| YouTube Channel

निकटं (nikaTaM)

 
शब्दकल्पद्रुमः
Sanskrit
निकटं, त्रि, (नि समीपे कटतीति नि + कट +अच् ।) अदूरम् तत्पर्य्यायः समीपम् २आसन्नम् सन्निकृष्टम् सनीडम् इत्य-मरः ६६
अभ्यासः सवेशः ७अन्तः अन्तिकः समर्य्यादः १० सदेशः ११अभ्यस्रः १२ अभ्यर्णः १३ सविधा १४ उप-कण्ठः १५ अभितः १६ इति शब्दरत्नावली
(यथा, शान्तिशतके ।“दिवसरजनीकूलच्छेदैः पतद्भिरनारतंवहति निकटे कालः स्रोतःसमस्तभयावहम् ।इह हि पततां नास्त्यालम्बो चापि निवर्त्तनंतदिह महतां कोयं मोहो यदेष मदाविलः
”तद्वैदिकपर्य्यायः तलित् आसात् अम्ब-रम् ओर्व्वसे अस्तमीके आके उपाके ७अर्व्वाके अन्तमानाम् अवमे १० उपमे ११ ।इत्येकादशान्तिकनामानि इति वेदनिघण्टौ २अध्यायः