| YouTube Channel

निःस्नेहः (niHsnehaH)

 
शब्दकल्पद्रुमः
Sanskrit
निःस्नेहः, त्रि, (निर्नास्ति स्नेहो यस्य ।) स्नेह-शून्यः यथा निःस्नेहं कीटदूषितमित्यादिस्मृतिः
(यथा, रामायणे ४९ ।“अहो दशरथो राजा निःस्नेहः स्वसुतं प्रति
”रसहीनः यथा, मनुः ८७ ।“नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति ।आम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा
”तैलविहीनः यथा, पञ्चतन्त्रे ९४ ।“शिरसा विधृता नित्यं स्नेहेन परिपालिताः ।केशा अपि विरज्यन्ते निःस्नेहाः किं नसेवकाः
”)