| YouTube Channel

नासारोगः (nAsArogaH)

 
अमरकोशः
Sanskrit
Word: नासारोगः
Root: नासारोगः
Gender: undefined
Number: undefined
Meaning(s):
cold
catarrh
Shloka(s):
2|6|51|2 क्षयः शोषश्च यक्ष्मा प्रतिश्यायस्तु पीनसः॥ (मनुष्यवर्गः)
Synonym(s):
2|6|51|2 प्रतिश्यायः (प्रतिश्याय) (पुं)
2|6|51|2 पीनसः (पीनस) (पुं)
Related word(s):
परा_अपरासंबन्धः रोगः
जातिः अवस्था
शब्दकल्पद्रुमः
Sanskrit
नासारोगः,
पुं,
(नासाया रोगः ।) नासिका-व्याधिः “अथ नासारोगाधिकारः तत्र नासा-रोगाणां नामानि संख्याञ्चाह ।आदौ पीनसः प्रोक्तः पूतिनस्यस्ततः परम् ।नासापाकोऽत्र गणितः पूयशोणितमेव
क्षवथुर्भ्रंशथुर्दीप्तिः प्रतीनाहः परिस्रवः ।नासाशोषः प्रतिश्यायाः पञ्च सप्तार्व्वुदानि
चत्वार्य्यर्शांसि चत्वारः शोथाश्चत्वारितानि ।रक्तपित्तानि नासायां चतुस्त्रिंशद्गदाः स्मृताः
तेषु पीनसस्य लक्षणमाह ।आनह्यते शुष्यति यस्य नासाप्रक्लेदमायाति धूप्यते ।न वेत्ति यो गन्धरसांश्च जन्तु-र्ज्जुष्टं व्यवस्येदिह पीनसेन
आनह्यते श्वासंशोषितकफेनावध्यते अवरुद्धतइति यावत् प्रक्लेदं आर्द्रताम् धूप्यते सन्ता-प्यते गन्धरसान् गन्धान् सुरभीनसुरभींश्च नवेत्ति नासाया आनद्धत्वं तत्र हेतुः तथारसान् मधुरादींश्च वेत्ति नासारोगा-रम्भकदोषेण रसनाया अपि दुष्टेः व्यवस्येत्जानीयात् अपीनसपीनसौ द्बावपि शब्दौस्तः
*
अनुक्तसंग्रहार्थमाह ।तञ्चानिलश्लेष्मभवं विकारंब्रूयात् प्रतिश्यायसमानलिङ्गम् ।तं विकारं पीनसं प्रतिश्यायसमानलिङ्गं वात-श्लेष्मकप्रतिश्यायतुल्यलक्षणम्
पूतिनस्यमाह ।दोषैर्व्विदग्धैर्गलतालुमूलेसन्दूषितो यस्य समीरणस्तु ।निरेति पूतिर्म्मुखनासिकाभ्यांतं पूतिनस्यं प्रवदन्ति रोगम्
दोषैः पित्तकफरक्तैः अत्र रक्तस्यापि दोषत्वंदोषसाहचर्य्यात् विदग्धैर्द्वुष्टैः संदूषितःपूतिभावं नीतः पूतिनस्यं नासायां भवो नस्योवायुः पूतिर्नस्यो यत्र पूतिनस्यस्तम्
*
नासापाकमाह ।घ्राणाश्रितं पित्तमरूंषि कुर्य्यात्यस्मिन् विकारे बलवांश्च पाकः ।तं नासिकापाकमिति व्यवस्येत्विक्लेदकोथावथवापि यत्र
विक्लेद आर्द्रता कोथः पूतिभावः
*
पूयरक्तमाह ।दोषैर्व्विदग्धैरथवापि जन्तो-र्ललाटदेशेऽभिहतस्य तैस्तैः ।नासा स्रवेत् पूयमसृग्विमिश्रंतं पूयरक्तं प्रवदन्ति रोगम्
क्षवथुमाह ।घ्राणाश्रिते मर्म्मणि संप्रदुष्टोयस्यानिलो नासिकया निरेतिकफानुजातो बहुशोऽतिशब्द-स्तं रोगमाहुः क्षवथुं गदज्ञाः
