नारायणः (nArAyaNaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishनारायणः [nārāyaṇḥ], 1 An epithet of Viṣṇu
(the word is thus derived in 1.1. आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥) नारायणं नमस्कृत्य ...... ततो जयमुदीरयेत् * 1.1.1
नीरे नीरचरैः समं स भगवान् निद्राति नारायणः Jagannātha Paṇḍita.
of an ancient sage said to be a companion of Nara and to have produced Urvaśī from his thigh
ऊरूद्भवा नरसखस्य मुनेः सुरस्त्री 1.3
see नरनारायण under नर also.
of the second month (reckoning from मार्गशीर्ष).
णी An epithet of Lakṣmī the goddess of wealth.
An epithet of Durgā.
An epithet of Gaṅgā and Gaṇḍakī.
of a plant (Mar. शतावरी). -अस्त्रम् of a missile. -उपनिषद् of an Upaniṣad.
प्रियः of Śiva.
yellow sandal-wood. -बलिः an oblation given to five deities including नारायण in performing the funeral rites of a person dying a sinful death.
Apte 1890
Englishनारायणः 1 An epithet of Vishṇu
(the word is thus derived in Ms. 1. 10
आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥).
2 N. of an ancient sage said to be a companion of Nara and to have produced Urvaśī from his thigh: cf. ऊरूद्भवा नरसखस्य मुनेः सुरस्त्री V. 1. 3
see नरनारायण under नर also.
णी 1 An epithet of Lakṣmī the goddess of wealth.
2 An epithet of Durgā.
Comp.
प्रियः {1} N. of Śiva. {2} yellow sandal-wood.
Hindi
Hindiभगवान नारायण
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiनारायणः
- नारा अयनं यस्य ब* स*
विष्णु की उपाधि
नारायणः
- नारा अयनं यस्य ब* स*
"एक प्राचीन ऋषि का नाम जो ’नर’ के साथी थे तथा जिन्होंने अपनी जंघा से उर्वशी को पैदा किया- तु* उरुद्भवा नरसखस्य मुनेः सुरस्त्री- विक्रम* १/२, दे* ’नरनारायणं ’नर’ के अन्तर्गत)"
नारायणः
- -
"(भट्टनारायण)-वेणीसंहार का रचयिता। यह नवीं शताब्दी से पूर्व ही हुआ होगा, क्योंकि इसकी रचना का उल्लेख आनन्दवर्धन ने अपने ध्वन्यालोक में बहुत बार किया है।यह कवि अवन्तिवर्मा के राज्यकाल ८५५-८८४ ई०(राजतरंगिणी ५/३४) में हुआ है।"
Wordnet
Sanskrit नारायणः
पौराणिकः ऋषिविशेषः यः पुरुषसूक्तस्य रचयिता अस्ति।
"कथानुसारेण नारायणेन उरोः उर्वश्याः उत्पत्तिः कृता।"
