| YouTube Channel

नानशनम् (nAnazanam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“णश अदर्शने”@} 2 रधादिः।
नाशकः-शिका, नाशकः-शिका, 3 निनशिषकः-षिका- 4 निनङ्क्षकः-क्षिका, नानशकः-शिका
5 नशिता-त्री-प्रनंष्टा-ष्ट्री, नाशयिता-त्री, निनशिषिता-त्री-निनङ्क्षिता-त्री, नानशिता-त्री
नश्यन्- 6 प्रणश्यन्-न्ती, नाशयन् 7 -न्ती, निनशिषन्-निनङ्क्षन्-न्ती
-- नशिष्यन्- 8 प्रनङ्क्ष्यन्-न्ती-ती, नाशयिष्यन्-न्ती-ती, निनशिषिष्यन्, निनङ्क्षिष्यन्-न्ती-ती
-- -- -- -- नानश्यमानः, नानशिष्यमाणः
9 प्रनट्-प्रनक्-प्रणशौ-प्रणशः
-- -- -- 10 11 प्रनष्टम्- 12 प्रनष्टः-नष्टवान्, प्रणाशितः, निनशिषितः, निनङ्क्षितः-नानशितः, तवान्
नशः, 13 विनाशी, 14 कृतनाशी, 15 विनाशकः, 16 नश्वरः 17 -नश्वरी, नाशः, 18 चितविनाशनः-वित्तनाशनः-निनङ्क्षुः, नानशः
नशितव्यम्-नंष्टव्यम्, नाशयितव्यम्, निनशिषितव्यम्-निनङ्क्षितव्यम्, नानशितव्यम्
नशनीयम्, नाशनीयम्, निनशिषणीयम्, निनङ्क्षणीयम्, नानशनीयम्
नाश्यम्, नाश्यम्, निनशिष्यम्-निनङ्क्ष्यम्, नानश्यम्
ईषन्नशः-दुर्नशः-सुनशः, 19 दूणाशः
-- -- नश्यमानः, नाश्यमानः, निनशिष्यमाणः-निनङ्क्ष्यमाणः, नानश्यमानः
नाशः, नाशः, निनशिषः-निनङ्क्षः, नानशः
नशितुम्-नंष्टुम्, नाशयितुम्, निनशिषितुम्-निनङ्क्षितुम्, नानशितुम्
नष्टिः 20 जीवनक्, नाशना, निनशिषा-निनङ्क्षा, नानशा
21 नशनम्, नाशनम्, निनशिषणम्-निनङ्क्षणम्, नानशनम्
नशित्वा-नंष्ट्वा- 22] नष्ट्वा, नाशयित्वा, निनशिषित्वा, निनङ्क्षित्वा, नानशित्वा
प्रणश्य, प्रणाश्य, प्रणिनशिष्य-प्रणिनङ्क्ष्य, प्रणानश्य
23 अजकनाशं 24, विद्युत्प्रणाशं 25, 26 जीवनाशं 27 28, नाशम् २, नशित्वा-नंष्ट्वा-नष्ट्वा-२, नाशम् २, नाशयित्वा २, निनशिषम् २-निनशिषम् २-निन्ङ्क्षम् २, निनशिषित्वा २-निनङ्क्षित्वा २, नानशम्
नानशित्वा २।
प्रासङ्गिक्यः
01
=>
(६६७)
02
=>
(४-दिवादिः-११९४। अक। सेट्। पर।)
03
=>
[[४। ‘रधादिभ्यश्च’ (७-२-४५) इति वलादेरार्धधातुकस्येटो वैकल्पिकत्वात् इट्पक्षे रूपम्। एवम् इट्पक्षे सन्नन्ते सर्वत्र ज्ञेयम्।]]
04
=>
[[५। इडभावपक्षे, ‘मस्जिनशोर्झलि’ (७-१-६०) इति नुमागमे, ‘व्रश्च--’ (८-२-३६) इत्यादिना शकारस्य षत्वे, ‘षढोः कः सि’ (८-२-४१) इति कत्वे, ‘नश्चा- पदान्तस्य झलि’ (८-३-२४।) इत्यनुस्वारे, ‘इण्कोः’ (८-३-५७) इति सनः सकारस्य षत्वे, ‘अनुस्वारस्य ययि--’ (८-४-५८) इति परसवर्णे रूपम्। एवम् इडभावपक्षे सन्नन्ते प्रक्रिया सर्वत्र बोध्या।]]
05
=>
[[६। रधादित्वादिड्विकल्पः। इडभावपक्षे, ‘नशेः षान्तस्य’ (८-४-३६) इति णत्व- निषेधः। एवं तव्यदादिष्वपि ज्ञेयम्।]]
06
=>
[[आ। ‘प्रणश्यन्नपि नाशक्नोदत्येतुं बाणगोचरम्।’ भ। का। ९। १३४।]]
07
