| YouTube Channel

निऋति (niRti)

 
Apte Hindi
Hindi
निऋतिः
पुं*
- निर्+ऋ+क्तिन्
"क्षय, नाश, विघटन"
निऋतिः
पुं*
- निर्+ऋ+क्तिन्
"संकट, अनिष्ट, विपदा, विपत्ति"
निऋतिः
पुं*
- निर्+ऋ+क्तिन्
"अभिशाप, आक्रोश"
निऋतिः
पुं*
- निर्+ऋ+क्तिन्
"मृत्यु, मूर्तिमान् विनाश, म्रुत्यु या विनाश की देवी, दक्षिण-पश्चिम कोण की अधिष्ठात्री देवी"
वाचस्पत्यम्
Sanskrit
निऋ(रृ)ति
पु०
नियता ऋतिर्घृणा यत्र प्रा० व० रमध्यो वा ।१ दक्षिणपश्चिमविदिक्पतौ “मृगव्याधश्च सर्पश्च निरृतिश्चमहायशाः” भा० आ० ६६ अ० अलक्ष्म्याम् स्त्री निरु-पद्रवे
त्रि०
अधर्मस्य भार्य्यायां स्त्री “अधर्सस्तत्र संजातःसर्वशुभविनाशकः तस्यापि निरृतिर्भार्य्या नैरृता येनराक्षसाः” भा० आ० ६६ अ० अधर्मस्य कन्यायाञ्च स्त्री“हिंसा भार्य्या त्वधर्मस्य तस्यां जज्ञे तथाऽनृतम् ।कम्या निरृतिस्तस्यां सुतौ द्वौ नरकं भयम्” मार्क-ण्डेयपु० अ० मृत्युभार्य्यायाम् “निरृतिश्च तथाचान्या मृत्योर्भार्य्याऽभवनुमुने!” तत्रैवाध्याये ।अलक्ष्मीश्च लक्ष्म्या ज्येष्ठा भगिनी अश्वत्थशब्दे ५०६ पृ०दृश्यम् मूलानक्षत्रे तस्य तद्देवताकत्वात् तथात्वम् ।निरृतिर्लोकपालश्च पिङ्गाक्षव्याधः कार्पटिकादीनांरक्षर्थं यतमानस्ताराक्षण तत्पितृव्येन धातितःमरणकाले तेषामाधिपत्यं लभेयमितीच्छया प्राणविमोच-नात् तदीशतामाप तत्कथा काशीख० १२ अ० यथा “असू-दयिष्यमेतांस्तदभविष्यं यदीश्वरः अभिलव्योन्नतिंप्राणानत्याक्षीत् परार्थतः या मतिस्त्वन्तकालेस्याद्गतिस्तदनुरूपतः दिगीशत्वमतः प्राप्तो नैरृत्यांनैरृतेश्वरः” इति एतल्लोकप्राप्तिकारणादिकं तत्रैव यथा“दिक्पतेनैरृतस्यासौ पुण्यापुण्यजनोषिता राक्षसानिवसन्त्यस्यामपरद्रोहिणः सदा जातिमात्रेण रक्षांसिवृत्तैः पुण्यजना इमे अत्यक्तश्रुतिवर्त्मानो जाता वर्णावरेष्यपि नाद्रियन्तेऽन्नपानानामस्मृत्युक्तं कदाचन ।परदारपरद्रव्यपरद्रोहपराङ्मुखाः जाता जातौनिकुष्टायामपि पुण्यानुसारिणः द्विजातिभक्त्युत्पन्ना-न्नैरात्मानं पोषयन्ति ये सदा सङ्कुचिताङ्गाश्च द्विजस-म्भाषणादिशु आहूता हृष्टवदना वदन्ति द्विजसन्निधौ ।जय जीव भगोनाथ स्वामिन्निति हि वादिनः तीर्थस्नानपरानित्यं नित्यदेवपरायणाः द्विजेषु नित्यंप्रणताः स्वनामाख्यानपूर्वकम् दमदानदयाक्षान्तिशौ-चेन्द्रियविनिग्रहाः अस्तेयसत्याऽहिंसाश्च सर्वेषांधर्महेतवः नवस्वेषु सदोद्युक्ता ये जातायत्र कुत्रचित् ।सर्वभोगसमृद्धास्ते वसन्त्यत्र पुरोत्तमे म्लेच्छा अपिमुतीर्थेषु ये मृता नात्मघातकाः विहाय काशीं निर्वाणविश्राणान्तेऽत्र भोमिनः अन्धन्तमो विशेयुस्ते ये चैवा-त्यहनो जनाः भुक्त्वा निरयसाहस्रं ते स्युर्ग्राम-श्रूकराः आत्मथातो कर्त्तव्यस्तस्मात् क्वापि विप-श्चिता इहापि परत्रापि शुभान्यात्मधातिनाम् ।यथेष्टमरणं केचिदाहुस्तत्त्वावबोधकाः प्रयागे सर्वती-र्थानां राज्ञि सर्वाभिलाषदे अन्त्यजा अपि ये केचि-द्दयाधर्मानुसारिणः परोपकृतिनिष्ठास्ते वसन्त्यत्र तुसत्तमाः अस्य स्वरूपं वक्ष्यावो दिक्पतेः क्षणतःशृणु मध्येविन्धाटवि पुरा पक्वणस्य जनाग्रणीः ।पल्लीपतिरभूदुग्रः पिङ्गाक्ष इति विश्रुतः निर्विन्ध्याया-स्तटे शूरः क्रूरकर्मपराङ्मुखः”