shabdartha Kaustubha
Kannada
नित्यक्षौर
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಶಾಸ್ತ್ರೋಕ್ತಕಾಲ ಬಿಟ್ಟು ಮಾಡಿಸಿಕೊಳ್ಳುವ ಕ್ಷೌರ/ಸೌಂದರ್ಯವೃದ್ಧಿಗಾಗಿ ನಡೆಯುವ ಕ್ಷೌರ
विस्तारः - > ಇಂತಹ ಕ್ಷೌರವು ಚೂಡಾಕರ್ಮಕ್ಕೆ ವಿಹಿತವಾದ ತಿಥಿ- ನಕ್ಷತ್ರ-ವಾರಗಳಲ್ಲಿ ನಡೆಯಬೇಕು. "चूडोदिते तिथावृक्षे बुधेन्द्वोर्दिवसे नरः। नित्यक्षौरं प्रकुर्वीत जन्ममासे तु क्वचित्"
शब्दकल्पद्रुमः
Sanskrit
नित्यक्षौरं,
क्ली,
(नित्यं कालाकालाभावतो राग-प्राप्तत्वात् सदातनं क्षौरम् ।) वैधेतरक्षौरम् ।रागप्राप्तकेशच्छेदनम् यथा, --“चूडोदिते तिथावृक्षे बुधेन्द्वोर्द्दिवसे नरः ।नित्यक्षौरं प्रकुर्व्वीत जन्ममासे तु क्वचित्
”इति ज्योतिःसागरसारः
*
राजमार्त्तण्डे तु ।“न स्नानमात्रगमनोत्सुकभूषिताना-मभ्यक्तभुक्तरणकालनिवासनानाम् ।सन्ध्या निशाशनिकुजार्कदिनेषु रिक्तेक्षौरं हितं प्रतिपदह्नि चापि विष्ट्याम्
”इति ज्योतिस्तत्त्वम्
*
तत्र मासाः सौराः भाद्रपौषचैत्रा निषिद्धाःजन्ममासोऽपि निषिद्धः तदितरे विहिताः ।वारस्तु बुधसोमयोर्व्विहितः सामगानां मङ्गल-वारोऽपि तिथयस्तु नन्दारिक्तापूर्णिमामा-वास्याष्टमीभिन्ना विहिताः नक्षत्राणि रेवत्य-श्विनी पुष्यः धनिष्ठा ज्येष्ठा श्रवणा स्वाती हस्तामृगशिरः शतभिषा पुनर्व्वसुः चित्रा राजा-देशे द्विजादेशे विवाहे मृतसूतकाशौचे बन्ध-मोक्षे यज्ञकर्म्मणि परीक्षायां निसिद्धमासादि-ष्वपि कार्य्यम् अशक्तश्चेन्निषिद्धेऽपि दिने ।“केशवमानर्त्तपुरं पाटलिपुत्त्रं पुरीमहीच्छ-त्राम् ।दितिमदितिञ्च स्मरतां क्षौरविधौ भवतिकल्याणम्
”इत्युच्चार्य्य कार्य्यम् इति ज्योतिषम्
वाचस्पत्यम्
Sanskrit
नित्यक्षौर
न०
अवैधकेशादिच्छेदने “चूडोदिते तिथावृक्षे बुधेन्द्वो-र्दिवसे नरः नित्यक्षौरं प्रकुर्वीत जन्ममासे तु क्वचित्”जयोतिषसारः अधिकं क्षुरकर्मन् शब्दे २३८६ पृ० दृश्यम्