घ्राणाश्रिते मर्म्मणि शृङ्गाटके
*
दोषजं क्षवथुमभिधायागन्तुजं क्षवथुमाह ।तीक्ष्णोपयोगाद्तिजिघ्रतो वाभावान् कटूनर्कनिरीक्षणाद्बा ।सूत्रादिभिर्व्वा तरुणास्थिमर्म्म-ण्युद्धर्वितेऽन्यः क्षवथुर्निरेति
तीक्ष्णोपयोगात् राजिकादिभक्षणात् अर्क-निरीक्षणात् सूर्य्यदर्शनात् तेन कफविलेपनात् ।तरुणास्थि नासावंशास्थि मर्म्मणि शृङ्गाटके ।द्वन्द्रेनैकत्वम् अन्यः आगन्तुजः
*
भ्रंशथुमाह ।प्रभ्रंशते नासिकया तु यस्यसान्द्रो विदग्धो लवणः कफस्तु ।प्राक् सञ्चितो मूर्द्धनि पित्ततप्तेतं भ्रंशथुं व्याधिमुदाहरन्ति
दीप्तिमाह ।घ्राणे भृशं दाहसमन्विते तुविनिःसरेत् धूम इवेह वायुः ।नासाप्रदीप्तेव यस्य जन्तो-र्व्याधिन्तु दीप्तिं तमुदाहरन्ति
प्रदीप्तेव प्रज्वलितेव
*
प्रतीनाहमाह ।उच्छ्वासमार्गन्तु कफः सवातोरुन्ध्यात् प्रतीनाहमुदाहरेत्तम्
सावमाह ।घ्राणाद्घनः पीतसितस्तनुर्व्वादोषः स्रवेत् स्रावमुदाहरेत्तम्
नासाशोषमाह ।घ्राणाश्रिते श्लेष्मणि मारुतेनपित्तेन गाढं परिशोषिते ।कृच्छ्राच्छ्वसित्यूर्द्ध्वमधश्च जन्तु-र्यस्मिन् नासापरिशोष उक्तः
प्रतिश्यायमाह तस्य निदानं द्विविधम् एकंसद्योजनकं तद्बल वत्त्वेन चयं नापेक्षते यतउक्तम् ।न केवलं चयं प्राप्य दोषाः कुप्यन्ति देहिनाम् ।अन्यदापि हि कुप्यन्ति हेतुबाहुल्यतोरणात्
हेतूनां बाहुल्येन त्वराकरणात् अपरं चयादि-क्रमेण जनकम् चयादिक्रमो यथा निदा-नात् सञ्चयः सञ्चयात् प्रकोपः प्रकोपात् प्रसरःप्रसरात् स्थानसंश्रयः ततो व्यक्तिः ततो भेदइति
*
तत्र प्रतिश्यायस्य सद्योजनक-निदानपूर्व्विकां संप्राप्तिमाह ।संधारणा जीर्णरजोऽति भावात्क्रोधर्त्तुवैषम्यशिरोऽभितापैः ।संजागरातिस्वपनाम्बुशीता-वश्यायकैर्म्मैथुनवास्पसेकैः
संस्यातदोषैः शिरसि प्रवृद्धोवायुः प्रतिश्यायमुदीरयेत्तु ।सन्धारणा मूत्रपुरीषधारणा रजो धूलिः ।तच्च नासाप्रविष्टं हेतुः ऋतुवैषम्यं ऋतुचर्य्या-विपरीताचरणम् शिरोऽभितापः शिरसो-ऽभितापो येन धूमादिना सः अवश्याय-स्तुषारः वास्पसेको रोदनम् संस्त्यानदोषैःशिरसि संहतकफैः
*
चयादिक्रमजनक-निदानपूर्व्विकां संप्राप्तिमाह ।चयं गता मूर्द्धनि मारुतादयःपृथक् समस्ताश्च तथैव शोणितम् ।प्रकोप्यमाणा विविधैः प्रकोपणै-स्ततः प्रतिश्यायकरा भवन्ति
पूर्व्वरूपमाह ।क्षवप्रवृत्तिः शिरसोऽभिपूर्णतास्तम्भोऽङ्गमर्दः परिहृष्टरोमता ।उपद्रवाश्चाप्यपरे पृथग्विधानृणां प्रतिश्यायपुरःसराः स्मृताः
