नित्यकर्मन् (nityakarman)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishMonier Williams Cologne
EnglishMacdonell
Englishनित्यकर्मन् nitya-karman, necessary duty 🞄or rite
-kālam, ad. always, invariably
🞄-kṛtya, , -kriyā, regular ceremony, daily 🞄routine
-gati, constantly moving
🞄wind
-jāta, pp. being constantly born
-tā, 🞄f. , -tva, perpetuity, eternity
necessity
🞄perseverance in, devotion to (—°)
-dā, ad. 🞄perpetually
-parikṣaṇa, constant inspection
🞄-bhāva, eternity.
Apte Hindi
Hindiनित्यकर्मन्
नित्य-कर्मन् -
"प्रतिदिन किया जाने वाला आवश्यक कार्य, लगातार किया जाने वाला कर्तव्य"
Shabdartha Kaustubha
Kannadaनित्यकर्मन्
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಪ್ರತಿದಿನವೂ ಅವಶ್ಯವಾಗಿ ಆಚರಿಸಬೇಕಾದ ಕಾರ್ಯ
Aufrecht Catalogus Catalogorum
Englishवाचस्पत्यम्
Sanskritनित्यकर्मन् कर्म० । विहिते कर्मभेदे “नित्यं नैमित्तिकञ्चैवनित्यनैमित्तिकन्वथा । गृहस्थस्य त्रिधा कर्म तन्निशामयपुत्रक! । पञ्चयज्ञादिकं नित्यं यदेतत् कथितं तव । नै-मित्तिकं तथा चान्यत् पुत्रजन्मक्रियादिकम् । नित्यनैमित्तिकं ज्ञेयं पर्वश्राद्धादिं पण्डितैः” श्रा० त० मार्क० तत्त्यागे दोषो यथा “नित्यानां कर्मणां विप्र! तस्य हानिरहर्निशम् । अकुर्बन् विहितं कर्म शक्तः पतति तद्दिने ।प्रायश्चित्तेन महता शुद्धिमाप्नोत्यनापदि । पक्षं नित्य-क्रियाहानेः कर्त्ता मैत्रेय! मानवः । संवत्सरं क्रियाहानिर्यस्य पुंसोऽभिजायते । तस्यावलोकनात् सूर्य्योनिरीक्ष्यः साधुभिः सदा । स्पृष्टे स्नानं सचेलस्य शुद्धिहेतुर्महामुने! । पुंसो भवति तस्योक्ता न शुद्धिः वाप-कर्मणः” इति विष्णुपु० । क्षतादौ नित्यकर्मकरणनिषेधोयथा “जानूर्द्धे क्षतजे जाते नित्यकर्म न चाचरेत् ।सूतके च समुत्पन्ने क्षुरकर्मणि मैथुने । घूमोद्गारे तथावान्तौ नित्यं कर्माणि संत्यजेत् । द्रव्ये भुक्ते त्वजीर्णेच नैव भुक्त्वा च किञ्चन । कर्म कुर्य्यान्नरो नित्यं सूतकेमृतके तथा । पत्रं पुष्पञ्च ताम्बूलं भेषजत्वेन कल्पि-तम् । कणादिपिप्पल्यन्तञ्च फलं भुक्त्वा न चाचरेत् ।जलस्यापि नरश्रेष्ठ भोजनाद्भेषजादृते । नित्यक्रियानिवर्त्तेत सह नैमित्तिकैः सदा । जलौकागूढपादञ्चकृमिगण्डूपदादिकम् । कामाद्दम्भेन संस्पृश्य नित्य-कर्म्माणि संत्यजेत् । विशेषतः शिवापूजां प्रमीतपितृको द्विजः । यावद्वत्सरपर्य्यन्तं मनसापि नचा-चरेत् । महागुरुनिपाते तु काम्यं किञ्चिन्न चाचरेत् ।आर्त्विज्यं ब्रह्मयज्ञञ्च श्राद्धं देवयुतञ्च यत् । गुरुमा-क्षिप्य विप्रञ्च प्रकृत्यैव च पाणिना । न कुर्य्यान्नित्य-कर्माणि रेतःपाते च भैरव!” कालि० ५४ अ० ।