| YouTube Channel

नामकरण (nAmakaraNa)

 
शब्दसागरः
English
नामकरण
n.
(-णं) Naming a child first after birth.
E.
नाम, and करण
making.
Capeller Eng
English
नामकरण
m.
nominal suffix
n.
=
seq.
Yates
English
नाम-करण (णं) 1.
n.
Giving a name.
Spoken Sanskrit
English
नामकरण - nAmakaraNa -
n.
- namingceremony
अभिधायक - abhidhAyaka -
adj.
- naming
आख्याति - AkhyAti -
f.
- naming
अभिधा - abhidhA -
f.
- naming
आह्वा - AhvA -
f.
- naming
प्रकीर्तना - prakIrtanA -
f.
- naming
व्यपदेष - vyapadeSa -
m.
- naming
नामग्रह - nAmagraha -
m.
- naming
अभिधान - abhidhAna -
n.
- naming
अधिवचन - adhivacana -
n.
- naming
परिकीर्तन - parikIrtana -
n.
- naming
समाख्याख्यान - samAkhyAkhyAna -
n.
- naming
अभिधानी - abhidhAnI -
n.
- naming
सङ्गृणाति { संगॄ } - saGgRNAti { saMgRR } - verb - agree in calling or naming
सङ्गृणीते { संगॄ } - saGgRNIte { saMgRR } - verb - agree in calling or naming
अभिधित्सा - abhidhitsA -
f.
- desire of expressing or naming
नामकरण - nAmakaraNa -
n.
- ceremony of naming a child after birth
नामकरण - nAmakaraNa -
n.
- namingceremony
नामकरण - nAmakaraNa -
m.
- nominal suffix
नामकरण - nAmakaraNa -
n.
- calling of a person by the name of
नामकरण - nAmakaraNa -
n.
- ceremony of naming a child after birth
Wilson
English
नामकरण
n.
(-णं) Naming a child first after birth.
E.
नाम, and करण making.
Monier Williams Cologne
English
नाम—करण
m.
a nominal suffix,
Nir.
नाम—करण
n.
the calling of a person (gen. ) by the name of (नाम्ना),
Sarvad.
the ceremony of naming a child after birth,
Kauś.
&c.
,
RTL.
370
(°रणं कृ, to perform this c°),
BhP.
Macdonell
English
नामकरण nāma-karaṇa,
n.
ceremony of 🞄giving a name
-karman,
n.
id.
-kīrtana, 🞄n. mentioning the name of (g.)
-gotra,
n.
🞄du. personal and family name
-graha,
m.
, 🞄-grahaṇa,
n.
mention of a name
-grāhá,
m.
🞄id.: (-grā́ha) -m, abs. mentioning the name
🞄-jāti-graha,
m.
: -ṇa,
n.
mention of the name 🞄and rank (of the caste).
Apte Hindi
Hindi
नामकरणम्
नपुं*
नामन्-करणम् -
"नाम रखना, जन्म होने के पश्चात् बालक का नामकरण करना"
नामकरणम्
नपुं*
नामन्-करणम् -
नाम मात्र का अनुबंध
Shabdartha Kaustubha
Kannada
नामकरण
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಶಿಶುವು ಹುಟ್ಟಿದ ನಂತರ ಅದಕ್ಕೆ ಹೆಸರಿಡುವುದು /ಯಾವುದಾದರೊಂದು ಹೆಸರಿಟ್ಟು ಕರೆಯುವುದು
व्युत्पत्तिः - > नाम्नः करणं यत्र
विस्तारः - > "एकादशे द्वादशे वा अहनि पिता नाम कुर्यात्" - श्रुतिः
L R Vaidya
English
nAman-karaRa {% n. %} the ceremony of naming a child after birth.
Aufrecht Catalogus Catalogorum
English
नामकरण dh. Bik. 424. Oppert II, 6913.
नामकरण dh. Gov. Or. Libr. Madras 42.
Indian Epigraphical Glossary
English
nāmakaraṇa (BL), naming ceremony.