शिरसोऽभिपूर्णता शिरसो भारेणेव व्याप्तिः ।अपरे पृथग्विधाः घ्राणधूमायनतालुविदारण-नासामुखस्रावादयो विदेहोक्ता बोद्धव्याः
*
वातिकस्य प्रतिश्यायस्य लक्षणमाह ।आनद्धापिहिता नासा तनुस्रावप्रसेकिनी ।गलताल्वोष्ठशोषश्च निस्तोदः शङ्खयोस्तथा
क्षवप्रवृत्तिरत्यर्थं वक्त्रवैरश्यमेव ।भवेत् स्वरोपघातश्च प्रतिश्यायेऽनिलात्मके
आनद्धास्तब्धा अपिहिता पिहिता अत-एव तनुस्रावप्रसेकिनी
*
पैत्तिकमाह ।उष्णः सपीतकः स्रावो घ्राणात् स्रवति पैत्तिके ।कृशोऽतिपाण्डुः सन्तप्तो भवेदुष्माभिपीडितः ।नासया तु सधूमाग्निं वमतीव मानवः
सपीतकः ईषत्पीतकः
*
श्लैष्मिकमाह
घ्राणात् कफकृते श्वेतः कफः शीतः स्रवेद्बहुः ।शुक्लावभासः सूनाक्षो भवेद्गुरुशिरा नरः
गलताल्वोष्ठशिरसां कण्डूभिरतिपीडितः
*
सान्निपातिकमाह ।भूत्वा भूत्वा प्रतिश्यायो योऽकस्मात् सन्निवर्त्तते ।संपक्वो वाप्यपक्वो वा सर्व्वप्रभवः स्मृतः
अत्र यद्यपि दोषत्रयलिङ्गानि नोक्तानि तथापितानि ज्ञेयानि त्रिदोषजत्वात् अयमसाध्यः ।अतएवाह ।नृणां दुष्टः प्रतिश्यायः सर्व्वजश्च सिध्यति
दुष्टप्रतिश्यायलिङ्गमाह ।प्रक्लिद्यति मुहुर्नासा पुनश्च परिशुष्यति ।पुनरानह्यते वापि पुनर्विव्रियते तथा
निःश्वासो वाति दुर्गन्धो नरो गन्धान् वेत्ति ।एवं दुष्टं प्रतिश्यायं जानीयात् कृच्छ्रसाधनम्
आनह्यते विबद्धा भवति विव्रियत अविवद्धास्यात् क्लेदशोषविवन्धा नैककालं भवन्तिकिन्तु यदा यदा यद्यत् दोषाधिक्यं भवति तदातदा तत्तद्दोषकृतः बोद्धव्यः इति नविरोधः कृच्छ्रसाधनं असाध्यं कष्टसाध्यञ्च
*
रक्तजमाह ।रक्तजे तु प्रतिश्याये रक्तस्रावः प्रवर्त्तते ।पित्तप्रतिश्यायकृतैर्लिङ्गैश्चापि समन्वितः
ताम्राक्षश्च भवेत् जन्तुरुरोघातप्रपीडितः ।दुर्गन्धोच्छ्वासवक्त्रश्च गन्धानपि वेत्ति सः
ऊरोघातप्रपीडितः ऊरोघातेनेव प्रपीडितः
अप्रतीकारेण कालान्तरे सर्व्व एव प्रतिश्यायाअसाध्या भवन्तीत्याह ।सर्व्व एव प्रतिश्याया नरस्याप्रतिकारिणः ।दुष्टतां यान्ति कालेन तदासाध्या भवन्ति हि
प्रतिश्यायेषु कृमयोऽपि भवन्तीत्याह ।मूर्च्छन्ति कृमयश्चात्र श्वेताः स्निग्धास्तथाणवः ।कृमितो यः शिरोरोगस्तुल्यं तेनात्र लक्षणम्
अत्र एषु प्रतिश्यायेषु कफस्य प्राधान्यात्सर्व्वेषु प्रतिश्यायेषु कफजा एव कृमयो भव-न्तीति
*
श्वेताः स्निग्धाश्च वृद्धाः प्रति-श्याया अपरानपि विकारान् कुर्व्वन्ति तानाह ।वाधिर्य्यमान्ध्यमघ्रत्वं घोरांञ्च नयनामयान् ।शोषाग्निमान्द्यकासांश्च वृद्धाः कुर्व्वन्ति पीनसम्