नित्यकर्मणि अशक्याङ्गवैगुण्येऽपि फलनिष्पत्तिर्भवतीतिकात्या० श्रौ० १ । २ । १८ सूत्रे याज्ञिकदेवकृतसंग्रहे चव्यवस्थापितं यथा“अथेदं विचार्य्यते द्विप्रकारं कर्म नित्यं काम्यञ्च तत्रनित्यं प्रकृत्येदं विचार्य्यते । किं सर्वाङ्गोपेतं कर्त्तव्यम्उत यावन्त्यङ्गानि कर्तुं शक्नोति तावद्भिरङ्गैरुपेतमिति ।किं ताबत् प्राप्तम् सर्वाङ्गोपेतमेव कर्त्तव्यमिति कुतःभावनांशस्य कथंभाबस्य सर्वैरङ्गैः परिपूरणेन सर्वाङ्गो-पेतमेव कर्त्तव्यमित्येवं प्राप्ते आह” “विगुणे फल-निर्वृत्तिरङ्गप्रघानभेदात्” सू० । “नित्ये कर्मणिअग्निहोत्रदर्शपूर्णमासादिके प्रत्यवायपरिहाररूपस्यफलस्य निष्पत्तिर्भवत्येव । अङ्गप्रधानभेदात् यतोऽङ्गानिच प्रधानानि च भिन्नानि नित्येषु चेतिकर्त्तव्यतानास्ति अपूर्वाभावात् अपूर्वप्रयुक्ता हीतिकर्त्तव्यता सा चतस्मिन्नसति न भवितुमर्हति कथमपूर्वाभावः? । फला-भावात् कालान्तरभाविफलसिद्ध्यर्थं ह्यपूर्वं कल्प्यम् ।तच्चासति फले कल्पयितुं न शक्यते तस्मान्नित्येषु याग-स्यैव माव्यत्वम् न फलस्य । तस्मात् पौर्णमास्याममावा-स्यायां वाग्निमुद्दिश्य पुरोडाशस्त्यक्तव्य इत्येतावदुपदिश्यतेतेन दृष्टार्थानि यान्यङ्गानि संनिपत्योपकारकाणि यै-र्विना प्रधानभूतयागनिष्पत्तिर्न भवति अन्यथानुपपत्त्यातावद्भिरुपेतं प्रधानं कर्त्तव्यम् नाङ्गानि अङ्गाम्नानं तुकाम्यप्रयोगार्थम् अतोऽग्निकालपुरोडाशमात्रमादरणी-यम् अन्यदङ्गजातमदृष्टार्थं नादरणीयमिति । कथंतर्हीदृशे निष्फले पुरुषस्य प्रवृत्तिरिति? चेत् उच्यते प्रत्य-वायानुत्पत्त्यर्था प्रवृत्तिर्न तु फलार्था विहिताकरणाद्धिप्रत्यवायः स्मर्य्यते “अकुर्वन्विहितं कर्म प्रायश्चित्तीयतेनरः” इति (मनुना) । अतो नित्यकर्मणो निष्फलत्वा-दपूर्वाभावादितिकर्त्तव्यता नास्तीति हीनाङ्गस्यैव प्रयोगइति केचित् सिद्धान्तमाहुः । तदेतन्नोपपद्यते कथंभाव-नातो हि तिस्र आकाङ्क्षा जायते किं, केन, कथमितितत्र कथमितीतिकर्त्तव्यताकाङ्क्षा नित्येऽप्यस्ति तस्मा-दत्राप्यस्तीतिकर्त्तव्यता । सत्यम् अस्त्येवेहाप्याकाङ्क्षायाःसमानपदोपात्तेन यागेनैव पूरणात्तन्निर्वृत्त्युपयोगिन्ये-नेतिकर्त्तव्यता कथमाकाङ्क्षया गृह्यते न त्वदृष्टोप-योगि प्रयाजाद्यङ्गम् अदृष्टस्य साध्यस्याभावादिति चेत्न यागस्य स्वतोऽपुरुषार्थत्वेन प्रवृत्त्यन्यथानुपपत्त्या समान-पदोपात्तं यागमुत्सृज्य सर्वेषामभिमतस्य प्रत्यवायपरिहारस्येह भाव्यतया कल्पनात् । ननु चेत् सर्वेषा-मभिमतः स्वर्गः किमिति न कल्प्यते, तस्य शरीरारम्भ-हेतुतया मोक्षविरोधित्वेन