नामकरणं (nAmakaraNaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritनामकरणं, (नाम्नः करणं यत्र ।) संस्कार-विशेषः । तत्रोक्तनक्षत्राणि यथा । अश्विनी १रोहिणी ४ मृगशिराः ५ पुनर्व्वसुः ७ उत्तर-फल्गुनी १२ स्वाती १५ अनुराधा १७ उत्तरा-षाढा २१ श्रवणा २२ धनिष्ठा २३ शतभिषा २४उत्तरभाद्रपदा २६ रेवती २७ ॥
तत्र लग्नं यथा ।यल्लग्नस्य प्रथमचतुर्थसप्तमदशमस्थाने शुभग्रहास्तिष्ठन्ति तल्लग्ने नामकरणं कार्य्यम् ॥
तत्रदिननियमः । दश १० एकादश ११ द्बादश १२शत १०० दिनानि । इति ज्योतिःसारसंग्रहः ॥
संवत्सरे वेति गोभिलः ॥
एतच्च प्रशस्ततरतम-परपरकालकर्म्मेतरपरम् । एकादशाह इतिमुख्यः कल्प इति रघुनन्दनमतम् ॥
* ॥
तदनु-ष्ठानं यथा । “जन्मगृहाभ्यन्तरे चन्द्रदर्शनात्प्राक् माता शुचिना वस्त्रेण कुमारमाच्छाद्यभर्त्तुर्दक्षिणतः स्थित्वा प्रयच्छत्युदक्शिरसंपश्चिमदेशं गत्वा उत्तरत उदग्रेषु कुशेषुउपविशति अतः पितैवाधिकारी । अथ जुहोतिप्रजापतये कुमारस्य तिथये नक्षत्राय । तिथि-नक्षत्रयोर्देवतायै ताश्च ब्रह्मत्वष्टृविष्णुयमसोम-कुमारमुनिवसुपिशाचधर्म्मरुद्रवायुमन्मथयक्ष-पितरः पौर्णमास्यां विश्वेदेवाः । एषां होमेविशेषमाह छन्दोगपरिशिष्टम् ।‘नामधेये मुनिवसुपिशाचा बहुवत् सदा ।यक्षाश्च पितरो देवा यष्टव्यास्तिथिदेवताः ॥
’तेन मुन्यादयो बहुवचनान्ता होतव्याः । शेषाएकवचनान्ता होतव्याः । नक्षत्राणि अश्वि-न्यादीनि । तद्देवताश्च ज्योतिषे । अश्वियमेत्या-दयः । नक्षत्रहोमे छन्दोगपरि शिष्टम् ।‘आग्नेयाद्वेऽथ सर्पाद्वे विशाखाद्वे तथैव च ।आषाढाद्वे धनिष्ठाद्वे अश्विन्याद्वे तथैव च ॥
द्बन्द्वान्यतानि बहुवदृक्षाणां जुहुयात् सदा ।द्बन्द्वद्वयं द्बिवच्छेषमवशिष्टान्यथैकवत् ॥
’तद्देवताहोमे विशेषः ।‘देवता अपि हूयन्ते बहुवत् सर्पवस्वपः ।देवाश्च पितरश्चैव द्बिवद्वध्नाश्विनौ तथा ॥
’देवाः विश्वेदेवाः । कवर्गादिपञ्चतृतीयादि-वर्णान्यतमवर्णाद्यन्तरस्थं यरलवाद्यन्यतमवर्ण-मध्यं विश्वम्भरादवत् कृदन्तं सम्बोधनान्तं दीर्घ-विसर्गान्तं च नाम कुर्य्यात् । एतच्च स्वगृह्योक्त-त्वात् प्रशस्तपरम् । कुलदेवतानक्षत्राभि-सम्बन्धं च नाम कुर्य्यात् । तत्र शङ्खलिखितवच-नान्नामान्तरकरणव्यवहारः । अत्र नक्षत्र-सम्बन्धेन नामकरणं शतपदचक्रानुरोधात्स्वनक्षत्रपादानुसारेण । ततश्च कुमारस्य मुख-भवान् प्राणनिर्गमोपायभूतान् छिद्रविशेषान्सप्त मुखमक्षिणी नासिके कर्णाविति आभि-मुख्येन स्पृशन् कोऽसि कतमोऽसीति मन्त्रं जपेत् ॥
तच्च नाम शर्म्मवर्म्माद्युपपदान्तत्वेन कर्त्तव्यम् ।यथा, --‘ततस्तु नाम कुर्व्वीत पितैव दशमेऽहनि ।देवपूर्व्वं नराख्यं हि शर्म्मवर्म्मादिसंयुतम् ॥
शर्म्मेति ब्राह्मणस्योक्तं वर्म्मेति क्षत्त्रसंश्रयम् ।गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ॥
नार्यहोनं न चाशस्तं नापशब्दयुतं तथा ।नामाङ्गल्यं जुगुप्स्यं वा नाम कुर्य्यात् समाक्षरम् ॥
नातिदीर्घं नातिह्रस्वं नातिगुर्व्वक्षरान्वितम् ।सुखोच्चार्य्याक्षरं नाम कुर्य्याच्च प्रवणाक्षरम् ॥
’इति विष्णुपुराणे ३ अंशे १० अध्यायः ॥
प्रवणाक्षरं लघूत्तराक्षरम् । इति तट्टीकाकारः ॥
गोभिलः । ‘अयुग्मकदान्तं तथा स्त्रीणाम् ।’अयुग्मकम् अयुगक्षरम् । दान्तं दकारान्तम् ।यथा यशोदेत्यादि ॥
* ॥
तस्य श्रीपूर्व्वकत्वंयथा, --‘देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राधिदेवताम् ।सिद्धं सिद्धाधिकारांश्च श्रीपूर्व्वं समुदीरयेत् ॥
’इति राघवभट्टधृतप्रयोगदर्शनात् स्वर्गकामि-त्वादिना सिद्धोऽधिकारो येषां नराणामित्यनेनजीवतां श्रीशब्दादित्वं नाम्नो न मृतानां तथेतिशिष्टाचारः ॥
* ॥
गोभिलः । मात्रे चैनं प्रथमंनामधेयमाख्याय यथार्थमुदीच्यं वामदेव्यगानान्तंकुर्य्यात् गौर्दक्षिणा ।” इति संस्कारतत्त्वम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