घोरांश्च नयनामयान् इति वचनेऽप्यान्ध्यग्रहणंविशेषार्थम् अघ्रत्वं जिघ्रतीत्यघ्रस्त्रस्य भावःअघ्रत्वम्
*
चतुस्त्रिंशत्संख्यापूरणायाह ।अर्व्वुदं सप्तधा शोथाश्चत्वारोऽर्शश्चतुर्व्विधम् ।चतुर्व्विधं रक्तपित्तमुक्तं घ्राणेऽपि तद्विदुः
अर्व्वुदानि सप्त वातपित्तकफसन्निपातरक्तमांस-मेदोजानि शोथाश्चत्वारो वातपित्तश्लेष्मसन्नि-पातजाः अर्शांसि चत्वारि वातपित्तश्लेष्मसन्नि-पातजानि रक्तपित्तानि चत्वारि वातपित्त-श्लेष्मसन्निपातजानि एतानि यथोक्तलिङ्गानिघ्राणेऽपि सम्भवन्ति
*
चिकित्साभेदात्पीनसस्यामस्य लक्षणमाह ।शिरोगुरुत्वमरुचिर्नासास्रावस्तनुस्वरः ।क्षामः ष्ठीवति चाभीक्ष्णमामपीनसलक्षणम्
नासास्रावस्तनुस्वरः क्षाम इत्यन्वयः
*
अथ पक्वस्य पीनसस्य लक्षणमाह ।आमलिङ्गान्वितः श्लेष्मा घनः खेषु निमज्जति ।स्वरवर्णविशुद्धिश्च पक्वपीनसलक्षणम्
आमलिङ्गान्वितः श्लेष्मा आमलिङ्गैः शिरोगुरु-त्वादिभिर्युक्तः पश्चात् घनः निविडः अथचखेषु नासारन्ध्रेषु निमज्जति सक्तो भवति ।वर्णविशुद्धिः श्लेष्मणः प्रकृतिवर्णता
*
अथ नासारोगाणां चिकित्सा ।सर्व्वेषु सर्व्वकालं पीनसरोगेषु जातमात्रेषु ।मरिचं गुडेन दध्ना भुञ्जीत नरः सुखं लभते
कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवी ।एषां चूर्णं कषायं वा दद्यादार्द्रकजै रसैः
पीनसे स्वरभेदे नासास्रावे हलीमके ।सन्निपाते कफे वाते कासे श्वासे शस्यते
कलिङ्गहिङ्गुमरिचलाक्षास्वरसकट्फलैः ।कुष्ठोग्राशिग्रुजन्तुघ्नैरवपीडः प्रशस्यते
पीनसादिषु
व्योषचित्रकतालीशतिन्तिडीकाम्लवेतसम् ।सचव्याजाजितुल्यांशमेलात्वक्पत्रपादिकम्
व्योषादिकमिदं चूर्णं पुराणगुडमिश्रितम् ।पीनसश्वासकासघ्नं रुचिस्वरकरं परम्
इति व्योषादिवटी
व्याघ्रीदन्तीवचाशिग्रुसुरसाव्योपसिन्धुजैः ।सिद्धं तैलं नसि क्षिप्तं पूतिनस्यगदापहम्
इति व्याघ्रीतैलम्
शिग्रुसिंहीनिकुम्भानां बीजैः सव्योषसैन्धवैः ।विल्वपत्ररसैः सिद्धं तैलं स्यात् पूतिनस्यनुत्
निकुम्भा दन्ती पूतिनस्यनुत् नस्यात् इतिशिग्रुतैलम्
घृतगुग्गुलुमिश्रस्य सिक्थकस्य प्रयत्नतः ।धूमं क्षवथुरोगघ्नं भ्रंशथुघ्नञ्च निर्द्दिशेत्
शुण्ठीकुष्ठकणाविल्वद्राक्षाकल्ककषायवत् ।तैलं पक्वमथाज्यं वा स्यात् क्षवथुनाशनम्
नस्यं हितं निम्बरसाञ्जनाभ्यांदीप्ते शिरःस्वेदनमल्पशस्तु ।नस्ये कृते क्षीरजलावसेकान्शंसन्ति भुञ्जीत मुद्गयूषैः