कृष्णः, नारायणः, दामोदरः, हृषीकेशः, केशवः, माधवः, अच्युतः, गोविन्दः, जनार्दनः, गिरिधरः, दैवकीनन्दनः, माधवः, शौरिः, अहिजितः, योगीश्वरः, वंशीधरः, वासुदेवः, कंसारातिः, वनमाली, पुराणपुरुषः, मुकुन्दः, कंसारिः, वासुः, मुरलीधरः, जगदीशः, गदाधरः, नन्दात्मजः, गोपालः, नन्दनन्दनः, यादवः, पूतनारिः, मथुरेशः, द्वारकेशः, पाण्डवायनः, देवकीसूनुः, गोपेन्द्रः, गोवर्धनधरः, यदुनाथः, चक्रपाणिः, चतुर्भुजः, त्रिविक्रमः, पुण्डरीकाक्षः, गरुडध्वजः, पीताम्बरः, विश्वम्भरः, विश्वरुजः, सनातनः, विभुः, कान्तः, पुरुषः, प्रभुः, जितामित्रः, सहस्रवदनः
यदुवंशीय वसुदेवस्य पुत्रः यः विष्णोः अवतारः इति मन्यते।
"सूरदासः कृष्णस्य परमो भक्तः।"
विष्णुः, नारायणः, कृष्णः, वैकुण्ठः, विष्टरश्रवाः, दामोदरः, हृषीकेशः, केशवः, माधवः, स्वभूः, दैत्यारिः, पुण्डरीकाक्षः, गोविन्दः, गरुडध्वजः, पीताम्बरः, अच्युतः, शार्ङ्गी, विष्वक्सेनः, जनार्दनः, उपेन्द्रः, इन्द्रावरजः, चक्रपाणिः, चतुर्भुजः, पद्मनाभः, मधुरिपुः, वासुदेवः, त्रिविक्रमः, दैवकीनन्दनः, शौरिः, श्रीपतिः, पुरुषोत्तमः, वनमाली, बलिध्वंसी, कंसारातिः, अधोक्षजः, विश्वम्भरः, कैटभजित्, विधुः, श्रीवत्सलाञछनः, पुराणपुरुषः, वृष्णिः, शतधामा, गदाग्रजः, एकशृङ्गः, जगन्नाथः, विश्वरूपः, सनातनः, मुकुन्दः, राहुभेदी, वामनः, शिवकीर्तनः, श्रीनिवासः, अजः, वासुः, श्रीहरिः, कंसारिः, नृहरिः, विभुः, मधुजित्, मधुसूदनः, कान्तः, पुरुषः, श्रीगर्भः, श्रीकरः, श्रीमान्, श्रीधरः, श्रीनिकेतनः, श्रीकान्तः, श्रीशः, प्रभुः, जगदीशः, गदाधरः, अजितः, जितामित्रः, ऋतधामा, शशबिन्दुः, पुनर्वसुः, आदिदेवः, श्रीवराहः, सहस्रवदनः, त्रिपात्, ऊर्ध्वदेवः, गृध्नुः, हरिः, यादवः, चाणूरसूदनः, सदायोगी, ध्रुवः, हेमशङ्खः, शतावर्त्ती, कालनेमिरिपुः, सोमसिन्धुः, विरिञ्चिः, धरणीधरः, बहुमूर्द्धा, वर्धमानः, शतानन्दः, वृषान्तकः, रन्तिदेवः, वृषाकपिः, जिष्णुः, दाशार्हः, अब्धिशयनः, इन्द्रानुजः, जलशयः, यज्ञपुरुषः, तार्क्षध्वजः, षड्बिन्दुः, पद्मेशः, मार्जः, जिनः, कुमोदकः, जह्नुः, वसुः, शतावर्तः, मुञ्जकेशी, बभ्रुः, वेधाः, प्रस्निशृङ्गः, आत्मभूः, सुवर्णबिन्दुः, श्रीवत्सः, गदाभृत्, शार्ङ्गभृत्, चक्रभृत्, श्रीवत्सभृत्, शङ्खभृत्, जलशायी, मुरमर्दनः, लक्ष्मीपतिः, मुरारिः, अमृतः, अरिष्टनेमः, कपिः, केशः, जगदीशः, जनार्दनः, जिनः, जिष्णुः, विक्रमः, शर्वः
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
"एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।"
मल्लः, नारायणः
एकः राजा ।
"मल्लस्य उल्लेखः कोशे वर्तते"
शब्दकल्पद्रुमः
Sanskritनारायणः, (नारा जलं अयनं स्थानं यस्य ।अय गतौ + भावे ल्युट् । सर्म्वे गत्यर्थाः प्राप्त्य-र्थाश्च इति नियमात् नारस्य ज्ञानस्य मुक्तेर्वाअयनं प्राप्तिर्यस्मात् इति वा । “नराणां समूहोनारं तत्रायनं स्थानं यस्य नारायणः रेफात्परनकारस्य णत्वविधानात् सर्व्वप्राणिबुद्धि-गुहानिवासाच्छुद्धचैतन्यमित्यर्थः ।” इति शङ्कर-विजये नवमप्रकरणम् ।) विष्णुः । तस्य चत्वारोव्यूहाः । वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धाख्याः ।इति महाभारतम् ॥
