| YouTube Channel

नारायणतैल (nArAyaNataila)

 
शब्दसागरः
English
नारायणतैल
n.
(-लं) An oil of great reputed efficacy in many complaints,
expressed from a variety of plants.
E.
नारायण and तैल oil.
Yates
English
नारायण-तैल (लं) 1.
n.
A particu-
lar oil made of many plants.
Wilson
English
नारायणतैल
n.
(-लं) An oil of great reputed efficacy in many
complaints, expressed from a variety of plants.
E.
नारायण, and तैल oil.
Monier Williams Cologne
English
नारायण—तैल See above.
शब्दकल्पद्रुमः
Sanskrit
नारायणतैलं,
क्ली,
(नारायणाख्यं तैलम् ।) औषध-पक्वतैलप्रभेदः तत्त्रिविधम् स्वल्पं बृहत्महच्च यथा, --“विल्वाग्निमन्थश्योनाकपाटलापारिभद्रकाः ।प्रसारण्यश्वगन्धा बृहती कण्टकारिका
बला चातिबला चैव श्वदंष्ट्रा सपुनर्नवा ।एषां दशपलान् भागान् चतुर्द्रोणेऽम्भसः पचेत्
पादशेषं परिस्राव्य तैलपात्रं प्रदापयेत् ।शतपुष्पा देवदारु मांसी शैलेयकं वचा
चन्दनं तगतं कुष्ठं एलापर्णी चतुष्टयम् ।रास्ना तुरगगन्धा सैन्धवं सपुनर्नवम्
एषां द्बिपलिकान् भागान् पेषयित्वा विनिः-क्षिपेत् ।शतावरी रसञ्चैव तैलतुल्यं प्रदापयेत्
आजं वा यदि वा गव्यं क्षीरं दत्ता चतुर्गुणम्
पाने वस्तौ तथाभ्यङ्गे भोज्ये चैव प्रशस्यते ।अश्वो वा वातसंभग्नो गजो वा यदि वा नरः
पङ्गुलः पीठसर्पी तैलेनानेन सिध्यति ।अधोभागे ये वाताः शिरोमध्यगताश्च ये ।दन्तशूले हनुस्तम्भे मन्यास्तम्भे गलग्रहे
यस्य शुष्यति चैकाङ्गं गतिर्यस्य विह्वला ।क्षीणेन्द्रिया नष्टशुक्रा ज्वरक्षीणाश्च ये नराः
वधिरा लल्लजिह्वाश्च मन्दमेधस एव ।अल्पप्रजा या नारी या गर्भं विन्दति
वातार्त्तौ वृषणौ येषामन्त्रवृद्धिश्च दारुणा ।एतत्तैलवरं तेषां नाम्ना नारायणं स्मृतम्
”इति स्वल्पनारायणतैलम्
*
“शतावरी चांशुमती पृश्निपर्णी शटी बला ।एरण्डस्य मूलानि बृहत्योः पूतिकस्य
गवेधुकस्य मूलानि तथा सहचरस्य ।एषां दशपलान् भागान् जलद्रोणे विपाचयेत्
पादशेषे रसे पूते गर्भं चैनं समावपेत् ।पुनर्नवा वचा दारु शताह्वा नन्दनागुरु
शैलेयं तगरं कुष्टं एला मांसी स्थिरा बला ।अश्वाह्वा सैन्धवं रास्ना पलार्द्धानि पेषयेत् ।गव्याजपयसः प्रस्थौ द्बौ द्वावत्र प्रदापयेत्
शतावरीरसप्रस्थं तैलप्रस्थं विपाचयेत् ।अस्य तैलस्य सिद्धस्य शृणु वीर्य्यमतःपरम्
अश्वानां वातभग्नानां कुञ्जराणां तथा नृणाम् ।तैलमेतत् प्रयोक्तव्यं सर्व्ववातनिवारणम्
आयुष्मांश्च नरः पीत्वा निश्चयेन दृढो भवेत् ।गर्भमश्वतरी विन्द्यात् किं पुनर्मानुषी तथा
हृच्छूलं पार्श्वशूलञ्च तथैवार्द्धावभेदकम् ।अपचीं गण्डमालाञ्च वातरक्तं हनुग्रहम्
कामलां पाण्डुरोगञ्च अश्मरीञ्चापि नाशयेत् ।तैलमेतद्भगवता विष्णुना परिकीर्त्तितम् ।नारायणमिति ख्यातं वातान्तकरणं शुभम्
”इति बृहन्नारायणतैलम्
*
“विल्वाश्वगन्धा बृहती श्वदंष्ट्राश्योनाकवाट्यालकपारिभद्रम् ।क्षुद्रा कठिन्यातिबलाग्निमन्थंमूलानि चैषां सरलीयुतानाम्
मूलं विदद्यादथ पाटलीनांप्रत्येकमेषां प्रवदन्ति तज्ज्ञाः ।सपादप्रस्थं विधिनोद्धृताञ्चद्रोणैरपामष्टभिरेव पक्त्वा
पादावशेषेण रसेन तेनतैलाढकाभ्यां सममेव दुग्धम् ।छागस्य मांसद्रवमेव तुल्य-मेकत्र सम्यग्विवचेत् सुबुद्धिः
दद्याद्रसञ्चैव शतावरीणांतैलेन तुल्यं पुनरेव तत्र ।रास्नाश्वगन्धा द्रुमदारु कुष्ठंपर्णी चतुष्कागुरुकेशराणि
सिन्धूत्थमांसी रजनीद्वयञ्चशैलेयकं चन्दनपुष्कराणि ।एला सयष्टी तगराब्दपत्रंभृङ्गाष्टवर्गास्तु वचा पलाशम्
स्थौणेयवृश्चीरकचोरकाख्य-मेभिः समस्तैर्द्धिपलप्रमाणैः ।कर्पूरकाश्मीरमृगाण्डजानांदद्यात् सुगन्धाय वदन्ति केचित्
प्रस्वेददौर्गन्ध्यनिवारणार्थंचूर्णीकृतानां द्बिपलप्रमाणम् ।आलोड्य सम्यग्विधिवद्विपक्वंनारायणं नाम महच्च तैलम्
*
सर्व्वैः प्रकारैर्विधिवत् प्रयोज्य-मश्वस्य पुंसां पवनार्द्दितानाम् ।ये पङ्गवः पीठविसर्पणाश्चएकाङ्गहीनार्द्दितवेपमानाः ।वाधिर्य्यशुक्रक्षयपीडिताश्चमन्याहनुस्तम्भशिरोगदार्त्ताः ।मुक्ता नरास्ते बलवर्णयुक्ताःसंसेव्य तैलं सहसा भवन्ति
बन्ध्या नारी लभते पुत्त्रंवीरोपमं सर्व्वगुणोपपन्नम् ।शाखाश्रिते कोष्ठगते वातेवृद्धौ विधेयं पवनार्द्दितानाम्
जिह्वानिले दन्तगते शूलेऔन्मादकौब्जे ज्वरकर्षितानाम् ।प्राप्नोति लक्ष्मीं प्रमदाप्रियत्वंजीवेच्चिरं चापि भवेद्युवेव
देवासुरे युद्धवरे समीक्ष्यस्नाय्वस्थिभग्नानसुरैः सुरांश्च ।नारायणेनापि स्वबृंहणार्थंस्वनामतैलं विहितन्तु तेषाम्
”इति महानारायणतैलम्
इति सुखबोधः