| YouTube Channel

नारदः (nAradaH)

 
Apte
English
नारदः [nāradḥ], [नरस्य धर्मो नारं, तत् ददाति दा-क]
N.
of a celebrated Devarṣi (deified saint or divine sage). [He is one of the ten mind-born sons of Brahmā, being supposed to have sprung from his thigh (Ms.* 1. 35). He is represented as a messenger from the gods to men and vice versa and as being very fond of promoting discords among gods and men
hence his epithet of Kalipriya. He is said to have been the inventor of the lute or Vīṇā. He is also the author of a code of laws which goes by his name.]
Comp.
-उपनिषद्
N.
of a Upaniṣad.
Apte 1890
English
नारदः [नरस्य धर्मो नारं, तत् ददाति दा-क] N. of a celebrated Devarṣi (deified saint or divine sage). [He is one of the ten mind-born sons of Brahmā, being supposed to have sprung from his thigh. He is represented as a messenger from the gods to men and vice versa, and as being very fond of promoting discords among gods and men
hence his epithet of Kalipriya. He is said to have been the inventor of the lute or Vina. He is also the author of a code of laws which goes by his name].
Hindi
Hindi
नारद
Apte Hindi
Hindi
नारदः
पुं*
- "नरस्य धर्मो नारं, तत् ददाति- दा + क"
"प्रसिद्ध देवर्षि का नाम, दिव्य ऋषि, सन्त महात्मा जिसने देवत्व प्राप्त किया। "
Wordnet
Sanskrit
Synonyms:
नारदः
noun
विश्वमित्रस्य पुत्रः।
"नारदस्य वर्णनं पुराणे दृश्यते।"
Synonyms:
नारदः
noun
एकः गन्धर्वः।
"नारदः कश्यपऋषेः पुत्रः अस्ति।"
Synonyms:
नारदः
noun
देवर्षिः।
"ब्रह्मणः पुत्रः नारदः।"
वैजयन्तीकोषः
Sanskrit
Word: नारदः
Root: नारद
Gender: पुं
Number: all
अर्थः देवर्षिः
Meaning(s):
Devine sage
dēvarṣi
Shloka(s):
1|3|7|2 सनत्कुमारो वैधात्रो नारदः कलहप्रियः॥ (स्वर्गकाण्डः/यक्षाद्यध्यायः)
Synonym(s):
1|3|7|2 नारदः (नारद) (पुं) Devine sage
dēvarṣi देवर्षिः
1|3|7|2 कलहप्रियः (कलहप्रिय) (पुं) Devine sage
dēvarṣi देवर्षिः
Related word(s):
अन्यसंबन्धाः देवः
जातिः ऋषिः
शब्दकल्पद्रुमः
Sanskrit
नारदः,
पुं,
(नारं परमात्मविषयकं ज्ञानं ददा-तीति दा + कः यद्वा, नारं नरसमूहं द्यतिखण्डयति कलहेनेति दो + कः नारं जलंददाति पितृभ्य इति वा तदुक्तम्, --“नारं पानीयमित्युक्तं तत् पितृभ्यः सदा भवान् ।ददाति तेन ते नाम नारदेति भविष्यति
”)देवर्षिविशेषः तु भोगाशी ब्रह्मशापादुप-वर्हणनामा गन्धर्व्वो भूत्वा पुनर्ब्रह्मवीर्य्यात् शूद्र-पत्न्यां जातः यथा, --शौनक उवाच ।“ब्रह्मवीर्य्याच्छूद्रपत्न्यां गन्धर्व्वश्चोपवर्हणः ।जातः केन प्रकारेण तद्भवान् वक्तुमर्हति
सौतिरुवाच ।कान्यकुब्जे देशे द्रुमिलो गोपराजकः ।कलावती तस्य पत्नी बन्ध्या चापि पतिव्रता
स्वामिदोषेण सा बन्ध्या काले भर्त्तुराज्ञया ।उपस्थितं वने घोरे नारदं काश्यपं मुनिम्