*
नासास्रावे घ्राणयोश्चूर्णमुक्तंनाड्या देयं ये पीडाश्च पथ्याः ।तीक्ष्णा धूमा देवदार्व्वग्निकाभ्यांमांसं त्वाजं पथ्यमत्रादिशन्ति
१०
प्रतिश्यायेषु सर्व्वेषु गृहं वातविवर्ज्जितम् ।वस्त्रण वारुणोत्थेन शिरसो वेष्टनं हितम्
११
विडङ्गं सैन्धवं हिङ्गुगुग्गुलुः समनःशिला ।वचैतच्चूर्णमाघ्रातं प्रतिश्यायं विनाशयेत्
१२
घृततैलसमायुक्तं शक्तुधूमं पिबेन्नरः ।सधूमः स्यात्प्रतिश्यायकासहिक्काहरः परः
१३
प्रतिश्यायेषु सर्व्वेषु शीतलं परमौषधम् ।प्रतिश्याये पिबेद्धूमं सर्व्वगन्धसमायुतम्
१४
चातुर्यातकचर्णं वा घ्रेयं वा कृष्णजीरकम् ।कृष्णजीरकमत्र कलौजी
१५
पुटपक्वं जयापत्रं तैलसैन्धवसंयुतम् ।प्रतिश्यायेषु सर्व्वेषु शीलितं परमौषधम्
जयात्र विजया भङ्गेति यावत् शिलितंभुक्तम्
१६
पिप्पल्यः शिग्रुबीजानि विडङ्गमरिचानि ।अवपीडः प्रशस्तोऽयं प्रतिश्यायनिवारणे
१७
शिरसोऽभ्यञ्जनैः स्वेदैर्नस्यैर्म्मन्दोष्णभोजनैः ।वमनैर्घृतपानैश्च नान्यथा समुपाचरेत्
१८
कृमिघ्ना ये क्रमाः प्रोक्तास्तान् वै कृमिषु योज-येत् ।लावणानि कृमिघ्नानि भेषजानि बुद्धिमान्
१९
रक्तपित्तानि शोथाश्च तथार्शांस्यर्व्वुदानि ।नासिकायां स्युरेतेषां स्वं स्वं कुर्य्यात् चिकित्-सितम्
गृहधूमकणादारुक्षीरनक्ताह्वसैन्धवैः ।सिद्धं शिखरिबीजैश्च तैलं नासार्शसां हितम्
”इति भावप्रकाशे मध्यखण्डे चतुर्थभागः
(अथातो नासारोगविज्ञानीयमध्यायं व्याख्यामः ।“अवश्यायानिलरजो भाष्यातिस्वप्नजागरैः ।नीचात्युच्चोपधानेन पीतेनान्येन वारिणा
अत्यम्बुपानरमणच्छर्द्दिवाष्पग्रहादिभिः ।क्रुद्धा वातोल्वणा दोषा नासायां स्त्यानतांगताः
जनयन्ति प्रतिश्यायं वर्द्धमानं क्षयप्रदम् ।तत्र वातात् प्रतिश्याये मुखशोषो भृशं क्षवः
घ्राणोपरोधनिस्तोददन्तशङ्खशिरोव्यथाः ।कीटका इव सर्पन्ति मन्यते परितो भ्रुवौ
स्वरसादश्चिरात् पाकः शिशिराच्छकफस्रुतिः ।पित्तात्तृष्णाज्वरघ्राणपिटिकासम्भवभ्रमाः
नासाग्रपाको रुक्षोष्णस्ताम्रपीतकफस्रुतिः ।कफात् कासोऽरुचिः श्वासो वमथुर्गात्रगौरवम्
माधुर्य्यं वदने कण्डूः स्निग्धशुक्लघना स्रुतिः ।सर्व्वजो लक्षणैः सर्व्वैरकस्माद्वृद्धिशान्तिमान्
दुष्टं नासा शिराः प्राप्य प्रतिश्यायं करोत्यसृक् ।उरसः सुप्तता ताम्रनेत्रत्वं श्वासपूतिता
कण्डूः श्रोत्राक्षिनासासु पित्तोक्तश्चात्र लक्षणम् ।सर्व्व एव प्रतिश्याया दुष्टतां यान्त्युपेक्षिताः
