| YouTube Channel

निका (nikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“जुड गतौ”@} 2 ‘तवर्गपञ्चमान्तमेके पठन्ति।
दृश्यते ‘दृष्टिर्यो विश्वे मरुतो जुनन्ति’ इति’ इति माधवीयधातुवृत्तौ।
जोडकः-डिका, जोडकः-डिका, जुजोडिषकः-जुजुडिषकः-षिका, जोजुडकः-डिका
जोडिता-त्री जोडयिता-त्री, जुजोडिषिता-जुजुडिषिता-त्री, जोजुडिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिकगुफधातुवत् 3 बोध्यानि।
निका
क्षीरस्वामिसम्मतनकारान्तपाठेऽपि-- जोनकः-निका, जोनकः-निका, जुजोनिषकः-जुजुनिषकः-षिका, जोजुनकः- जोनिता-त्री, जोनयिता-त्री, जुजोनिषिता-जुजुनिषिता-त्री, जोजुनिता-त्री
इत्यादीनि सर्वाणि रूपाणि गुफघातुवद् 4 ऊह्यानि।
जुडन्- 5 न्ती-ती।
6
प्रासङ्गिक्यः
01
=>
(६०९)
02
=>
(६-तुदादिः-१३२६। सक। सेट्। पर।)
03
=>
(४१२)
04
=>
(४१२)
05
=>
[[B। ‘पीयूषोभितहेमकुम्भविशुभद्वक्षोजशुम्भत्तमा दृब्धस्रग्धरचृत्तकैश्यविधितां शोभां जुडन्त्योऽजुनन्।’ धा। का। २। ७५।]]
06
=>
[पृष्ठम्०५७८+ २४]
1 {@“तनु श्रद्धोपकरणयोः”@} 2 आधृषीयः।
‘श्रद्धोपकरणार्थस्य तनेस्तनति तानयेत्।’ 3 इति देवः।
‘उपसर्गाच्च दैर्घ्ये’ 4 इति पठ्यते।
अत्र चकारो भिन्नक्रमः।
उपसर्गात् परो यस्तनुधातुः सः दैर्ध्ये च, चकारात् श्रद्धोपकरणयोश्च णिचं विकल्पेन लभते इत्यर्थः।
अनुपसृष्टात्तु श्रद्धोपकरणयोरेव णिज्विकल्पः।
तानकः-निका, अवतानकः-निका, तितानयिषकः-षिका, तानकः-वितानकः- निका, तितनिषकः-षिका, तितांसकः-तितंसकः-सिका, तंतनकः-तन्तनकः, निका
तानयिता-अवतानयिता-त्री, तितानयिषिता-त्री, तनिता-वितनिता-त्री, तितनि- षिता-तितांसिता-तितंसिता-त्री, तंतनिता-तन्तनिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककालयतिवत् 5 ज्ञेयानि।
‘आधृषाद्वा’ 6 इति णिचो वैकल्पिकत्वेन शुद्धाद्धातोः 7 सन्नन्तात्, यङन्ताच्च पूर्वोक्ततनुधातुवत् 8 रूपाणि ज्ञेयानि।
9 वितनन् 10 तनन्।
11 नितान्तम्।
प्रासङ्गिक्यः
01
=>
(७००)
02
=>
(१०-चुरादिः-१८४१। स। सेट्। उभ।)
03
=>
(श्लो। १२७)
04
=>
(ग। सू। चुरादौ)
05
=>
(१७५)
06
=>
(ग। सू। चुरादौ)
07
=>
[पृष्ठम्०६४६+ २८]
08
=>
(६९९)
09
=>
[[आ। ‘आपन् खेदमरिं तनन् जनहितं चिक्रीड गोपैर्हरिः तूर्योत्थो वितनन् ध्वनिर्दिवमगाद् दूतो यथा वादितः।।’ धा। का। ३। ५१।]]
10
=>
[[१। णिजभावपक्षे ‘शेषात् कर्तरि--’ (१-३-७८) इति परस्मैपदम् शता।]]
11
=>
[[२। क्तप्रत्यये, ‘अनुनासिकस्य--’ (६-४-१५) इति दीर्घे रूपमेवम्।]]
1 {@“मनु अवबोधने”@} 2 ‘स्तम्भे मानयते, ज्ञाने मन्यते मनुते पदम्।।’ 3 इति देवः।
‘--बोधने इति मैत्रेयः।’ इति मा।
धा।
वृत्तिटीका।
मानकः-निका, मानकः-निका, 4 मिमनिषकः-षिका, मम्मनकः-मंमनकः- निका
मनिता-त्री, मानयिता-त्री, मिमनिषिता-त्री, मम्मनिता-मंमनिता-त्री
इत्यादीनि सर्वाणि रूपाणि दैवादिकमन्यतिवत् 5 ज्ञेयानि।
क्विपि 6 हरिमत्-हरिमतौ-हरिमतः
7 मतः-तम्-तवान्, 8 मनितम्-तः-तवान्, 9 मनित्वा-मत्वा, 10 मेनका, 11 अभिमत्य, 12 मन्तिः, 13 मन्वानः इतीमानि रूपाणि अस्य धातोः विशेषेण संभवन्तीति विशेषः।
14
प्रासङ्गिक्यः
01
=>
(१२१९)
02
=>
(८-तनादिः-१४७१। सक। सेट्। आत्म।)
03
=>
(श्लो। १२५)
04
=>
[[१। अस्य धातोः सेट्त्वात् सनि रूपमेवम्। एवं सन्नन्ते सर्वत्र बोध्यम्। शुद्धात् तृजादिषु एवमेव ऊह्यम्।]]
05
=>
(१२१७)
06
=>