शब्दकल्पद्रुमः
Sanskrit
नामकरणं,
क्ली,
(नाम्नः करणं यत्र ।) संस्कार-विशेषः तत्रोक्तनक्षत्राणि यथा अश्विनी १रोहिणी मृगशिराः पुनर्व्वसुः उत्तर-फल्गुनी १२ स्वाती १५ अनुराधा १७ उत्तरा-षाढा २१ श्रवणा २२ धनिष्ठा २३ शतभिषा २४उत्तरभाद्रपदा २६ रेवती २७
तत्र लग्नं यथा ।यल्लग्नस्य प्रथमचतुर्थसप्तमदशमस्थाने शुभग्रहास्तिष्ठन्ति तल्लग्ने नामकरणं कार्य्यम्
तत्रदिननियमः दश १० एकादश ११ द्बादश १२शत १०० दिनानि इति ज्योतिःसारसंग्रहः
संवत्सरे वेति गोभिलः
एतच्च प्रशस्ततरतम-परपरकालकर्म्मेतरपरम् एकादशाह इतिमुख्यः कल्प इति रघुनन्दनमतम्
*
तदनु-ष्ठानं यथा “जन्मगृहाभ्यन्तरे चन्द्रदर्शनात्प्राक् माता शुचिना वस्त्रेण कुमारमाच्छाद्यभर्त्तुर्दक्षिणतः स्थित्वा प्रयच्छत्युदक्शिरसंपश्चिमदेशं गत्वा उत्तरत उदग्रेषु कुशेषुउपविशति अतः पितैवाधिकारी अथ जुहोतिप्रजापतये कुमारस्य तिथये नक्षत्राय तिथि-नक्षत्रयोर्देवतायै ताश्च ब्रह्मत्वष्टृविष्णुयमसोम-कुमारमुनिवसुपिशाचधर्म्मरुद्रवायुमन्मथयक्ष-पितरः पौर्णमास्यां विश्वेदेवाः एषां होमेविशेषमाह छन्दोगपरिशिष्टम् ।‘नामधेये मुनिवसुपिशाचा बहुवत् सदा ।यक्षाश्च पितरो देवा यष्टव्यास्तिथिदेवताः
’तेन मुन्यादयो बहुवचनान्ता होतव्याः शेषाएकवचनान्ता होतव्याः नक्षत्राणि अश्वि-न्यादीनि तद्देवताश्च ज्योतिषे अश्वियमेत्या-दयः नक्षत्रहोमे छन्दोगपरि शिष्टम् ।‘आग्नेयाद्वेऽथ सर्पाद्वे विशाखाद्वे तथैव ।आषाढाद्वे धनिष्ठाद्वे अश्विन्याद्वे तथैव
द्बन्द्वान्यतानि बहुवदृक्षाणां जुहुयात् सदा ।द्बन्द्वद्वयं द्बिवच्छेषमवशिष्टान्यथैकवत्
’तद्देवताहोमे विशेषः ।‘देवता अपि हूयन्ते बहुवत् सर्पवस्वपः ।देवाश्च पितरश्चैव द्बिवद्वध्नाश्विनौ तथा
’देवाः विश्वेदेवाः कवर्गादिपञ्चतृतीयादि-वर्णान्यतमवर्णाद्यन्तरस्थं यरलवाद्यन्यतमवर्ण-मध्यं विश्वम्भरादवत् कृदन्तं सम्बोधनान्तं दीर्घ-विसर्गान्तं नाम कुर्य्यात् एतच्च स्वगृह्योक्त-त्वात् प्रशस्तपरम् कुलदेवतानक्षत्राभि-सम्बन्धं नाम कुर्य्यात् तत्र शङ्खलिखितवच-नान्नामान्तरकरणव्यवहारः अत्र नक्षत्र-सम्बन्धेन नामकरणं शतपदचक्रानुरोधात्स्वनक्षत्रपादानुसारेण ततश्च कुमारस्य मुख-भवान् प्राणनिर्गमोपायभूतान् छिद्रविशेषान्सप्त मुखमक्षिणी नासिके कर्णाविति आभि-मुख्येन स्पृशन् कोऽसि कतमोऽसीति मन्त्रं जपेत्