क्रोशमानञ्च श्रीकृष्णं ज्वलन्तं ब्रह्मवर्च्चसा ।तस्थौ सुवेशं कृत्वा सा ध्यानान्तञ्च मुनेः पुरः
उवाच विनयेनैव कृत्वा श्रीहरिं हृदि ।गोपिकाहं द्विजश्रेष्ठ ! द्रुमिलस्य कामिनी ।पुत्त्रार्थिनी चागताहं तन्मूलं भर्त्तुराज्ञया
वीर्य्याधानं कुरु मयि ! स्त्री नोपेक्ष्या ह्यपस्थिता ।तेजीयसां दोषाय वह्नेः सर्व्वभुजो यथा
वृषलीवचनं श्रुत्वा चुकोप मुनिपुङ्गवः ।वृषली तत्पुरस्तस्थौ शुष्ककण्ठौष्ठतालुका
एतस्मिन्नन्तरे तेन पथा यास्यति मेनका ।तस्या ऊरुस्थलं दृष्ट्वा मुनिवीर्य्यं पपात
ऋतुस्नाता वृषली कृत्वा तद्भक्षणं मुदा ।सा विप्र ! गेहे साध्वी सुषुवे तनयं वरम्
तप्तकाञ्चनवर्णाभं ज्वलन्तं ब्रह्मतेजसा ।अनावृष्ठ्यवशेषे काले बालो बभुव
नारं ददौ जन्मकाले तेनायं नारदाभिधः
ददाति नारं ज्ञानञ्च बालकेभ्यश्च बालकः ।जातिस्मरो महाज्ञानी तेनायं नारदाभिधः
वीर्य्येण नारदस्यैव बभूव बालको मुने ! ।मुनीन्द्रस्य वरेणैव तेनायं नारदाभिधः
कल्पान्तरे ब्रह्मकण्ठाद्बभूवुर्बहवो नराः ।नरान्ददौ तत्कण्ठञ्च तेन तन्नारदः स्मृतः
ततो बभूव कालश्च नारदात् कण्ठदेशतः ।ततो ब्रह्मा नाम चक्रे नारदश्चेति मङ्गलम्
एतस्मिन्नन्तरे विप्रा आययुर्विप्र मन्दिरम् ।शिशवः पञ्चवर्षीया महातेजस्विनो यथा
चतुर्ष्वेको मुनिस्तस्मै ब्राह्मणाश्च कृपालवः ।ब्रह्मपुत्त्रं शिशुं ज्ञात्वा विष्णुमन्त्रं ददौ मुदा
महाज्ञानी शिशुस्तस्थौ गङ्गातीरे मनोहरे ।तत्र स्नात्वा विप्रदत्तं विष्णुमन्त्रं जजाप सः
दिव्यं वर्षसहस्रञ्च निराहारः कृशोदरः ।ददर्श बालको ध्याने दिव्यं लोकञ्च बालकम्
द्बिभुजं मुरलीहस्तञ्चन्दनेन विचर्च्चितम् ।विरराम शोकार्त्तो यदा यद्द्रष्टुमक्षमः
रुरोदाश्वत्थमूले दृष्ट्वा बालकं शिशुः ।बभूवाकाशवाणीति रुदन्तं बालकं प्रति
सकृद्यद्दर्शितं रूपं तदेव नाधुना पुनः ।पुनर्द्रक्षसि गोविन्दं जन्ममृत्युहरं हरिम्
इति श्रुत्वा बालकश्च विरराम मुदान्वितः ।काले तत्याज तीर्थे तनुं कृष्णं हृदि स्मरन्
बभूव शापमुक्तिश्च नारदस्य महामुने ! ।तनुं त्यक्त्वा जीवश्च विलीनो ब्रह्मविग्रहे
कतिकल्पान्तरेऽतीते स्रष्टुं सृष्टिविधौ पुनः ।मरीचिमिश्रैर्मुनिभिः सार्द्धं कण्टाद्बभूव सः
नारदश्चेति विख्यातो मुनीन्द्रस्तेन हेतुना
”इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे २१ -- २२ अध्यायौ
तस्य सर्व्वदा भ्रमणकारणं यथा, --“तांश्चापि नष्टान् विज्ञाय पुत्त्रान् दक्षप्रजापतिः ।क्रोधञ्चक्रे महाभाग ! नारदं शशाप
”नारदशापश्च श्रीभागवतोक्तः ।“तस्माल्लोकेषु ते मूढ भवेद्भ्रमतः पदम् ।”इति विष्णुपुराणे अंशे १५ अध्याय-स्तट्टीका
(पञ्चविंशतिसहस्रश्लोकात्मकउपपुराणविशेषः यथा, देवीभागवते ।३ ।“षोडशैव सहस्राणि पुराणञ्चाग्निसंज्ञितम् ।पञ्चविंशतिसाहस्रं नारदं परमं मतम्
”शाकद्वीपस्य पर्व्वतविशेषः यथा, मात्स्ये ।१२१ ११ ।“नारदो नाम चैवोक्तो दुर्गशैलो महाचितः ।तत्राचले समुत्पन्नौ पूर्व्वं नारदपर्व्वतौ
”विश्वामित्रपुत्त्रविशेषः यथा, महाभारते ।१३ ५८ ।“उर्ज्जयोनिरुदापेक्षी नारदश्च महानृषिः ।विश्वामित्रात्मजाः सर्व्वे मुनयो ब्रह्मवादिनः
”)