| YouTube Channel

नाभिवर्ष (nAbhivarSa)

 
Monier Williams Cologne
English
नाभि—वर्ष
m.
n.
the Varṣa governed by Nābhi (son of Agnīdhra),
Pur.
Apte Hindi
Hindi
नाभिवर्षम्
नपुं*
नाभिः-वर्षम् -
जम्बू द्वीप के नौ वर्षों में से एक
Shabdartha Kaustubha
Kannada
नाभिवर्ष
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಜಂಬೂದ್ವೀಪದ ಒಂಭತ್ತು ವರ್ಷ (ಭೂಭಾಗ)ಗಳಲ್ಲೊಂದು /ಆಗ್ನೀಧ್ರನು ತನ್ನ ಒಂಭತ್ತು ಮಕ್ಕಳಿಗೆ ಹಂಚಿಕೊಟ್ಟ ಒಂಭತ್ತು ವರ್ಷಗಳಲ್ಲೊಂದು
व्युत्पत्तिः - > नाभेः आग्नीध्रपुत्रस्य वर्षः
विस्तारः - > "आग्नीध्रसुतास्ते पित्रा विभक्ताः आत्मतुल्यनामानि यथाभागं जम्बूद्वीपवर्षाणि बुभुजुः" - भाग० ५-२-२१
शब्दकल्पद्रुमः
Sanskrit
नाभिवर्षः,
पुं,
(नाभेरग्नीध्रपुत्त्रस्य वर्षः ।) भारत-वर्षः यथा, “योऽसौ मनुपुत्त्रः प्रियव्रतो नामसप्तद्वीपाधिपतिर्बभूव तस्य चाग्नीध्रादयो दशपुत्त्रा बभूवुः त्रयः प्रव्रजिताः शिष्टानां सप्तानांसप्त द्वीपाः पित्रा दत्ताः तत्र जम्बद्वीपाधिपते-श्चाग्नीध्रस्य नव पुत्त्रा बभूवुः ।नाभिः किंपुरुषश्चैव हरिवर्ष इलावृतः ।रम्यो हिरण्मयश्चैव कुरुर्भद्राश्वकेतुमान्
नव वर्षाणि तेभ्यः पित्रा दत्तानि वनं प्रविशताचाग्नीध्रेण हिमालयस्याधिपतेर्नाभेरृषभःपुत्त्रो बभूव ऋषभाद्भरतः भरतेन चिरकालंधर्म्मेण शासितत्वादिदं भारतं वर्षमभूत ।” इतिनारसिंहे ३० अध्यायः
वाचस्पत्यम्
Sanskrit
नाभिवर्ष
पु०
नाभेराग्नीध्रनृपपुत्रस्य वर्षः जम्बुद्वीपस्थेनववर्षमध्ये वर्मभेदे नाभिशब्दे दृश्यम् तस्य नामिसंज्ञक-त्वेऽपि पश्चात् तत्कुलजमरतनाम्ना तत् ख्यातं तथाहिनृसिंहपु० ३० अ० नामिपुत्रस्य ऋषमस्य पुत्रो भरतस्तेनचिरं पालितत्वादस्य भारतवर्षेति संज्ञोक्ता नाभिवर्षस्यभारतवर्षनामता दर्शिता ऋषमशब्दे १४५१ पृ० दृश्या ।अतएव विष्णुपु० “नाभिश्च प्रथसं वर्षमित्युपक्रमे मव वर्षास्पिउक्त्वा “भारतस्यास्य वर्षस्य नव भेदान्निशामय” इति ।नाभिवर्षस्यैव भारतवर्षत्वेन उक्तिः