तच्च नाम शर्म्मवर्म्माद्युपपदान्तत्वेन कर्त्तव्यम् ।यथा, --‘ततस्तु नाम कुर्व्वीत पितैव दशमेऽहनि ।देवपूर्व्वं नराख्यं हि शर्म्मवर्म्मादिसंयुतम्
शर्म्मेति ब्राह्मणस्योक्तं वर्म्मेति क्षत्त्रसंश्रयम् ।गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः
नार्यहोनं चाशस्तं नापशब्दयुतं तथा ।नामाङ्गल्यं जुगुप्स्यं वा नाम कुर्य्यात् समाक्षरम्
नातिदीर्घं नातिह्रस्वं नातिगुर्व्वक्षरान्वितम् ।सुखोच्चार्य्याक्षरं नाम कुर्य्याच्च प्रवणाक्षरम्
’इति विष्णुपुराणे अंशे १० अध्यायः
प्रवणाक्षरं लघूत्तराक्षरम् इति तट्टीकाकारः
गोभिलः ‘अयुग्मकदान्तं तथा स्त्रीणाम् ।’अयुग्मकम् अयुगक्षरम् दान्तं दकारान्तम् ।यथा यशोदेत्यादि
*
तस्य श्रीपूर्व्वकत्वंयथा, --‘देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राधिदेवताम् ।सिद्धं सिद्धाधिकारांश्च श्रीपूर्व्वं समुदीरयेत्
’इति राघवभट्टधृतप्रयोगदर्शनात् स्वर्गकामि-त्वादिना सिद्धोऽधिकारो येषां नराणामित्यनेनजीवतां श्रीशब्दादित्वं नाम्नो मृतानां तथेतिशिष्टाचारः
*
गोभिलः मात्रे चैनं प्रथमंनामधेयमाख्याय यथार्थमुदीच्यं वामदेव्यगानान्तंकुर्य्यात् गौर्दक्षिणा ।” इति संस्कारतत्त्वम्
वाचस्पत्यम्
Sanskrit
नामकरण
न०
नाम्नः करणं यत्र संस्कारभेदे तत्रतत्कालादिनिरूपणं ज्यो० त० यथा “एकादशे द्वादशेवाऽहवि पिता नाम कुर्य्यादिति” श्रुतिः एकादशे इतिमुख्यः कल्पः “समर्थस्य क्षेपायोगादिति” न्यायात् एतच्चपरपरप्रशस्ततरतमकालोदितकर्मेतरकर्मपरम् गोभिलः“जननाद्दशरात्रे व्युष्टे शतरात्रे संवत्सरे वा नामधेय-करणमिति” व्युष्टे गते गर्गः “आदौ घोषवदक्षरं यव-रलान्मध्ये पुनः स्थापयेदन्ते दीर्षविसर्जनीयरहितंनाम प्रयत्नात् कृतम्” “ऋक्षे तिष्यकराश्विसौम्यवसुभेचित्रानुराधोत्तरे पौष्णे चादितिरोहिणीषु शुभकृत् पुंसांसमैरक्षरैः” दीपिकास्वरसात् स्वातीशतभिषाश्रवणाअत्र ग्राह्याः गोभिलसम्मतं पूर्वार्द्धम् देवनामकम्” तेननारायणजनार्द्दनादि नाम कुर्य्यात् यत्तुनामकरणम्कुलदेवतानक्षत्रामिसम्बन्धं पिता नाम कुर्य्यादन्यो वाकुलवृद्धः” इति कल्पतरुधृतशङ्खलिखितवचनेनाभिवादनीयंनामधेयं कल्पयित्वा “देवताश्रयं नक्षत्राश्रयं गोत्राश्रयमप्येवम्” इति गोभिलसूत्रेणोपनयनकाले नक्षत्राभिसम्बन्धेननामाधिधागं