यथोक्तोपद्रवाधिक्यात् ससर्व्वेन्द्रियतापनः ।साग्निसादज्वरश्वासकासोरःपार्श्ववेदनः
कुप्यत्यकस्माद्बहुशो मुखदौर्गन्ध्यशोफकृत् ।नासिकाक्लेदसंशोषशुद्धिरोधकरो मुहुः
पूयोपमा सितारक्तग्रथिता श्लेष्मसंस्रुतिः ।मूर्च्छन्ति चात्र कृमयो दीर्घस्निग्धसिताणवः
पक्वलिङ्गानि तेष्वङ्गलाघवं क्षवथोः शमः ।श्लेष्मा सचिक्वणः पीतो ज्ञानञ्च रसगन्धयोः
तीक्ष्णघ्राणोपयोगार्करश्मिसूत्रतृणादिभिः ।वातकोपिभिरन्यैर्वा नासिका तरुणास्थनि
विघट्टितेऽनिलः क्रुद्धो रुद्धः शृङ्गाटकं व्रजेत् ।निवृत्तः कुरुतेऽत्यर्थं क्षवथुं भृशं क्षवः
शोषयन्नासिकास्रोतः कफञ्च कुरुतेऽनिलः ।शूकपूर्णाभनासात्वं कृच्छ्रादुच्छ्वसनन्ततः
स्मृतोऽसौ नासिकाशोषो नासानाहे तु जायते ।नद्धत्वमिव नासायाः श्लेष्मरुद्धेन वायुना
निःश्वासोच्छ्वाससंरोधात् स्रोतसी संवृते इव ।पचेन्नासापुटे पित्तं त्वङ्मांसं दाहशूलवत्
सघ्राणपाकः स्रावस्तु तत्संज्ञः श्लेष्मसम्भवः ।अच्छोजलोपमोऽजस्रं विशेषान्निशि जायते
कफः प्रवृद्धो नासायां रुद्धा स्रोतांस्यपीनसम् ।कुर्य्यात् सघुर्घुरं श्वासं पीनसाधिकवेदनम्
अवेरिव स्रवत्यस्य प्रक्लिन्ना तेन नासिका ।अजस्रं पिच्छलं पीतं पक्वं सिङ्घाणकं घनम्
रक्तेन नासादग्धेन वाह्यान्तःस्पर्शनासहा ।भवेद्ध्वूमोपमोच्छ्वासा सा दीप्तिर्द्दहतीव
तालुमूले मलैदुष्टैर्मारुतो मुखनासिकात् ।श्लेष्मा पूतिर्निर्गच्छेत् पूतिनासं वदन्ति तम्
निचयादभिघाताद्वा पूयासृङ्नासिका स्रवेत् ।तत् पूयरक्तमाख्यातं शिरोदाहरुजाकरम्
पित्तश्लेष्मावरुद्धोऽन्तर्नासायां शोषयेन्मरुत् ।कफं शुष्कपुटतां प्राप्नोति पुटकन्तु तत्
अर्शोऽर्व्वुदानि विभजेत् दोषलिङ्गैर्यथायथम् ।सर्व्वेषु कृच्छ्राच्छ्वसनं पीनसः प्रततं क्षवः
सानुनासिकवादित्वं पूतिनासः शिरीव्यथा ।अष्टादशानामित्येषां यापयेद्दुष्टपीनसम्
”इत्युत्तरस्थाने एकोनविंशेऽध्याये वाभटेनोक्तम्
“शुद्धसूतं समादाय गन्धभागद्वयं ततः ।त्रिभागं टङ्गणञ्चापि विधभागचतुष्टयम्
पञ्चभागं यथा देयं मरिचस्य प्रयत्नतः ।शृङ्गवेररसैः पिष्ट्वा गुडिका पञ्चरक्तिका
अनुपानं हितं योज्यं सर्व्वरोगप्रशान्तये ।जलदोषोद्भवे रोगे महत्युग्रे जलोदरे
सन्निपातेषु रोगेषु नासाव्याधौ सपीनसे ।व्रणशोथे व्रणे चैव उपदंशे भगन्दरे
नीडीव्रणे ज्वरे चैव नखदन्तविघातके ।पञ्चामृतरसो योज्यः सर्व्वरोगप्रशान्तये
इति पञ्चामृतो रसः
”इति वैद्यकरसेन्द्रसारसंग्रहे नासारोगाधि-कारः
)