| YouTube Channel

नाभिवर्षः (nAbhivarSaH)

 
शब्दकल्पद्रुमः
Sanskrit
नाभिवर्षः,
पुं,
(नाभेरग्नीध्रपुत्त्रस्य वर्षः ।) भारत-वर्षः यथा, “योऽसौ मनुपुत्त्रः प्रियव्रतो नामसप्तद्वीपाधिपतिर्बभूव तस्य चाग्नीध्रादयो दशपुत्त्रा बभूवुः त्रयः प्रव्रजिताः शिष्टानां सप्तानांसप्त द्वीपाः पित्रा दत्ताः तत्र जम्बद्वीपाधिपते-श्चाग्नीध्रस्य नव पुत्त्रा बभूवुः ।नाभिः किंपुरुषश्चैव हरिवर्ष इलावृतः ।रम्यो हिरण्मयश्चैव कुरुर्भद्राश्वकेतुमान्
नव वर्षाणि तेभ्यः पित्रा दत्तानि वनं प्रविशताचाग्नीध्रेण हिमालयस्याधिपतेर्नाभेरृषभःपुत्त्रो बभूव ऋषभाद्भरतः भरतेन चिरकालंधर्म्मेण शासितत्वादिदं भारतं वर्षमभूत ।” इतिनारसिंहे ३० अध्यायः