| YouTube Channel

निकुम्भितं (nikumbhitaM)

 
शब्दकल्पद्रुमः
Sanskrit
निकुम्भितं,
क्ली,
नृत्यविषयकाष्टोत्तरशतकरणान्त-र्गतकरणविशेषः यथा, सङ्गीतदामोदरे ।“करणानान्तु सर्व्वेषां सामान्यं लक्षणन्त्विदम् ।प्रायो वामकरो वक्षःस्थितोऽन्यः पुरतोऽनुगः
पादाभ्यां करणं ज्ञेयं तदिहाष्टोत्तरं शतम् ।निकुम्भितं पार्श्वक्रान्तमतिक्रान्तं विवर्त्तकम्
विद्युद्भ्रान्तं गजक्रीडं क्रान्तञ्च गरुडप्लुतम्