| YouTube Channel

नान्दीमुखः (nAndImukhaH)

 
Apte Hindi
Hindi
नान्दीमुखः
पुं*
नान्दी-मुखः -
कुयें का ढक्कन
शब्दकल्पद्रुमः
Sanskrit
नान्दीमुखः,
पुं,
(नान्द्यै वृद्ध्यर्थं मुखं यस्य ।)कूपादिमुखबन्धनम् इति हेमचन्द्रः १५८
वृद्धिश्राद्धभुक् पितृगणः यथा, --“नान्दीमुखं पितृगणं पूजयेत् प्रयतो गृही
”इति विष्णुपुराणम्
पित्रादित्रिकं मातामहादित्रिकञ्च इतिगोभिलसूत्रम्
(नान्द्या वृद्धेर्मुखम् ।) वृद्धिश्राद्धे, क्ली यथा, --“नान्दीमुखे विवाहे प्रपितामहपूर्व्वकम् ।अत्र नान्दीमुखपदस्य श्राद्धपरत्वे इत्युद्वाह-तत्त्वलेखनादन्यत्र श्राद्धपरत्वम् ।” तदितिकर्त्त-व्यता यथा “तत्र गोभिलः अथाभ्युदायक-श्राद्धे युग्मानासादयेत् प्रदक्षिणमुपचारः ऋजवोदर्भाः यवैस्तिलार्थः सम्पन्नमिति तृप्तिप्रश्नःदधिवदराक्षताज्यमिश्राः पिण्डाः नान्दीमुखाःपितरः प्रीयन्तामिति दैवे वाचयित्वा नान्दी-मुखेभ्यः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यःमातामहेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहेभ्यश्चप्रीयन्तामिति स्वधाञ्च प्रयुञ्जीतेति
अपि ।स्वधयेतिपदस्थाने पुष्ट्याशब्दं वदेदिह ।पितॄनितिपदात् पूर्व्वं वदेन्नान्दीमुखानिति
कर्म्मादिषु सर्व्वेषु मातरः स्वगणाधिपाः ।पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः
प्रतिमासु शुभ्रासु लिखिता वा पटादिषु ।अपि वाक्षतपुञ्जेषु नैवेद्यैश्च पृथग्विधैः
कुड्यलग्नां वसोर्धारां सप्तवारान् घृतेन तु ।कारयेत् पञ्च वारान् वा नातिनीचां चोच्छ्रि-ताम्
आयुष्याणि शान्त्यर्थं जप्त्वा तत्र समाहितः ।षड्भ्यः पितृभ्यस्तदनु श्राद्धदानमुपक्रमेत्
वशिष्ठोक्तो विधिः कृत्स्नो द्रष्टव्योऽत्र निरा-मिषः ।अतः परं प्रवक्ष्यामि विशेष इह यो भवेत्
प्रातरामन्त्रितान् विप्रान् युग्मानुभयतस्तथा ।उपवेश्य कुशान् दद्यादृजुनैव हि पाणिना
निपातो हि सव्यस्य जानुनो विद्यते क्वचित् ।सदा परिचरेद्भक्त्या पितॄनप्यत्र देववत्
पितृभ्य इति दत्तेषु उपवेश्य कुशेषु तान् ।गोत्रनामभिरामत्र्य पितॄनर्घ्यं प्रदापयेत्
नात्रापसव्यकरणं पित्र्यं तीर्थमिष्यते ।पात्राणां पूरणादीनि दैवे नैव तु कारयेत्
ज्येष्ठोत्तरकरान् युग्मान् कराग्राग्रपविचकान् ।कृत्वार्घ्यं सम्प्रदातव्यं नैकैकस्यात्र दीयते
मधु मध्विति यस्तत्र त्रिर्ज्जपोऽशितुमिच्छताम् ।गायत्त्र्यनन्तरं सोऽत्र मधुमन्त्रविवर्ज्जितः
चाश्नत्सु जपेदत्र कदाचित् पितृसंहिताम् ।अन्य एव जपः कार्य्यः सोमसामादिकः शुभः
यस्तत्र प्रकरोन्नस्य तिलवद्यववत्तथा ।उच्छिष्टसन्निधौ सोऽत्र तृप्तेषु विपरीतकः
सम्पन्नमिति तृप्ताः स्थ प्रश्नस्थाने विधीयते ।सुसम्पन्नमिति प्रोक्ते शेषमन्नं निवेदयेत्
प्रागग्रेष्वथ दर्भेषु आद्यमामन्त्र्य पूर्व्ववत् ।अपः क्षिपेन्मूलदेशेऽवनेनिक्ष्वेति निस्तिलाः
द्वितीयञ्च तृतीयञ्च मध्यदेशाग्रदेशयोः ।मातामहप्रभृतींस्तु एतेषामेव वामतः
सर्व्वस्मादन्नमुद्धुत्य व्यञ्जनैरुपसिच्य ।संयोज्य यवकर्कन्धुदधिभिः प्राङ्मुखस्ततः
अवनेजनवत् पिण्डान् दत्त्वा विल्वप्रमाणकान् ।तत्पात्रक्षालनेनाथ पुनरप्यवनेजयेत्
उत्तरोत्तरदानेन पित्तानामुत्तरोत्तरम् ।भवेदधश्चाचरणादधोऽधः श्राद्धकर्म्मसु
तस्मात् श्राद्धेषु सर्व्वेषु वृद्धिमत्स्वितरेषु ।मूलमध्याग्रदेशेषु ईषत्सक्तांश्च निर्व्वपेत्
गन्धादीन्निक्षिपेत्तूष्णीं तत आचामयेत्द्बिजान्
”“अथाग्रभूमिमासिञ्चेत् सु सुप्रोक्षितमस्त्विति ।शिवा आपः सन्त्विति युग्मानेवोदकेन ।सौमनस्यमस्त्विति पुष्पादानमनन्तरम्
अक्षतञ्चारिष्टञ्चास्त्वित्यक्षतानपि दापयेत् ।अक्षय्योदकदानन्तु अर्घ्यदानघदिष्यते
षष्ठ्यैव नित्यं तत् कुर्य्यान्न चतुर्थ्या कदाचन ।प्रार्थनासु प्रतिप्रोक्ते सर्व्वास्वेव द्विजोत्तमैः
पवित्रान्तर्हितान् पिण्डान् सिञ्चेदुत्तानपात्रकृत् ।युग्मानेव स्वस्तिवाच्यानङ्गुष्ठग्रहणं सदा
कृत्वा धूर्य्यस्य विप्रस्य प्रणम्यानुव्रजेत्ततः
*
तन्निमित्तानि यथा, विष्णुपुराणे ।“कन्यापुत्त्रविवाहे प्रवेशे नववेश्मनः ।नामकर्म्मणि बालानां चूडाकर्म्मादिके तथा
सीमन्तोन्नयने चैव पुत्त्रादिमुखदर्शने ।नान्दीमुखं पितृगणं पूजयेत् प्रयतो गृही
”मत्स्यपुराणे ।“अन्नप्राशे सीमन्ते पुत्त्रोत्पत्तिनिमित्तके ।पुंसवने निषेके नववेश्मप्रवेशने
देववृक्षजलादीनां प्रतिष्ठायां विशेषतः ।तीर्थयात्रावृषोत्सर्गे वृद्धिश्राद्धं प्रकीर्त्तितम्
”कूर्म्मपुराणे ।“तीर्थयात्रासमारम्भे तीर्थप्रत्यागमेषु ।वृद्धिश्राद्धं प्रकुर्व्वीत बहुसर्पिःसमन्वितम्
”इति श्राद्धतत्त्वम्