| YouTube Channel

नालिकेरः (nAlikeraH)

 
Wordnet
Sanskrit
Synonyms:
नारिकेलः, नालिकेरः, नारिकेरः, श्रीफलम्, नाडिकेलः, नारिकेली, पयोधरः, कौशिकफलम्, खानोदकम्, पुटोरकः, दाक्षिणात्यः
noun
फलप्रकारः यस्य कवचः कठीनः तथा यस्य सारः अतीव मधुरः।
"सः प्रतिदिने नारिकेलस्य जलं पिबति।"
Synonyms:
नारिकेलः, नालिकेरः, नारिकेरः, नाडिकेलः, नारिकेली, पयोधरः, कौशिकफलम्, खानोदकम्, पुटोरकः, दाक्षिणात्यः
noun
खर्जूरजातीयः वृक्षः यस्य फलं मधुरम् अस्ति।
"खर्जूरजातीयः वृक्षः यस्य फलं मधुरम् अस्ति।"
वैजयन्तीकोषः
Sanskrit
Word: नालिकेरः
Root: नालिकेर
Gender: पुं
Number: all
अर्थः
Meaning(s):
Coconut
Cocosmucifera
Tamil Tennai
Shloka(s):
3|3|220|1 हिन्तालस्तृणराजश्च नालिकेरे तु लाङ्गली। (भूमिकाण्डः/वनाध्यायः)
3|3|220|2 दाक्षिणात्योऽप्फलोऽबालः सुतङ्गः कूर्चकेसरः॥ (भूमिकाण्डः/वनाध्यायः)
3|3|221|1 सदाफलो बली चास्मिन् ह्रस्वे स्यात् कुड्डकोऽत्र तु। (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
3|3|220|1 नालिकेरः (नालिकेर) (पुं) Coconut
Cocosmucifera
Tamil Tennai
3|3|220|1 लाङ्गली (लाङ्गलिन्) (पुं) Coconut
Cocos nucifera
Tamil Tennai
3|3|220|2 दाक्षिणात्यः (दाक्षिणात्य) (पुं) Coconut
Cocos nucifera
Tamil Tennai
3|3|220|2 अप्फलम् (अप्फल) (नपुं) Coconut
Cocos nucifera
3|3|220|2 अबालम् (अबाल) (नपुं) Coconut
Cocos nucifera
3|3|220|2 सुतङ्गः (सुतङ्ग) (पुं) Coconut
Cocos nucifera
Tamil Tennai
3|3|220|2 कूर्चकेसरः (कूर्चकेसर) (पुं) Coconut
Cocos nucifera
Tamil Tennai
3|3|221|1 सदाफलः (सदाफल) (पुं) Coconut
Cocos nucifera
Tamil Tennai
3|3|221|1 बली (बलिन्) (पुं) Coconut
Cocos nucifera
Tamil Tennai
Related word(s):
अमरकोशः
Sanskrit
Word: नालिकेरः
Root: नालिकेर
Gender: पुं
Number: all
Meaning(s):
cocoa-nut tree or the cocoa-nut
Shloka(s):
2|4|168|2 तृणराजाह्वयस्तालो नालिकेरस्तु लाङ्गली॥ (वनौषधिवर्गः)
Synonym(s):
2|4|168|2 नालिकेरः (नालिकेर) (पुं)
2|4|168|2 लाङ्गली (लाङ्गली) (स्त्री)
Related word(s):
परा_अपरासंबन्धः वृक्षः
जातिः वृक्षः
शब्दकल्पद्रुमः
Sanskrit
नालिकेरः,
पुं,
(नारिकेलः रलयोरैक्यात् रस्यलः लस्य रश्च ।) नारिकेलः इत्यमरटीकायांरमानाथः
(क्वचित् क्लीवेऽपि दृश्यते यथास्यगुणाः ।“नालिकेरं सुमधुरं गुरुस्निग्धञ्च शीतलम् ।हृद्यं संबृंहणं वस्तिशोधनं रक्तपित्तनुत्
विष्टम्भि पक्वं मतिमन्नपक्वं कफवातलम् ।बृंहणं शीतलं वृष्यं नालिकेरफलं विदुः
”इति हारीते प्रथमे स्थाने दशमेऽध्याये
अस्य तोयगुणा यथा, --“नालिकेरोदकं स्निग्धं स्वादु वृष्यं हिमं लघु ।तृष्णापित्तानिलहरं दीपनं वस्तिशोधनम्
”इति वाभटे सूत्रस्थाने पञ्चमेऽध्याये
)