| YouTube Channel

निकुञ्चकः (nikuJcakaH)

 
शब्दकल्पद्रुमः
Sanskrit
निकुञ्चकः,
पुं,
(निकुञ्चतीति नि + कुन्चकौटिल्ये + ण्वुल् ।) परिमाणविशेषः कुडव-पादः प्रसृत इति ख्यातः इति भरत-धृतसर्व्वस्वम्
वानीरवृक्षः इति भावप्रकाशः
(जलवेतसः तत्पर्य्यायो यथा, --“निकुञ्चकः परिव्याधो नादेयो जलवेतसः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)