| YouTube Channel

नामापराधी (nAmAparAdhI)

 
शब्दकल्पद्रुमः
Sanskrit
नामापराधी, [न्] त्रि, (नामापराधोऽस्त्य-स्येति इनिः ।) नामापराधकृत् यथा, --“नाम्नो जनार्द्दनस्यापराधान् यः कुरुतेऽनिशम् ।नामापराधकृल्लोको याति सत्यमधोगतिम्
विनाशयति नामस्थोऽपराधं नामतो जनः ।नामापराधी कृष्णे स्यादात्मनश्चेति नारकी
पाषण्डो दुर्ज्जनः पापी भवेन्नाम्नो हरेः खलः ।नामापराधी मनुजो मुने ! भवति नारकी
अपराधान्मुकुन्दस्य विदूरयति नामभिः ।नाम्नीह लोकः कुर्व्वंस्तान्महापाप्यधमाधमः
”इति पाद्मोत्तरखण्डे १०२ अध्यायः