| YouTube Channel

नासागतरोग (nAsAgataroga)

 
वाचस्पत्यम्
Sanskrit
नासागतरोग
पु०
सुश्रुतोक्ते नासागतव्याधिभेदे यथा“अथातो नासागतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ।अषीनसः पूतिनस्यं नासापाक स्तथैव तथा-शोणितपित्त ञ्च पूयशोणित मेव क्षवथु र्भ्रंशथु ७-र्दीप्तो नासानाहः परिस्रवः १० नासाशोषेण ११सहिता दशैकश्चेरिता गदाः चत्वार्य्यर्शांसि चत्वारःशोफाः सप्तार्बुदानि प्रतिश्यायाश्च ये पञ्चवक्ष्यन्ते सचिकित्सिताः एकत्रिंशन्मितास्ते तु नासा-रोगाः प्रकीर्त्तिताः आनह्यते यस्य विधूप्यतेच पापच्यते क्लिद्यति चापि नासा वेत्ति यो गन्ध-रसांश्च जन्तुर्जुष्टं व्यवस्येत्तमपीनसेन तञ्चानिलश्ले-ष्मभवं विकारं ब्रूयात्प्रतिश्यायसमानलिङ्गम् दोषै-र्विदग्धैर्गलतालुमूले संबाहितो यस्य समीरणस्तु ।निरेति पूतिर्मुखनासिकाभ्यान्तं पूतिनस्यं प्रवदन्तिरोगम् घ्राणश्रितं पित्तमरूंषि कुर्य्याद्यस्मिन्विकारेबलवांश्च पाकः तं नासिकापाक मिति व्यवस्येद्विक्लेद-कोथावपि यत्र दृष्टौ चतुर्विधं द्विप्रभवं द्विमार्गंवक्ष्यामि भूयः खलु रक्तपित्तम् दौषैर्विदग्धैरथ वापिजन्तोर्ललाटदेशेऽभिहतस्य तैस्तु नासा स्रवेत् पूयमसृ-ग्विमिश्रं तं पूयरक्तं प्रवदन्ति रोगम् घ्राणाश्रितेमर्मणि सम्प्रदुष्टे यस्यानिलो नासिकया निरेति ।कफानुयातो बहुशः सशब्दस्तं रोगमाहुः क्षवथुं वि-धिज्ञाः तीक्ष्णोपयोगादतिजिघ्रतो वा भावान् क-टूनर्कनिरोक्षणाद्वा सूत्रादिभिर्वा तरुणास्थिमर्मण्यु-द्घाटिते यः क्षवथुर्निरेति प्रभ्रश्यते नासिकयैव यश्चसान्द्रो विदग्धो लवणः कफस्तु प्राक्सञ्चितो मूर्घ्निचपित्ततप्तं तं भ्रंशथुं व्याधिमुदाहरन्ति घ्राणे भृशंदाहसमन्विते तु विनिःसरेद्धूम इवेह वायुः नासाप्रदीप्तेव यस्य जन्तोर्व्याधिन्तु तं दीप्त मुदाहरन्ति ।कफावृतो वायुरुदानसंज्ञो यदा स्वमार्गे विगुणः स्थितःस्यात् घ्राणं वृणोतीव तदा रोगो नासाप्रतीनाह ९इति प्रदिष्टः अजस्नमच्छं सलिलप्रकाशं यस्याविवर्णंस्रवतीह १० नासा रात्रौ विशेषेन हि तं नासापरि-स्रावमिति व्यवस्येत् घ्राणश्रिते श्लेष्मणि मारुतेनपित्तेन गाढं परिशोषिते समुच्छसित्यूर्द्ध्वमधश्चकृच्छ्राद्यस्तस्य नासापरिशोष ११ उक्तः दोषैस्त्रिभिस्तैःपृथगेकशश्च ब्रूयात्तथार्शांसि तथैव शोफान् शालाक्यसिद्धान्तमवेक्ष्य वापि सर्वात्मकं सप्तकमर्बुदं तु रोगःप्रतिश्याय इह प्रदिष्टः वक्ष्यते पञ्चविधः पुरस्तात् ।शोफाश्च शोफविज्ञाने नासास्रोतोव्यवस्थिताः निदाने-ऽर्शांसि निर्दिष्टान्येवं तानि विभावयेत्”