वेदान्तमते । शुद्धान्त-र्यामिसूत्रविराडाख्याः ॥
तन्नामव्युत्पत्तिर्यथा, --“सारूप्यमुक्तिवचनो नारेति च विदुर्बुधाः ।यो देवोऽप्ययनं तस्य स च नारायणः स्मृतः ॥
नाराश्च कृतपापाश्चाप्ययनं गमनं स्मृतम् ।यतो हि गमनं तेषां सोऽयं नारायणः स्मृतः ॥
नारञ्च मोक्षणं पुण्यमयनं ज्ञानमीप्सितम् ।तयोर्ज्ञानं भवेद्यस्मात् सोऽयं नारायणः स्मृतः ॥
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०९ अः ॥
“आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।अयनं तस्य ताः पूर्व्वं तेन नारायणः स्मृतः ॥
”इति विष्णुपुराणम् ॥
यद्वा ।“नाराजातानि तत्त्वानि नाराणीति विदुबुधाः ।तान्येव चायनं तस्य तेन नारायणः स्मृतः ॥
”तथा ।“यच्च किञ्चिज्जगत् सर्व्वं दृश्यते श्रूयतेऽपि वा ।अन्तर्बहिश्च तत् सर्व्वं व्याप्य नारायणःस्थितः ॥
”तथा ।“प्रकृतेः पर एवान्यः स नरः पञ्चविंशकः ।तस्येमानि च भूतानि नाराणीति प्रचक्षते ॥
तेषामप्ययनं यस्मात्तस्मान्नारायणः स्मृतः ॥
”क्वचिन्मन्वन्तरे नरनामऋषेरपत्यतां गतः इतिनारायणः ॥
इत्यमरटीकायां भरतः ॥
* ॥
(“नराणामयनाच्चापि ततो नारायणः स्मृतः ॥
”इति महाभारते । ५ । ७० । १० ॥
)अस्य स्वरूपो यथा, --“श्रीकृष्णश्च द्विधारूपो द्बिभुजश्च चतुर्भुजः ।चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम् ॥
चतुर्भुजस्य पत्नी च महालक्ष्मीः सरस्वती ।गङ्गा च तुलसी चैव देवी नारायणप्रिया ॥
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ६४ अध्यायः ॥
तस्य ध्यानं यथा, --“ध्येयः सदा सवितृमण्डलमध्यवर्त्तीनारायणः सरसिजासनसन्निविष्टः ।केयूरवान् कनककुण्डणवान् किरिटीहारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥
”इत्यादित्यहृदयम् ॥
अपि च ।“शङ्खचक्रगदापद्मधरं कमललोचनम् ।शुद्धस्फटिकसङ्काशं क्वचिन्नीलाम्बुजच्छविम् ॥
गरुडोपरिशुक्लाब्जपद्मासनगतं हरिम् ।श्रीवत्सवक्षसं शान्तं वनमालाधरं परम् ॥
केयूरकुण्डलधरं किरीटमुकुटोज्ज्वलम् ।निराकारं ज्ञानगम्यं साकारं देहधारिणम् ॥
नित्यानन्दं निरानन्दं सूर्य्यमण्डलमध्यगम् ।मन्त्रेणानेन देवेशं विष्णुं भज शुभानने ! ॥
”इति कालिकापुराणे २२ अध्यायः ॥
तन्नाममाहात्म्यं यथा, --“नारायणाच्युतानन्तवासुदेवेति यो नरः ।सततं कीर्त्तयेत् भूमे ! याति मल्लयतां प्रिये ! ॥
”इति वराहपुराणम् ॥
“सकृन्नारायणेत्युक्त्वा पुमान् कल्पशतत्रयम् ।गङ्गादिसर्व्वतीर्थेषु स्नातो भवति निश्चितम् ॥
”इति श्रीकृष्णजन्मखण्डे १०९ अध्यायः ॥
