| YouTube Channel

नालं (nAlaM)

 
शब्दकल्पद्रुमः
Sanskrit
नालं,
क्ली,
(नलतीति नल बन्धे + “ज्वलिति-कसन्तेभ्यो णः ।” १४० इति णः ।)उत्पलादिदण्डः तत्पर्य्यायः नाला ।इत्यमरः २२
नाली नालिका४ इति भरतः
(यथा, रघुः १३ ।“कश्चित् कराभ्यामुपगूढनाल-मालोलपत्राभिहतद्बिरेफम् ।रजोभिरन्तःपरिवेषबन्धिलीलारविन्दं भ्रमयाञ्चकार
”अर्द्धर्च्चादित्वात् पुंलिङ्गोऽपि
) हरितालम् ।इति स्वामी
नले, पुं इति राजनिर्घण्टः