[[२। ‘गमः क्वौ’ (६-४-४०) इत्यत्र ‘गमादीनामिति वक्तव्यम्’ इति वचनात् क्विपि अनुनासिकलोपे, ‘ह्रस्वस्य--’ (६-१-७१) इति तुकि रूपमेवम्।]]
07
=>
[[३। निष्ठायाम्, ‘अनुदात्तोपदेशवनतितनोत्यादीनाम्--’ (६-४-३७) इति अनुनासिकलोपे रूपमेवम्।]]
08
=>
[[४। निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इति निषेधस्यानित्यत्वादिट्। तदनित्यत्वे च, ‘कृती छेदने’ (तु। से। पर।) इतीदित्करणं लिङ्गम्। अन्यथा, ‘सेऽसिचि--’ (७-२-५७) इति वेट्कत्वात् सिद्धे किं तेन?’ इति अमख्याख्यायाम् (१-१०७) प्रतिपादितत्वात् मनितम् इत्यपि साधुरिति ज्ञेयम्। तथा-- ‘बुद्धं बुधितं मनितम्’ इत्यमरः। ‘एवमेव स्वामी’ इति प्र। सर्वस्वे।]]
09
=>
[[५। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इट्पक्षे मनित्वा। इडभावपक्षे, अनुनासिकलोपे मत्वा इति रूपद्वयं बोध्यम्।]]
10
=>
[[६। ‘आशिषि च’ (३-१-१५०) इति वुन्। ‘नशिमन्योरलिट्येत्वं वक्तव्यम्’ (वा। ६-४-१२०) इति वचनात् एत्वे रूपमेवम्। “--‘मेनका’ इत्यपि भाषायां प्राप्नोति। यदि तु इष्यते पृषोदरादित्वाद्भविष्यति। ‘आशिषि चोपसंख्यानम्’ (वा। ७-३-४५) इति इत्वाभावः।” इति प्रकृतसूत्रभाष्ये (६-४-१२०) कैयटे प्रतिपादितम्।]]
11
=>
[[७। ल्यपि, ‘वा ल्यपि’ (६-४-३८) इत्यस्य व्यवस्थितविभाषाश्रयणाद् अत्र नान्तानिटां नित्यम् अनुनासिकलोपः। तेन अभिमत्य इत्येकमेव रूपम्।]]
12
=>
[[८। तनोत्यादित्वात् क्तिचि ‘न क्तिचि दीर्घश्च’ (६-४-३९) इति दीर्घानुनासिकलोप- निषेधे रूपमेवम्।]]
13
=>
[[आ। ‘कंसस्तृणीकृतरिपुः घृणिमान् वताप्तिं मन्वान एकमथ मञ्चमलञ्चकार।।’ धा। का। ३। ४।]]
14
=>
[पृष्ठम्१००३+ २८]
1 {@“मान पूजायाम्”@} 2 3 ‘मानेर्जिज्ञासायाम्’ इति 4 वचनात् पूजितविचारे धातोरस्य नित्यसन्नन्तत्वम्।
तु इच्छार्थकः सन्।
‘नित्यसन्नन्तत्वसाधनाच्च धातोः पृथक् प्रयोगाभावात् पूजाद्यर्थपाठो व्यर्थः’ इति हरदत्तादयः।
स्वार्थसन्नन्तात् क्रमेण ण्यन्तस्म, इच्छासन्नन्तस्य प्रयोगः प्रदर्शित इति ज्ञेयम्।]] ‘पूजायां मानयेत् मानेत् यौ, मीमांसेत तङ्सनोः।’ 5 इति देवः।
6 मीमांसकः-सिका, मीमांस्दकः-सिका, मीमांसयिषकः-षिका, 7 मानकः- निका
मीमांसिता-त्री, मीमांसयिता-त्री, मीमांसयिषिता-त्री, मान- यिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकदीदांसतिवत् 8 ज्ञेयानि।
अस्यात्मनेपदित्वात् शानजेव, शतेति विशेषः।
9 माता।
10
प्रासङ्गिक्यः
01
=>
(१२४४)
02
=>
(१-भ्वादिः-९७२। सक। सेट्। आत्म।)
03
=>
[[[अ]
04
=>
(काशिका ३-१-६)
05
=>
(श्लो। १२६)
06
=>
[[२। ‘मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य’ (३-१-६) इति स्वार्थे सन्। अभ्यासकार्येषु प्रवृत्तेषु दीर्घश्चाभ्यासस्य भवति। एवमेवोत्तरत्र सर्वत्रापि ज्ञेयम्।]]
07
=>
[[३। ‘अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति’ (भाष्यम् ३-१-६) इति वचनात् स्वार्थसन्नन्तादेवास्यात्मनेपदत्वम्, अर्थान्तरे तु चुरादिपाठ उन्नेयः। तदानीं ‘शेषात् कर्तरि--’ (१-३-७८) इति परस्मैपदम्। स्वार्थसन्नपि अर्थान्तरे भवति इत्यतः मानकः-निका, मानयिता-त्री, मानयन्-न्ती इत्यादीनि रूपाण्यूह्यानि।]]
08
=>
(८३२)
09
=>
[[४। ‘नप्तृनेष्टृ--’ (द। उ। २-३) इत्यादिना तृन्तृचोः प्रत्यययोः नकारलोपे रूपमेवम्। माता = जननी।]]
10
=>
[पृष्ठम्१०१८+ २८]