“नारायणेति शब्दोऽस्ति वागस्ति वशवर्त्तिनी ।तथापि नरके मूढाः पतन्तीह किमद्भुतम् ॥
”इति महाभारतम् ॥
तस्य तुष्टिजनककर्म्माणि यथा, --श्रीकृष्ण उवाच ।“कर्म्मणा येन विप्रेन्द्र ! तुष्टिर्म्मे हृदि जायते ।क्रोधश्च तत् समस्तं ते कथयामि समासतः ॥
यो दयालुर्द्विजश्रेष्ट ! सर्व्वभूतेषु सर्व्वदा ।अहङ्कारेण हीनश्च तस्य तुष्टोऽस्म्यहं सदा ॥
कर्म्म कुर्य्यान्मदर्थं यो धर्म्मं भक्तिसमन्वितः ।व्रते यथार्थं पृच्छन्तं तस्य तुष्टोऽस्म्यहं सदा ॥
मिष्टं वस्तु समासाद्य दत्त्वा मे योऽत्ति मानवः ।मानापमानसदृशस्तस्य तुष्टोऽस्म्यहं सदा ॥
सर्व्वभूतशरीरस्थं यो मां जानाति मानवः ।परहिंसाविहीनो यस्तस्य तुष्टोऽस्म्यहं सदा ॥
कर्म्माणि कुरुते यस्तु सुविचार्य्य पुनः पुनः ।गोब्राह्मणहितैषी च तस्य तुष्ठोस्म्यहं सदा ॥
स्वयं निरुक्तं वचनं यत्नाद् यः परिपालयेत् ।प्रपन्नं पाति यत्नाद्यस्तस्य तुष्टोस्म्यहं सदा ॥
दानान्यनुपकारिभ्यो यो ददाति द्विजोत्तम ! ।मयि चित्तं सदा यस्य तस्य तुष्टोऽस्म्यहं सदा ॥
कर्म्मणा येन तुष्टोऽस्मि निरुक्तं तत् समासतः ॥
”तस्य रोषजनककर्म्माणि यथा, --“रुष्टोऽस्मि कर्म्मणा येन विप्र ! वच्मि शृणुष्वतत् ॥
परहिंसारतो यस्तु निर्द्दयः सर्व्वजन्तुषु ।अहंयुः सर्व्वदा क्रुद्धः स मां नयति शत्रुताम् ॥
असत्यभाषी क्रूरश्च परनिन्दापरस्तु यः ।परवर्त्तनविध्वंसी स मां नयति शत्रुताम् ॥
अदृष्टदोषौ पितरौ स्त्रीभ्रातृभगिनीस्तथा ।मोहात्त्यजति मूढो यः स मां नयति शत्रुताम् ॥
पितृनिर्भर्त्सनं यस्तु कुरुते मूढधीर्नरः ।गुर्व्ववज्ञाञ्च विप्रेन्द्र ! स मां नयति शत्रुताम् ॥
दम्पत्योर्भेदनं यस्तु हेतुमात्रेण केनचित् ।कुरुते ब्राह्मणश्रेष्ठ ! स मां नयति शत्रुताम् ॥
विप्रस्वं देवताद्रव्यं परद्रव्यञ्च मानवः ।हरते यस्तु विप्रेन्द्र ! स मां नयति शत्रुताम् ।आरामच्छेदिनो ये च जलाशयविलोपिनः ।ग्रामनाशकरा ये च तेषां रुष्टोऽस्म्यहं सदा ॥
परस्त्रियं समालोक्य विषादं यान्ति ये जनाः ।शृण्वन्ति पापचर्च्चां ये तेषां रुष्टोऽस्म्यहं सदा ॥
द्बिषन्त्यनाथं ये मूढा अनाथस्वं हरन्ति ये ।विश्वासघातिनो ये च तेषां रुष्टोऽस्म्यहं सदा ॥
ये च गोवीर्य्यहन्तारो वृषलीपतयश्च ये ।अश्वत्थघातिनो ये च तेषां रुष्टोऽस्म्यहं सदा ॥
ब्रह्मविष्णुमहेशानां मध्ये ये भेदकारिणः ।वेदनिन्दाकरा ये च तेषां रुष्टोऽस्म्यहं सदा ॥
एकादश्यां भुञ्जते ये मोहात् पापधियो नराः ।परदारानुरक्ता ये तेषां रुष्टोऽस्म्यहं सदा ॥
पापबुद्धिप्रदा ये च ये च मित्रद्रुहो द्विज ! ।धात्रीतरुञ्च ये घ्नन्ति तेषां रुष्टोऽस्म्यहं सदा ॥
दिवसे मैथुनं ये च कुर्व्वते काममोहिताः ।रजस्वलां स्त्रियं यान्ति तेषां रुष्टोऽस्म्यहं सदा ॥