मुमुक्षूणामनभिप्रेतत्वात् प्रत्य-वायपरिहारस्तु तैरपीष्यत एव कथं? तस्मिन् पापेएतज्जन्मोपार्जिते भवान्तरोपार्जिते वा स्थिते सति तदु-पभोगहेतुभूतशरीरारम्भावश्यंभावेन मोक्षाभावात् अतोमोक्षार्थिनाप्यवश्यं पापक्षय एषितव्य एव समीहितफलाय, इतरथाऽप्रक्षीणे पापे फलाप्राप्तेः । तस्मान्नित्यानिकर्माणि पापक्षयस्योपायत्वेन चोद्यमानानीतिकर्त्तव्यताभपेक्षन्त एव । धर्मशास्त्रेषु च यथैवाकरणे प्रत्यवायःस्मृतः तथैव करणादपि पापक्षयः स्मर्य्यते “पूर्वां सन्ध्यांजपंस्तिष्ठन्नैशमेनो व्यपोहति (मनुः) इत्यादिभिः “नि-त्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयमिति च” । तस्मा-न्नित्येऽप्यस्त्येव प्रत्यवायपरिहाररूपं फलम् । तस्मा-न्नित्यान्यपिं कर्माणि सर्वाभिमतस्य तस्य पापक्षयस्योपाय-त्वेन चोद्यमानानीतिकर्त्तव्यतामपेक्षन्त एव । ततश्चसर्वाङ्गोपेतानामनुष्ठानं कश्चिदपि सर्वदा कर्तुं न श-क्नोति जीवनादिनिमित्ते च तानि विधीयन्ते निमित्तस्यचैतदेव रूपं यत्तस्मिन् सति नैमित्तिकमवश्यं कर्त्तव्यम् ।तेन यावज्जीवं कर्त्तव्यम् । तेन यथा शक्नुयादित्युप-योध्यते तत्रावश्यमन्यतरस्मिन्नहातव्ये निमित्ते सतिनैमित्तिकस्य कर्त्तव्यत्वं प्रधानवाक्ये श्रूयते तद्यदि कस्य-चिदङ्गस्यानुरोधेन सति निमित्ते नैमित्तिकं न क्रियतेततः प्रधानवाक्यविरोधः स्यात् प्रधानमात्रं श्रुत्यानिमित्ते विधीयते अङ्गानि तु तदर्थतया प्रकरणेन गृह्यन्तेअतस्तानि प्रधानवाक्यगतावश्यकत्वानुरोधेन यथाशक्त्यु-वसंहर्त्तव्यानि इतरथा प्रधानस्यावश्यकर्त्तव्यत्वं श्रुतंहीयेत तस्मात् प्रधानाविरोधेनाङ्गानि यथाशक्त्युप-संहर्तव्यानि । नन्वेवं हीनाङ्गादपि प्रधानात् फल-सिद्धेरभ्युपगसात् समर्थोऽप्यङ्गानि परित्यक्ष्यतीतिमैवम् । शक्तस्य कामतोऽङ्गे त्यज्यमाने वैगुण्यं स्यादेवअङ्गोपदेशं निमित्तं वालोच्योभयानुरोधेन यावन्त्यङ्गानिकर्तुं शक्नोति तावद्भिरुपेतं प्रधानमेनः क्षपयतीतिशास्त्रार्थोऽवधार्य्यते तावतैव शास्त्रवशात् फलनिष्पत्तिःइति साधूक्तम् “विगुणे फलनिर्वृत्तिरङ्गप्रधानभेदा-दिति” । एतच्च प्रयोगविध्यनुजीव्येष्वङ्गेषूच्यते यद्धिकुर्य्यादित्युच्यते तत् यथाशक्तीत्युपबोध्यते । यानि तुस्वभावसिद्धानि विध्यन्तरसिद्धानि वोपजीव्यन्ते यथा लोकेधनार्जनादि वेदेऽपि कालो विद्याग्नयश्च तेषां स्वरूपे-णौवाधिकारिविशेषणत्वम् । द्रव्यबान् विद्यावानग्नि-मानिति । एतदुक्तं भवति अङ्गं हि विधिबलादुपादीयतेनिमित्तानुरोधाद्वा त्यज्यते उभयानुग्रहार्थं वा शक्तंप्रत्युपादीयते अशक्तं प्रति त्यज्यत इति नान्या गति-रस्ति तत्रोभयानुग्रहो युक्तो यदि सम्भवति