| YouTube Channel

नारिकेलक्षीरी (nArikelakSIrI)

 
Shabdartha Kaustubha
Kannada
नारिकेलक्षीरी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕಲ್ಲುಸಕ್ಕರೆ ಮತ್ತು ಹಸುವಿನ ತುಪ್ಪ ಕಲಸಿದ ತೆಂಗಿನಕಾಯಿಯ ತುರಿಯನ್ನು ಹಸುವಿನ ಹಾಲಿನಲ್ಲಿ ಪಕ್ವಮಾಡಿದ ಒಂದು ನಾರಿಕೇಲಪಾಕ
विस्तारः - > "नारिकेलं तनूकृत्य छिन्नं पयसि गोः क्षिपेत् सितागव्याज्यसंयुक्तं तत्पचेन्मृदुनाग्निना ।"
शब्दकल्पद्रुमः
Sanskrit
नारिकेलक्षीरी,
स्त्री,
(नारिकेलोद्भवा क्षीरी ।)सितागव्याज्यसंयुक्तगोदुग्धपक्वसूक्ष्मीकृतनारि-केलखण्डम् यथा, --“नारिकेलं तनूकृत्य छिन्नं पयसि गोः क्षिपेत् ।सितागव्याज्यसंयुक्तं तत्पचेन्मृदुनाग्निना
”तस्या गुणाः ।“नारिकेलोद्भवा क्षीरी स्निग्धा शीतातिपुष्टिदा ।गुर्व्वी सुमधुरा वृष्या रक्तपित्तानिलापहा
”इति भावप्रकाशः
वाचस्पत्यम्
Sanskrit
नारिकेलक्षीरी स्त्री क्षीरिकाभेदे “नारिकेलं तनू-कृत्य च्छिन्नं पयसि गोः क्षिपेत् सितागव्याज्यसंयुक्तंतत् पचेन्मृदुनाग्निना नारिकेलोद्भवा क्षीरी स्निग्धाशीतातिपुष्टिदा गुर्वी सुमधुरा वृष्या रक्तपित्तानिला-पहा” भावप्र०