| YouTube Channel

निघ्नः (nighnaH)

 
शब्दकल्पद्रुमः
Sanskrit
निघ्नः, त्रि, (निहन्यते निगृह्यते इति नि + हन +घञर्थे कः नियम्यत्वादेवास्य तथात्वम् ।)अधीनः इत्यमरः १६
(यथा, रघुवंशे १४ ५८ ।“आश्वास्य रामावरजः सतीं ता-माख्यातवाल्मीकिनिकेतमार्गः ।निघ्नस्य मे भर्त्तृनिदेशरौक्ष्यंदेवि ! क्षमस्वेति बभूव नम्रः
”)अङ्कपूरणम् इति लीलावती
(यथा, सूर्य्य-सिद्धान्ते २९ ।“पुनर्द्बादशनिघ्नाच्च लभ्यते यत् फलं बुधैः
”पुं सूर्य्यवंशीयनृपभेदः यथा, हरिवंशे१५ २२ ।“अनरण्यसुतो निघ्नो निघ्नपुत्रौ बभूवतुः
”)