ये च दृष्ट्वातुरां नारीं मोहाद्गच्छन्ति सत्तम ! ।व्रतख्याञ्च सदा ते मां नयन्ति शत्रुतां भुवि ॥
अमावास्यातिथौ ये च कुर्व्वते निशिभोजनम् ।भोजनद्बयमेकार्के तेषां रुष्टोऽस्म्यहं सदा ॥
आमिषं मैथुनं तैलममावास्यादिने द्विजाः ।न ये त्यजन्ति विप्रेन्द्र ! तेषां रुष्टोऽस्म्यहं सदा ॥
बहुनात्र किमुक्तेन संक्षेपात्ते वदाम्यहम् ।निन्दन्ति वैष्णवान् ये च तेषां रुष्टोऽस्म्यहंसदा ॥
”इति क्रियायोगसारे १८ अध्यायः ॥
अजामिलपुत्त्रः । यथा, --“कान्यकुब्जे द्बिजः कश्चिद्दासीपतिरजामिलः ।नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः ॥
तस्य प्रवयसः पुत्त्रा दश तेषान्तु योऽवमः ।बालो नारायणो नाम्ना पित्रोश्च दयितो भृशम् ॥
दूरे क्रीडनकासक्तं पुत्त्रं नारायणाह्वयम् ।प्लावितेन स्वरेणोच्चैराजुहावाकुलेन्द्रियः ॥
निशम्य म्रियमाणस्य मुखतो हरिकीर्त्तनम् ।भर्त्तुर्नाम महाराज ! पार्श्वदाः सहसापतन् ॥
विकर्षतोऽन्तर्हृदयाद्दासीपतिमजामिलम् ।यमप्रेष्यान् विष्णुदूता वारयामासुरोजसा ॥
”इति श्रीभागवते षष्ठस्कन्धे प्रथमाध्यायः ॥
सैन्यविशेषः । यथा, --“मत्संहननतुल्यानां गोपानामर्व्वुदं महत् ।नारायणा इति ख्याताः सर्व्वे संग्रामयोधिनः ॥
”“दुर्य्योधनश्च तत् सैन्यं सर्व्वमावारयत्ततः ।सहस्राणां सहस्रञ्च योधानां प्राप्य भारत ! ॥
”इति महाभारते । ५ । ७ अध्यायः ॥
धर्म्मपुत्त्रर्षिविशेषः । यथा, --“धर्म्मस्य दक्षदुहितर्य्यजनिष्ट मूर्त्त्यांनारायणो नर इति स्वतपःप्रभावः ॥
”इति श्रीभागवते । २ । ७ । ६ ॥
“दण्डग्रहणमात्रेण नरो नारायणो भवेत् ॥
”इति यतिधर्म्मः ॥
(कृष्णयजुर्व्वेदान्तर्गतोपनिषद्विशेषः । यथा, मुक्तिकोपनिषदि ।“गर्भो नारायणो हंसो बिन्दुर्नादशिरःशिखा ॥
”चूर्णौषधिविशेषः । यथा, भावप्रकाशे उदर-रोगाधिकारे ।“यवानी हपुषा धान्यं त्रिफला चोपकुञ्चिका ।कारवी पिप्पलीमूलमजगन्धा शटी वचा ॥
शताह्वा जीरको व्योषं स्वर्णक्षीरी च चित्रकम् ।द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम् ॥
विडङ्गञ्च समांसानि दण्ड्या भागत्रयं भवेत् ।त्रिवृद्बिशाले द्बिगुणे सातला स्याच्चतुर्गुणा ॥
एष नारायणो नाम्ना चूर्णो रोग गणापहः ।एनं प्राप्य निवर्त्तन्ते रोगा विष्णुमिवासुराः ॥
तक्रेणोदरभिः पेयो गुल्मिभिर्व्वादराम्बुना ।आनद्धवाते सुरया वातरोगे प्रसन्नया ॥
दधिमण्डेन विड्बन्धे दाडिमाम्बुभिरर्शसे ।परिकर्त्तेषु वृक्षाम्लैरुष्णाम्बुभिरजीर्णके ॥
भगन्दरे पाण्डुरोगे कासे श्वासे गलग्रहे ।हृद्रोगे ग्रहणीरोगे कुष्ठे मन्देऽनले ज्वरे ॥
दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे ।यथार्हं स्निग्धकोष्णेन पेयमेतद्विरेचनम् ॥
”)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
