| YouTube Channel

नित्यकर्म्म (nityakarmma)

 
शब्दकल्पद्रुमः
Sanskrit
नित्यकर्म्म, [न्]
क्ली,
(नित्यं कर्म्म ।) प्रत्यवाय-जनकाभावप्रतियोगिकार्य्यम् इति स्मृतिः
तद्यथा, --“नित्यं नैमित्तिकञ्चैव नित्यनैमित्तिकन्तथा ।गृहस्थस्य त्रिधा कर्म्म तन्निशामय पुत्त्रक !
पञ्चयज्ञाश्रितं नित्यं यदेतत् कथितं तव ।नैमित्तिकं तथा चान्यत् पुत्त्रजन्मक्रियादिकम्
नित्यनैमित्तिकं ज्ञेयं पर्व्वश्राद्धादि पण्डितैः
”इति मार्कण्डेयपुराणम्
*
तत्त्यागे दोषो यथा, --“नित्यानां कर्म्मणां विप्र ! तस्य हानिरहर्निशम् ।अकुर्व्वन् विहितं कर्म्म शक्तः पतति तद्दिने
प्रायश्चित्तेन महता शुद्धिमाप्नोत्यनापदि ।पक्षं नित्यक्रियाहानेः कर्त्ता मैत्रेय ! मानवः
संवत्सरं क्रियाहानिर्यस्य पुंसोऽभिजायते ।तस्यावलोकनात् सूर्य्यो निरीक्ष्यः साधुभिः सदा
स्पृष्टे स्नानं सचेलस्य शुद्धिहेतुर्म्महामुने ! ।पुंसो भवति तस्योक्ता शुद्धिः पापकर्म्मणः
”इति विष्णुपुराणे अंशे १८ अध्यायः
*
क्षतादौ नित्यकर्म्मकरणनिषेधो यथा, --“जानूर्द्ध्वे क्षतजे जाते नित्यकर्म्म चाचरेत् ।नैमित्तिकञ्च तदधःस्रवद्रक्तो चाचरेत्
सूतके समुत्पन्ने क्षुरकर्म्मणि मैथुने ।घूमोद्गारे तथा वान्तौ नित्यकर्म्माणि संत्यजेत्
द्रव्ये भुक्ते त्वजीर्णे नैव भुक्त्वा किञ्चन ।कर्म्म कुर्य्यान्नरो नित्यं सूतके मृतके तथा
पत्रं पुष्पञ्च ताम्बूलं भेषजत्वेन कल्पितम् ।कणादिपिप्पल्यन्तञ्च फलं भुक्त्वा चाचरेत्
जलस्यापि नरश्रेष्ठ ! भोजनाद्भेषजादृते ।नित्यक्रिया निवर्त्तेत सह नैमित्तिकैः सदा
जलौकां गूढपादञ्च कृमिगण्डूपदादिकम् ।कामाद्दम्भेन संस्पृश्य नित्यकर्म्माणि संत्यजेत्
विशेषतः शिवापूजां प्रमीतपितृकी द्विजः ।यावद्वत्सरवपर्य्यन्तं मनसापि चाचरेत्
महागुरुनिपाते तु काम्यं किञ्चिन्न चाचरेत् ।आर्त्विज्यं ब्रह्मयज्ञञ्च श्राद्धं देवयुतञ्च यत्
गुरुमाक्षिप्य विप्रञ्च प्रकृत्यैव पाणिना ।न कुर्य्यान्नित्यकर्म्माणि रेतःपाते भैरव !
”इति कालिकापुराणे ५४ अध्यायः