| YouTube Channel

नावयितुम् (nAvayitum)

 
कृदन्तरूपमाला
Sanskrit
1 {@“णु स्तुतौ”@} 2 ‘--स्तुत्यां नुवति, नौति वा।।’ 3 इति देवः।
नावकः-विका, नावकः-विका, 4 नुनूषकः-षिका, 5 नुनावयिषकः-षिका, 6 नोनूयकः-यिका
7 नविता-त्री, नावयिता-त्री, नुनूषिता-त्री, नुनावयिषिता-त्री, नोनूयिता-त्री
8 नुवन्-नुवती, नावयन्-न्ती, नुनूषन्-न्ती, नुनावयिषन्-न्ती
-- नविष्यन्-न्ती-ती, नावयिष्यन्-न्ती-ती, नुनूषिष्यन्-न्ती-ती, नुनावयिषिष्यन्-न्ती-ती
-- 9 अनुवानः- 10, नावयमानः, 11 आनुनूषमाणः, नुनावयिषमाणः, नोनूयमानः
आनविष्यमाणः, नावयिष्यमाणः, आनुनूषिष्यमाणः, नुनावयिषिष्यमाणः, नोनूयिष्यमाणः
12 संनुत्-संनुतौ-संनुतः
-- -- -- -- 13 नुतः-नुतम्-नुतवान्, नावितः, नुनूषितः, नुनावयिषितः, नोनूयितः-तवान्
14 नावः, संनावी, नावः, नुनूषुः, नुनावयिषुः, 15 नोनुवः
नवितव्यम्, नावयितव्यम्, नुनूषितव्यम्, नुनावयिषितव्यम्, नोनूयितव्यम्
नवनीयम्
नावनीयम्, नुनूषणीयम्, नुनावयिषणीयम्, नोनूयनीयम्
16 नव्यम्-अवश्यनाव्यम्, नाव्यम्, नुनूष्यम्, नुनावयिष्यम्, नोनूय्यम्
ईषन्नवः-दुर्नवः-सुनवः
-- -- -- नूयमानः, नाव्यमानः, नुनूष्यमाणः, नुनावयिष्यमाणः, नोनूय्यमानः
17 नवः-प्रणवः, नावः, नुनूषः, नुनावयिषः, नोनूयः, नवितुम्, नावयितुम्, नुनूषितुम्, नुनावयिषितुम्, नोनूयितुम्
नुतिः, नावना, नुनूषा, नुनावयिषा, नोनूया
नवनम्, नावनम्, नुनूषणम्, नुनावयिषणम्, नोनूयनम्
नुत्वा, नावयित्वा, नुनूषित्वा, नुनावयिषित्वा, नोनूयित्वा
प्रणुत्य, प्रणाव्य, प्रणुनूष्य, प्रणुनावयिष्य, प्रणोनूय्य
नावम् २, नुत्वा २, नावम् २, नावयित्वा २, नुनूषम् २, नुनूषित्वा २, नुनावयिषम् २, नुनावयिषित्वा, नोनूयम्
नोनूयित्वा।
प्रासङ्गिक्यः
01
=>
(६८३)
02
=>
(२-अदादिः-१०३५। सक। सेट्। पर।)
03
=>
(श्लो। २४)
04
=>
[[१। ‘सनि ग्रहगुहोश्च’ (७-२-१२) इतीण्णिषेधः। ‘इको झल्’ (१-२-९) इति सनः कित्त्वम्। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः। कित्त्वात् गुणाभावः। एवं सर्वत्र सन्प्रत्ययविषये प्रक्रिया ज्ञेया।]]
05
=>
[[२। ण्यन्तात् सनि ‘ओः पुयण्--’ (७-४-८०) इति ज्ञापकादन्तरङ्गयोरपि वृद्ध्यावादेश- योः प्रागप्रवृत्तौ, ‘नु’ शब्दस्य द्वित्वे, अभ्यासे उकारश्रवणम्। एवं ण्यन्तात् सनि सर्वत्र ज्ञेयम्।]]
06
=>
[[३। यङि परतः ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः। एवं यङन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
07
=>
[[४। अस्य धातोरुदात्तत्वात् (सेट्त्वात्) ‘आर्धधातुकस्येड् वलादेः’ (७-२-३५) इतीटि गुणावादेशौ। एवं तव्यदादिष्वपि ज्ञेयम्।]]
08
=>
[[५। शतरि, ‘अदिप्रभृतिभ्यः शपः’ (२-४-७२) इति शपो लुकि, ‘अचिःश्नु--’ (६-४-७७) इत्युवङ्।]]
09
=>
[[६। ‘आङि नुप्रच्छ्योरुपसङ्ख्यानम्’ (वा। १-३-२१) इति शानच्। आङ्पूर्घकोऽयं धातुः उत्कण्ठापूर्वके शब्दने वर्तते।]]
10
=>
[[आ। ‘पतत्त्त्रिणः शुभा मन्द्रमानुवानास्त्वजिह्लदन्।।’ भ। का। ८। ६७।]]
11
=>
[[७। ‘पूर्ववत् सनः’ (१-३-६२) इति आङ्पूर्वकादस्मात् सन्नन्तादात्मनेपदम् शानच्।]]
12
=>
[[८। क्विपि, ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुक्। एवं ल्यप्यपि।]]
13
=>
[[९। ‘श्रयुकः क्किति’ (७-२-११) इति इण्णिषेधः। एवम्, क्त्वायाम्, क्तिन्यपि इण्णिषेधो ज्ञेयः।]]
14
=>
[पृष्ठम्०६३३+ २४]
15
=>
[[१। यङन्तात् पचाद्यचि (३-१-१३४), ‘यङोऽचि च’ (२-४-७४) इति लुकि, ‘न धातुलोप--’ (१-१-४) इति गुणनिषेधे उवङादेशः।]]
16
=>
[[२। ‘अचो यत्’ (३-१-९७) इति यति, ‘वान्तो यि प्रत्यये’ (६-१-७९) इति अवादेशः। अवश्यनाव्यम् इत्यत्र ‘ओरावश्यके’ (३-१-१२५) इति ण्यति आवादेशः।]]
17
=>
[[३। ‘ॠदोरप्’ (३-३-५७) इत्यप् भावे। प्रणवः इत्यत्र, ‘उपसर्गादसमासेऽपि णोपदेशस्य’ (८-४-१४) इति णत्वम्।]]