नारायणबलिः (nArAyaNabaliH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritनारायणबलिः, (नारायणाय नारायणमुद्दिश्यदेयो बलिः ।) मृतपतितादीनां प्रायश्चित्ता-त्मककर्म्मविशेषः । यथा । “नारायणबलिस्तुहेमाद्र्याद्यनुसारेणोच्यते । तत्रादौ क्रियानिबन्धेगारुडे तर्पणमुक्तम् ।‘कार्य्यं पुरुषसूक्तेन मन्त्रैर्व्वा वैष्णवैरपि ।दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुमिति स्मरन् ॥
अनादिनिधनो देवः शङ्खचक्रगदाधरः ।अक्षयः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भव ॥
’इति शुक्लैकादश्यां देशकालौ सङ्कीर्त्त्य अमुक-गोत्रस्यामुकस्य दुर्म्मरणात्मघातजदोषनाशार्थंऔर्द्ध्वदेहिके संप्रदानत्वयोग्यतासिद्ध्यर्थं नारा-यणबलिं करिष्ये । इति सङ्कल्प्य ब्रह्माणं विष्णुंशिवं यमं प्रेतं पञ्चकुम्भेषु स्थापयेत् ।‘विष्णुः स्वर्णमयः कार्य्यो रुद्रस्ताम्रमयस्तथा ।ब्रह्मा रौप्यमयस्तत्र यमो लौहमयो भवेत् ॥
प्रेतो दर्भमयः कार्य्यः ।’ इति गारुडोक्तासु सर्व्वासुहैमीषु वा प्रतिमासु षोडशोपचारैः पुरुष-सूक्तेनाभ्यर्च्च्याग्निं प्रतिष्ठाप्य चरुं पुरुषसूक्तेनप्रतृयचं नारायणायेदमिति हुत्वा देवानामग्नेदक्षिणाग्रदर्भेषु विष्णुरूपं प्रेतं स्मरन् नाम-गोत्राभ्यां मधुघृततिलयुतान् दशपिण्डान् यज्ञो-पवीत्येव अमुकगोत्र अमुकशर्म्मन् प्रेत विष्णु-रूपाय ते पिण्ड उपतिष्ठतामिति दत्त्वा कुशैःपुरुषसूक्तेनाभिमन्त्र्य यत्ते यममिति सूक्तेनपिण्डाननुमन्त्र्य शङ्खोदकेन चाभिषिच्याभ्यर्च्च्या-मुकशर्म्माणममुकगोत्रं विष्णुरूपं प्रेतं तर्पयामीति पुरुषसूक्तेन प्रतृयचं तर्पयित्वा एक-मामान्नं ब्रह्मादिपञ्चभ्यो दद्यात् । मन्त्रस्तु ।‘ब्रह्मविष्णुमहादेवा यमश्चैव सकिङ्करः ।बलिं गृहीत्वा कुर्व्वन्तु प्रेतस्य च शुभां गति-मिति ॥
’मिताक्षरायान्तु होमबल्यादिना उक्तम् । ततःप्रतिदैवतं त्रिविधं फलं शर्करामधुगुडघृतानिच निवेद्य पिण्डानभ्यर्च्च्य नद्यां क्षिप्त्वा रात्रौ नवसप्त पञ्च वा विप्रान्निमन्त्र्योपोषितेन जागरणंकृत्वा श्वोभूते पुनर्व्विष्णुं यमं संपूज्यैकोद्दिष्ट-विधिना श्राद्धपञ्चकं करिष्ये इत्युक्त्वा ब्रह्मविष्णु-शिवयमप्रेतान् स्मरन् विप्रान् उपविश्य प्रेत-स्थाने चैकं विष्णुं स्मरन् आवाहनाद्यर्घ्ययुतंतृप्तिप्रश्नान्तं कृत्वोल्लेखनादि कृत्वान्नशेषेणब्रह्मणे विष्णवे शिवाय यमाय सपरिवारायचतुरः पिण्डान् दत्त्वा प्रेतनामगोत्रे स्मृत्वा विष्णु-नाम्ना पञ्चमं दत्त्वाभ्यर्च्च्याचान्तेभ्यो दक्षिणांदत्त्वैकं प्रेतं स्मृत्वा विशेषतः संतोष्य विप्रैःप्रेतायेदं तिलोदकमुपतिष्ठतामिति सतिलमुदकंदापयित्वा भुञ्जीतेति । अत्र विशेषान्तरं भट्ट-कृतान्त्येष्टिपद्धतौ ज्ञेयम् ॥
* ॥
सर्पहते तु वर्ष-पर्य्यन्तं पूर्व्वे ह्येकभक्तपूर्व्वं शुक्लपञ्चम्यामुपवासंनक्तं वा कृत्वा पिष्टमयं नागमनन्तवासुकिशङ्ख-पद्मकम्बलकर्क्कोटकाश्वतरधृतराष्ट्रशङ्खपालका-लियतक्षककपिलेति नामभिः प्रतिमासं संपूज्यपायसेन विप्रान् संभोज्य वत्सरान्ते हैमं नागंगाञ्च प्रत्यक्षाञ्च दत्त्वा नारायणबलिं कुर्य्यात् ।मूलन्तु हेमाद्रौ ज्ञेयम् ॥
* ॥
बौधायनसूत्रेसर्पमृतानां नमोऽस्तु सर्पेभ्य इति तिस्र आहु-तीर्हुत्वोदके मृतानां समुद्राय वरुणाय हुत्वेतिक्रियां कुर्य्यादिति शेषः । व्यासः ।सौवर्णभारनिष्पन्नं नागं कृत्वा तथैव गाम् ।व्यासाय दत्त्वा विधिवत् पितुरानृण्यमाप्तवान् ॥
’हेमाद्रौ भविष्ये ।‘पञ्चम्यां पन्नगं हैमं स्वर्णेनैकेन कारयेत् ।क्षीराज्यपात्रमध्यस्थं पूज्यविप्राय दापयेत् ॥
प्रायश्चित्तमिदं प्रोक्तं नागदष्टस्य शम्भुनेति ॥
’अपरार्कस्मृत्यन्तरे ।‘तदैव शुध्यति प्रेतो नारायणबलौ कृते ।यो ददाति क्रियापिण्डं तस्मै प्रेताय वै सुतः ।तस्यैवाशौचमुद्दिष्टं त्र्यहमेव न संशयः ॥
विष्णुश्राद्धसमाप्तौ तु त्रयोदश्यां दिनत्रयम् ।अशौचं पिण्डदः कुर्य्यान्न तु तद्बन्धुगोत्रजाः ॥
यस्य वै मृत्युकाले तु व्युच्छिन्ना सन्ततिर्भवेत् ।स वसेन्नरके नित्यं पङ्कमग्नः करी यथा ॥
’इत्युपक्रम्य, --‘बलिं नारायणं कुर्य्यात्तस्योद्देशेन भक्तिमान् ॥
’इति गारुडोक्तेरपुत्त्रस्यापि पत्न्याद्यैः कार्य्यइत्युक्तं देवयाज्ञिकेन ।” इति निर्णयसिन्धौ ५परिच्छेदः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