सम्भवश्चो-पादेयेष्वङ्गेषु यथाशक्ति व्रीहीन् सम्पादयेत् यथाशक्त्य-वहन्यादिति आहवनीयादिस्वरूपं तु नानेन विधिनोपा-दीयते तस्मादग्निमान् विद्यावान् द्रव्यवान् जीवंश्च यजेते-त्येवमाश्रीयते अतो विद्याग्निकालाद्यपरित्यागेनान्थे-षामङ्गानां यथाशक्त्यनुष्ठानं सिद्धम् । तथाचोक्तं तन्त्र-रत्ने “यानि प्रयोगविधिना कर्तुरुपादेयत्वेनाङ्गानिचोद्यन्ते तेषामेव शक्तिपरिमितत्वम् यावन्ति शक्नुया-त्तावन्ति कुर्य्यादिति यानि तु विध्यन्तरप्रयुक्तानि स्वयंसिद्धानि वाङ्गत्वेन गृह्यन्ते तानि स्वरूपत एवाधि-कारिविशेषणम् यथाग्न्यादीनि तेषामुपादानस्य प्रयोग-विधिनानुपादानान्न यावच्छक्तीत्युपवन्धः सम्भवतिकिन्तु तदपेक्षो विधिस्तद्वन्तमेवाधिकरोति तेन सपत्नीक-स्यार्षेयस्य (वेदस्य)व्याख्यानोपात्तसंस्कारविशिष्टस्याग्निमतोविद्यावतःप्रदोषादिकालसंयोगिनोऽधिकारो नान्यस्येति ।एवं चाप्रतिसमाधेयाङ्गवैकल्येऽप्यग्न्यादिमानधिक्रियेतैवआधानं तु न कुर्य्यात्तस्यानैमित्तिकत्वादिति” । “प्राय-श्चित्तविधानाच्च” सू० । “प्रायश्चित्तविधानादप्येवं कल्प्यतेयद्विगुणेऽपि फलनिर्वृत्तिर्भवतीति । यदि च विगुणात्फलं न स्यात्तर्हि प्रायश्चित्तं न विदधीत नहि निष्फल-स्याङ्गैः कृत्यमस्ति अस्ति च विधानम् तस्माद्विगुणादपिफलं भवतीति । येषां मते नित्येषु फलाभावेनापूर्वाभावात्तदर्थेतिकर्त्तव्यताभावेन निमित्तभेदने जाते वैगु-ण्यात्तत्परिहारायापरं होमाख्यमङ्गं भिन्ने जुहो-तीत्यादिकमनुपपन्नं न क्रियत एव । पक्षान्तरे असत्या-मितिकर्त्तव्यतायां भेदने जातेऽपि नास्ति वैगुण्यम् गुण-हानिर्हि वैगुण्यम् असति गुणे कस्य हानिः स्यात्ततश्चास्मत्पक्ष एव प्रायश्चित्तविधानमुपपन्नमिति” । “तथाच दृष्टम्” सू० । “नित्यं कर्म यथा कथञ्चित् श्रुताङ्गप-रित्यागेनापि यथाशक्त्यङ्गोपेतमनुष्ठातव्यत्वेन श्रुतौदृष्टम् । तथा हि “यत्पयो न स्यात् केन जुहुयाइति व्रीहियवाभ्यामित्यादि न वा इह तर्हि किं चनासीदथैतदहुत सत्यं श्रद्धायाम्” इत्यन्तेन ग्रन्थेन । तथा“तदेव यादृक्कीदृक् च होतव्यमिति” शाखान्तराच्च तस्मा-द्विगुणेऽपि नित्ये प्रत्यवायपरिहाररूपं फलं भवतिअतएवोक्तं कर्काचार्य्यैः “उपात्तदुरितक्षयो वा उत्पत्-स्यमानदुरितप्रतिवन्धो वा भवत्येवेति” । “नित्यकर्माण्या-रब्धे अनारब्धे वा प्रतिनिविर्भवति अबश्यकर्त्तव्यतयायथाशक्तिप्रयोगस्य व्यवस्थापितत्वात् इति” चान्यत्र तत्रो-क्तम् । “काम्ये प्रतिनिधिर्नास्ति नित्ये नैमित्तिके हि सः”इत्युक्तेस्तत्र प्रतिनिधिरस्ति । “नित्यं नैमित्तिकं काम्यंत्रिविधं स्नानमिष्यते” ब्रह्मपु०
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
