| YouTube Channel

नारङ्गक्षीरिणी (nAraGgakSIriNI)

 
वाचस्पत्यम्
Sanskrit
नारङ्गक्षीरिणी स्त्री नारङ्गमिश्रिता क्षीरिणी क्षीरि-काभेदे “क्षिप्त्वा नारङ्गमज्जां वै पचेत् सर्पिषि तापिते ।तत्र खण्डं विनिःक्षिप्य पक्वं मत्वाऽवतारयेत् शीतीभूते विनिःक्षिप्य मात्रयार्द्धशृतं पयः नारङ्गक्षीरिणी-त्येषा सुगन्धिसुरभीकृता विष्टम्भिती हरेद्वातं पित्तञ्चगुरुपाचिका” शब्दार्थचि० धृतवाक्यम्