तत् शतपदचक्रानुसारात् स्वनक्षत्रपदानु-सारात् ज्ञेयम् पाश्चात्त्यानां तथैव व्यवहारः यत्रतु तथा कृतम् तत्र नामाक्षरानुसारनक्षत्रादपिफलं ज्ञेयम् अत्र कुलवृद्ध इति दर्शनात् संस्कारान्तरेतथैव व्यवहारः मनुः “स्त्रीणां सुखोद्यमक्रूरं विस्प-ष्टार्थं मनोहरम् माङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभि-धानवत्” गोभिलः “अयुग्दान्तं स्त्रीणामिति” यथायशोदा वसुदेत्यादि नारायणपद्धतौ “नामकरणं स्थि-रलग्ने केन्द्रपञ्चनवमस्थितसौम्ये त्र्यायषष्ठसमधिष्ठितपापे जीवशुक्रशशिसौम्यदिनेषु” ज्यो० त० विष्णुपु० “ततश्च नाम कुर्वीत पितैव दशमेऽहनि देवपूर्वं न-राख्यं हि शर्मवर्मादिसयुतम्” इति नरमाचष्टे इतिनराख्यं नरनाम देवात् पूर्वं तच्च विशिष्टं शर्मयुतम् ।“शर्मा देवश्च विप्रस्य वर्मा त्राता भूभुजः भूतिर्गुप्तश्चवैश्यस्य दासः शूद्रस्य कारयेत्” इति यमवचने समुच्च-योपलब्धेः “शर्मान्तं ब्राह्मणस्य स्यात्” इति शातातपी-येन शर्मान्तता गोभिलः “अयुग्दान्तं स्त्रीणाम् ।अयुन्माक्षरं दान्तं यथा यशोदा इत्यादि “देवं गुरुंगुरुस्थानं क्षेत्रं क्षेत्राधिदेवताम् सिद्धं सिद्धाधिकारांश्चश्रीपूर्वं समुदीरयेत्” इति राघवभट्टधृतप्रयोगसार-दर्शनात् स्वर्गगामित्वादिना सिद्धः अविकारो येषांनराणामित्यनेन जीवतां श्रीशब्दादित्वं नाम्नो नमृतानां तथेति शिष्टाचारः” संस्कारत० अत्र महा-भाष्यं यथा दशम्यां याज्ञिकाः पठन्ति “दशप्युत्तर-कालं पुत्रस्य जातस्य नाम् विदध्यात् घोषबदाद्यन्तरन्त-स्थमवृद्धं त्रिपुरुषानूकमनरिप्रतिष्ठितं तद्धि प्रति-ष्ठितमं भवति द्व्यक्षरं चतुरक्षसं वा नाम “कृतं कुर्य्यान्नतद्धितमिति” नचान्तरेण व्याकरणं कृतस्तद्धिता बाशक्या विज्ञातुमिति” “दशम्या उत्तर इति पञ्चमीतियोगविभागात् समासः ततः कालशंब्देन बहुत्रोहिःक्रियाविशेषणं चैतत् दशदिनान्याशौचं भवतीति दश-भ्युत्तरकालमित्युक्तम् यदपि गृह्यकाराः पठन्ति दशम्यांपुत्रस्येति तैरपि दशम्यामिति सामीपिकमधिकरणं व्या-ख्येयम् घोषवन्तो ये वर्णाः शिक्षायां प्रदर्शितास्तदादि ।अन्तरन्तस्थमिति मध्ये यरलवा यस्य तदित्यर्थः ।त्रिपुरुषानूकमिति नामकरणे योऽधिकारी पिता तस्यये त्रयः पुरुषास्ताननूकायत्यभिधत्त इति त्रिपुरुषानू-कम् अन्येषामपि दृश्यत इति दीर्घ” इति कैयटः
Capeller
German
नामकरण
m.
Nominalsuffix (g.).