=>
[[७। ‘बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः’ (१-३-८६) इति ण्यन्तात् शतृप्रत्यय एव भवति। त्वात्मनेपदं शानच्।]]
08
=>
[[८। ‘नशेः षान्तस्य’ (८-४-३६) इत्यत्र अन्तग्रहणसामर्थ्यात् भूतपूर्वषकारान्तस्यापि प्रहणमिति, णत्वमत्रापि न।]]
09
=>
[[९। क्विपि, ‘व्रश्च--’ (८-२-३६) इति षत्वे, ‘नशेर्वा’ (८-२-६३) इति कुत्वविकल्पः। भूतपूर्वगत्या षकारान्तत्वात् णत्वं न।]]
10
=>
[पृष्ठम्०६२०+ २७]
11
=>
[[१। वलादेरार्धधातुकस्य ‘रधादिभ्यश्च’ (७-२-४५) इतीड्विकल्पनात् निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधः।]]
12
=>
[[आ। ‘विद्युत्प्रणाशं वरं प्रनष्टो यद्वोर्ध्वशोषं तृणवद्विशुष्कः।’ भ। का। ३। १४।]]
13
=>
[[२। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
14
=>
[[B। ‘कुर्मश्च जीविते बुद्धिं धिक् तृष्णां कृतनाशिनाम्।।’ भ। का। १८। ३२। (मल्लिनाथसम्मतपाठानुसारेण णिनिप्रत्ययान्ततया लिखितम्।)]]
15
=>
[[३। ‘निन्दहिंसक्लिशखादविनाश--’ (३-२-१४६) इत्यादिना तच्छीलतद्धर्मतत्साधु- कारिषु वुञ्। अकादेशः।]]
16
=>
[[४। ‘इण्नशिजि--’ (३-२-१६३) इति तच्छीलादिषु कर्तृषु क्वरप्। स्त्रियां ‘टिड्ढा--’ (४-१-१५) इति ङीप्।]]
17
=>
[[C। ‘रद्धारये सोऽयमनश्वराय तृप्यन्मना दृप्तजनद्रुहेऽस्मै।’ धा। का। २। ६४।]]
18
=>
[[५। चित्तं विनाशयतीति, वित्तं नाशयतीति चित्तविनाशनः, वित्तनाशनः। नन्द्यादित्वात् (३-१-१३४) ण्यन्तात् कर्तरि ल्युः। कर्मण्यणोऽपवादः।]]
19
=>
[[६। दुःखेन नाशयितव्यः = दूणाशः। ‘ईषत्--’ (३-३-१२६) इत्यादिना ण्यन्तात् खल्। ‘दुरो दाशनाशदभध्येषु उत्त्वम्, उत्तरपदादेः ष्टुत्वं च’ (वा। ६-३-१०९) इति वचनेन उपसर्गान्त्यस्योत्वम्, सवर्णदीर्घः, उत्तरपदादेः ष्टुत्वं च।]]
20
=>
[[७। जीवो नश्यतीति, जीवं नाशयति, इति वा जीवनक् = आहुतिविशेषः। बाहुलकादत्र स्त्रियाम् अर्थविशेषे क्विप उपपत्तिः।]]
21
=>
[पृष्ठम्०६२१+ २६]
22
=>
[[१। ‘रधादिभ्यश्च’ (७-२-४५) इतीड्विकल्पः। इट्पक्षे नशित्वा इति रूपम्। इडभावपक्षे ‘मस्जिनशोर्झलि’ (७-१-६०) इति नुमि, नंष्ट्वा इति रूपम्। ‘जान्तनशां विभाषा’ (६-४-३२) इति क्त्वायां नकारस्य विकल्पेन लोपे नष्ट्वा इति रूपम्।]]
23
=>
[[२। ‘उपमाने कर्मणि च’ (३-४-४५) इति णमुल्। ‘कषादिषु यथाविध्यनुप्रयोगः’ (३-४-४६) इति णमुलन्तस्य धातोः अनुप्रयोगः। अजकश्व नष्ट इत्यर्थः। विद्युत्प्रणाशं नष्टः इत्यत्राप्येवमेव।]]
24
=>
[नष्टः]
25
=>
[नष्टः]
26
=>
[[३। ‘कर्त्रोर्जीवपुरुषयोर्नशिवहोः’ (३-४-४३) इति णमुल्। ‘कषादिषु--’ (३-४-४६) इति अनुप्रयोगः। जीवो नश्यतीत्यर्थः।]]
27
=>
[[आ। ‘चकम्पेऽतीव चुक्रोश जीवनाशं ननाश च।।’ भ। का। १४। ३१।]]
28
=>
[नष्टः]