| YouTube Channel

नामापराधः (nAmAparAdhaH)

 
Apte Hindi
Hindi
नामापराधः
पुं*
नामन्-अपराधः -
"नाम लेकर गाली देना, नाम लेकर बुलाना अर्थात् तिरस्कार करना"
शब्दकल्पद्रुमः
Sanskrit
नामापराधः,
पुं,
(नाम्नि नामविषये अपराधः ।नाम्नः सकाशात् अपराधो वा ।) साधुनिन्दा-दिरूपदुरदृष्टजनकव्यापारविशेषः यथा, --श्रीनारद उवाच ।“के तेऽपराधा विप्रेन्द्र ! नाम्नो भगवतः कृताः ।विविन्दन्ति नृणां कृत्यं प्राकृतं ह्यानयन्ति
तत् कथ्यतां महाभागापराधं नाम्नि केशवे ।केन केन प्रकारेण भवेद्वै तज्जनादिषु
सनत्कुमार उवाच ।सतां निन्दा नाम्नः परममपराधं वितनुतेयतः ख्यातिं यातस्तमुपहसते गर्हयति ।तथा विष्णोरिष्टं इह गुणनामादि सकलंधिया भिन्नं पश्येत् खलु हरिनामाहितकरः
गुरोरवज्ञा श्रुतिशास्त्रनिन्दनंतथार्थवादो हरिनाम्नि कल्पनम् ।नाम्नां बलाद्यस्य हि पापबुद्धि-र्न विद्यते तस्य शठस्य शुद्धिः
दिवौकसां गुरोः पित्रोर्भूसुराणाञ्च गर्हनम् ।नामापराधं यत्तत् स्याद्वैष्णवानां तथा नृणाम्
गोऽश्वत्थतुलसीधात्रीर्नृपान्निन्दन्ति नारद ! ।नामापराधी भवेन्नाम गोविन्दवैष्णवान्
सर्व्वतीर्थानि क्षेत्राणि चावमन्यति निन्दति ।गङ्गासरस्वतीयामीश्चापराधी भवेन्नरः
श्रीमद्भागवतं महाभारतं ब्राह्मणान् गुरुम् ।मन्त्रं महाप्रसादञ्च योऽवमन्यति नारकी
अवतारान् हरेस्तत्तन्नामभक्तांश्च निन्दति ।अवमन्यति देवर्षे नारकी जनोऽधमः
गोविन्दस्यार्च्चनं कुर्य्यादवमन्यति वैष्णवान् ।निन्दतीह नामानि नाम्नोऽप्यपराधकृत्
वर्णाश्रमानन्त्यजांश्च जातिबुद्ध्यावमन्यति ।वैष्णवान् कुरुते निन्दामपराधी नराधमः
द्बिजबन्धुं स्त्रियं शूद्रं जातिभेदेन वैष्णवम् ।येऽवमन्यन्ति निन्दन्ति ते वै निरयगामिनः
अर्च्चे विष्णोः शिलाधीर्गुरुषु नरमतिर्वैष्णवे जाति-बुद्धि-र्विष्णोर्व्वा वैष्णवानां कलिमलमथने पादतीर्थे-ऽम्बुबुद्धिः ।विष्णोर्न्निर्म्माल्यनाम्नोः कलुषदहनयोरन्य-सामान्यबुद्धि-र्व्विष्णौ सर्व्वेश्वरेशे तदितरसमधीर्य्यस्य वानारकी सः
पूज्यते देवसामान्यं कृत्वा नारायणं नरः ।नामापराधी भवेद्वैष्णवान् यो सेवते
नारद उवाच ।नामापराधा ह्यपराः कति सन्ति तपोधन ! ।तत् कथ्यतां मे सकलं यदि योग्यो भवामि ते
सनत्कुमार उवाच ।वैष्णवे शठतां विष्णौ गुरौ पित्रोश्च भूसुरे ।निन्दां यः कुरुते मोहादपराधी नारकी
”इति पाद्मोत्तरखण्डे १०२ -- १०३ अध्यायौ
अपि ।“धर्म्मव्रतत्यागहुतादिसर्व्व-शुभक्रियासाम्यमपि प्रमादः ।अश्रद्दधाने विसुखेऽप्यशृण्वतियश्चोपदेशः शिवनामापराधः
श्रुत्वापि नाममाहात्म्यं यः प्रीतिरहितो नरः ।अहं ममादि परमो नाम्नि सोऽप्यपराधकृत्
”अपराधभञ्जनमाह ।“जाते नामापराधेऽपि प्रमादेन कथञ्चन ।सदा संकीर्त्तयेन्नाम तदेकशरणो भवेत्
नामापराधयुक्तानां नामान्येव हरन्त्यघम् ।अविश्रान्तप्रयुक्तानि तान्येवार्थकराणि
नामैकं यस्य वाचि स्मरणपथगतं श्रोत्रमूलंगतं वाशुद्धं वाशुद्धवर्णं व्यवहितरहितं तारयत्येवसत्यम् ।तच्चेद्देहद्रविणजनतालोभपाषण्डमध्येनिक्षिप्तं स्यान्न फलजनकं शीघ्रमेवात्र विप्र !
”इति श्रीहरिभक्तिविलासः