| YouTube Channel

नायकः (nAyakaH)

 
Apte Hindi
Hindi
नायकः
पुं*
- नी + ण्वुल्
"मार्गदर्शक, अग्रणी, संवाहक"
नायकः
पुं*
- नी + ण्वुल्
"मुख्य, स्वामी, प्रधान, प्रभु"
नायकः
पुं*
- नी + ण्वुल्
"गण्यमान्य या प्रधान पुरुष, पूज्य व्यक्ति"
नायकः
पुं*
- नी + ण्वुल्
"सेनानायक, सेनापति"
नायकः
पुं*
- नी + ण्वुल्
नाटक या काव्य का नायक
नायकः
पुं*
- नी + ण्वुल्
हार के बीच का मुख्य मणि
नायकः
पुं*
- नी + ण्वुल्
निदर्शन या मुख्य उदाहरण-
Wordnet
Sanskrit
Synonyms:
नायकः
noun
क्रीडकदलस्य मुख्यः क्रीडकः यः क्रीडासमये निर्णेतुं शक्नोति।
"महेशः अस्माकं सङ्घस्य नायकः अस्ति।"
Synonyms:
मार्गदर्शकः, पथदर्शकः, उपदेशकः, निर्देशकः, नायकः, प्रग्रहः, मार्गोपदिक्, निर्देष्टा, अध्वदर्शी, संचारयिता, निर्णेता, धूर्षद्, उद्देशकः, पदवायः, आदेशकः, प्रज्ञाता, मुख्यः, विचारकः, विनायकः, विनेता, वोढा
noun
यः मार्गं दर्शयति।
"वयम् एकं कुशलं मार्गदर्शकम् अनुसरन्तः अग्रे अगच्छाम।"
Synonyms:
नायकः
noun
नाटके साहित्ये वा यः केन्द्रीभूतः।
"संस्कृतसाहित्ये विविधप्रकारकाः नायकाः सन्ति।"
Tamil
Tamil
நாயக : : வழி காட்டி, தலைவன், எஜமான், கணவன், காப்பியத்தின் கதாநாயகன்.
शब्दकल्पद्रुमः
Sanskrit
नायकः,
पुं,
(नयति प्रापयतीति नी + ण्वुल् ।)नेता (यथा, गीतायाम् ।“नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते
”)श्रेष्ठः (यथा, भागवते १९ ।“तमुपागतमालक्ष्य सर्व्वे सुरगणादयः ।प्रणेमुः सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायकाः
”)हारमध्यमणिः इति मेदिनी के, ११०
अग्रे सरिकः सेनापतिः इति त्रिकाण्ड-शेषः
(यथा, महाभारते २२२ ।“वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरन्दरः ।स्वसैन्यनायकार्थाय चिन्तामाप भृशं तदा
”)शृङ्गारसाधकः त्रिविधः पतिरुपपति-र्वैशिकश्चेति विधिवत् पाणिग्राहकः पतिः ।अनुकूलदक्षिणधृष्टशठभेदात् पतिश्चतुर्द्धा सार्व्व-कालिकपराङ्गनापराङ्मुखत्वे सति सर्व्वकाल-मनुरक्तोऽनुकूलः सकलनायिकाविषयसमसह-जानुरागो दक्षिणः भूयो निःशङ्कः कृतदोषो-ऽपि भूयो निवारितोऽपि भूयः प्रश्रयपरायणोधृष्टः कामिनीविषयकपटपटुः शठः आचार-हानिहेतुः पतिरुपपतिः बहुलवेश्याभोगोप-रसिको वैशिकः वैशिकस्तूत्तममध्यमाधम-भेदात् त्रिविधः दयिताश्रमप्रकोपेऽपि उप-चारपरायण उत्तमः प्रियायाः प्रकोपे यःप्रकोपमनुरागं वा प्रकटयति चेष्टया मनो-भावं गृह्णाति मध्यमः भयकृपालज्जाशून्यःकामक्रीडायामकृतकृत्याकृत्यविचारोऽधमः
*
मानी चतुरश्च शठ एवान्तर्भवति वाक्चेष्टा-व्यङ्ग्यसमागमश्चतुरः प्रोषितपतिरुपपतिर्वैशि-कश्च भवति अनभिज्ञनायको नायकाभासएव तेषाञ्च नर्म्मसचिवपीठमर्द्दविटचेटक-विदूषकभेदाच्चतुर्धा कुपितस्त्रीप्रसादकः पीठ-मर्द्दः नर्म्मसचिवोऽप्ययमेव कामतन्त्रकला-कोविदो विटः सन्धानचतुरश्चेटकः अङ्गादि-वैकृत्यैर्हासकारी विदूषकः
*
तेषामष्ट-सात्त्विकगुणाः यथा, --“स्वेदः स्तम्भोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः ।वैवर्ण्यमश्रुप्रणयावित्यष्टौ सात्त्विका गुणाः
*
तेषां दशावस्था यथा, --“अभिलाषस्तथा चिन्ता स्मृतिश्च गुणकीर्त्तनम् ।उद्वेगश्च प्रलापश्च उन्मादो व्याधिरेव ।जडता निधनान्येव दशावस्थाः प्रकीर्त्तिताः
”इति रसमञ्जरी
(अस्य लक्षणभेदादिकं यथा, साहित्यदर्पणे ।३ ३३ -- ३८ ।“त्यागी कृती कुलीनः सुश्रीको रूपयौवनोत्-साही ।दक्षोऽनुरक्तलोकस्तेजोवैदग्ध्यशीलवान् नेता
धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च ।धीरप्रशान्त इत्ययमुक्तः प्रथमश्चतुर्भेदः
अविकत्थनः क्षमावानतिगम्भीरो महासत्त्वः ।स्थेयान् निगूढमानो धीरोदात्तोदृढव्रतः कथितः
मायापरः प्रचण्डश्चपलोऽहङ्कारदर्पभूयिष्ठः ।आत्मश्लाघानिरतो धीरैर्धीरोद्धतः कथितः
निश्चिन्तो मृदुरनिशं कलापरो धीरललितःस्यात् ।सामान्यगुणैर्भूयान् द्बिजादिको धीरप्रशान्तःस्यात्
”एषाञ्च शृङ्गारिरूपत्वे भेदानाह तत्रैव ।३९ -- ४४ ।“एभिर्दक्षिणधृष्टानुकूलशठरूपिभिस्तु षोडशधा ।एषु त्वनेकमहिलासु समरागो दक्षिणः कथितः
कृतागा अपि निःशङ्कस्तर्जितोऽपि लज्जितः ।दृष्टदोषोऽपि मिथ्यावाक् कथितो धृष्टनायकः
अनुकूल एकनिरतः शठोऽयमेकत्र वद्धभावो यः ।दर्शितवहिरनुरागो विप्रियमन्यत्र गूढमाचरति
एषाञ्च त्रैविध्यात् सर्व्वेषामुत्तममध्याधमत्वेन ।उक्ता नायकभेदाश्चत्वारिंशत्तथाऽष्टौ
”एषामुदाहरणादिकं तत्रैव द्रष्टव्यम्
)