| YouTube Channel

नारायणास्त्रं (nArAyaNAstraM)

 
शब्दकल्पद्रुमः
Sanskrit
नारायणास्त्रं,
क्ली,
(नारायणस्यास्त्रम् ।) विष्णो-रस्त्रभेदः तत्स्वरूपं यथा, देवीपुराणे ।“तदा दानवनाथेन युक्तं नारायणं शरम् ।शङ्खचक्रगदाहस्तं खड्गपृष्ठव्यवस्थितम्
”अपि ।“ततो हरिहरं युद्धमभवद्रोमहर्षणम् ।रुद्रः पाशुपतास्त्रेण विव्याध हरिमोजसा
हरिर्नारायणास्त्रेण रुद्रं विव्याध कोपवान् ।नारायणं पाशुपतमुभेऽस्त्रे व्योम्नि रोषिते
पुयुधाते भृशं दिव्यं परस्परजिघांसया ।दिव्यं वर्षसहस्रन्तु तयोर्युद्धमभूत्तदा
तत्रैकं मुकुटोद्बद्धं मूर्द्धन्यजटजालकम् ।एकं प्रध्मापयच्छङ्खमन्यं डमरुकं शुभम्
एकं खड्गधरं तत्र तथान्यं दण्डधारिणम् ।एकं कौस्तभभीमाङ्गमन्यं भूतिविभूतिकम्
एकं गदां भ्रामयन्तं द्वितीयं दण्डमेव ।एकः शोभति कण्ठस्थैर्मणिभिस्त्वस्थिभिः परः ।एकं पीताम्बरं तत्र द्बितीयं सर्पमेखलम्
एवन्तौ स्पर्द्धिनावस्त्रौ रुद्रनारायणात्मकौ ।अन्योन्यातिशयोपेतौ तदा लोकपितामहः
उवाच शाम्यतामस्त्रे स्वस्वभावेन सुव्रते ।एवन्ते ब्रह्मणा चोक्ते शान्तभावं प्रजग्मतुः
तथा विष्णुहरौ ब्रह्मा वाक्यमेतदुवाच ।उभौ हरिहरौ देवौ लोके ख्यातिं गमिष्यतः
”इति वराहपुराणम्