| YouTube Channel

नारिकेलः (nArikelaH)

 
Hindi
Hindi
नारियल (पु)
Wordnet
Sanskrit
Synonyms:
नारिकेलः, नालिकेरः, नारिकेरः, श्रीफलम्, नाडिकेलः, नारिकेली, पयोधरः, कौशिकफलम्, खानोदकम्, पुटोरकः, दाक्षिणात्यः
noun
फलप्रकारः यस्य कवचः कठीनः तथा यस्य सारः अतीव मधुरः।
"सः प्रतिदिने नारिकेलस्य जलं पिबति।"
Synonyms:
नारिकेलः, नालिकेरः, नारिकेरः, नाडिकेलः, नारिकेली, पयोधरः, कौशिकफलम्, खानोदकम्, पुटोरकः, दाक्षिणात्यः
noun
खर्जूरजातीयः वृक्षः यस्य फलं मधुरम् अस्ति।
"खर्जूरजातीयः वृक्षः यस्य फलं मधुरम् अस्ति।"
Synonyms:
नारिकेलः
noun
एकः द्वीपः
"नारिकेलस्य उल्लेखः महाभारते अस्ति"
Tamil
Tamil
நாரிகேல: : நாலிகேர: = நாரிகேர: = தென்னை மரம், தேங்காய்.
शब्दकल्पद्रुमः
Sanskrit
नारिकेलः,
पुं,
(किल श्वैत्ये क्रीडने + भावेघञ् नार्य्या रमण्याः केल इव सुखदायीकेलो यस्य पृषोदरादित्वात् ह्रस्वः ।) स्वनाम-प्रसिद्धफलवृक्षविशेषः तत्पर्य्यायः लाङ्गली ।इत्यमरः १६८
नारिकेरः नाडि-केलः नारीकेलः नारीकेली नारि-केरी इत्यादि भरतः नारिकेलिः ८सदापुष्पः शिरःफलः १० इति शब्दमाला
नालिकेरः ११ रसफलः १२ सुतुङ्गः १३ कूर्च्च-शेखरः १४ दृढनीलः १५ नीलतरुः १६ मङ्गल्यः१७ उच्चतरुः १८ तृणराजः १९ स्कन्धतरुः २०दाक्षिणात्यः २१ दुरारुहः २२ त्र्यम्बकफलः २३दृढफलः २४ इति राजनिर्घण्टः
कूर्च्च-शीर्षकः २५ तुङ्गः २६ स्कन्धफलः २७ उच्चः२८ सदाफलः २९ इति भावप्रकाशः
शिरा-फलः ३० करकाम्भाः ३१ पयोधरः ३२ मत्-कुणः ३३ कौषिकफलः ३४ फलमुण्डः ३५ चटा-फलः ३६ मुण्डफलः ३७ विश्वामित्रप्रियः ३८ ।इति शब्दरत्नावली
नारकेरः ३९ सुभङ्गः४० फलकेसरः ४१ इति जटाधरः
अस्यगुणाः गुरुत्वम् स्निग्धत्वम् शीतत्वम् ।पित्तनाशित्वञ्च
*
अर्द्धपक्वस्य तस्य गुणौ ।तृषाशोषशमनत्वम् दुर्ज्जरत्वञ्च
*
बाल-नारिकेलजलगुणाः लघुत्वम् शीतलत्वम् ।रसपाके मधुरत्वम् पित्तपीनसतृषास्रविदाह-भ्रान्तिशोषशमनत्वम् सुखदायित्वञ्च
*
पक्वनारिकेलजलगुणाः किञ्चित्पित्तकारित्वम् ।रुचिदत्वम् मधुरत्वम् दीपनत्वम् बल-करत्वम् गुरुत्वम् वृष्यत्वम् वीर्य्यवर्द्धन-त्वञ्च इति राजनिर्घण्टः
*
“नारिकेलफलं शीतं दुर्ज्जरं वस्तिशोधनम् ।विष्टम्भि वृंहणं बल्यं वातपित्तास्रदाहनुत्
विशेषतः कोमलनारिकेलंनिहन्ति पित्तज्वरमूत्रदोषान् ।तदेव जीर्णं गुरु पित्तकारिविदाहि विष्टम्भि मतं भिषग्भिः
तस्याम्भः शीतलं हृद्यं दीपनं शुक्रलं लघु ।पिपासापित्तजित् स्वादु वस्तिशुद्धिकरं परम्
”तस्य मस्तिष्कगुणाः ।“नारिकेलस्य तालस्य खर्ज्जूरस्य शिरांसि तु ।कषायस्निग्धमधुरवृंहणानि गुरूणि
”इति भावप्रकाशः
*
“बालस्य नारिकेलस्य जलं प्रायो विरेचनम्
”इति राजवल्लभः
*
कांस्यपात्रे तज्जलं मद्यतुल्यम् यथा, --“नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं मधु ।गव्यञ्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना
”इति कर्म्मलोचनम्