नाधृ (nAdhR)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुपाठः (Krishnacharya)
Sanskrit नाध्
नाधृ
याच्ञा-उपताप-ऐश्वर्य-आशीष्षु
भ्वादिः
सकर्मकः
सेट्
आत्मनेपदी
नाधते
क्षीरतरङ्गिणी
Sanskritनाधृँ नाधृ
मानकरूपान्तरम् - नाथृँ
नाथृ याच्ञा, उपताप, ऐश्वर्या, आशीःषु
(अर्थविवरणम्) उपताप उपघातः
याच्ञोपतापयोरित्यर्थयोः क्रियात्वात् ऐश्वर्याशिषोस्तु द्योत्ययोर्धर्ममात्राभिधानात् यथा घण्टा ध्वनति, श्वेतते प्रासादः, संयुज्यते, समवैति, अस्ति, गन्डतीति गुण-संयोग-समवाय-सत्ता-द्रव्याणि सिद्धानि आख्यातेन साध्यत्वेन प्रतीयन्ते पूर्वापरीभूतं भावमाख्यातेनाचष्टे' (निरुक्त 1/1) इति नाधते अननाधत् तथा नाथते आशिषि नाथ इत्युपसंख्यानात् (1/3/21 वा।) आत्मनेपदम्, षष्ठी च सूत्रात् (2/3/55) सर्पिषो नाथते - सर्पिर्मे भूयादित्याशास्ते अन्यत्र नृपं नाथति, याजते रिपुं नाथति, स्वामी नाथति, ईष्टे नाथोऽचि (द्र।3/1/134) नाथ इत्यनुपसर्गस्य नियमान्नेहात्मनेपदम् - एतन्मन्दविपक्वतिन्दुरुफलश्यामोदरापाण्डुरच्छायं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते तत् पल्लीपतिपुत्रिकुञ्जरकुलं जीवाभयाभ्यर्थना दीनं त्वामनुनाथते कुचयुगं पत्रांशुकैर्मा पिधाः नोपदेशावैतौ यथाहुः - सर्वे नादयो णोपदेशाः, नृति-नन्दि-नर्दि-नक्कि- नटि-नाधृ-नाथृ-नृवर्जम् (तु0महाभाष्य 6165) इति उपसर्गादसमासेऽपि णोपदेशस्य (8414) इति णत्वं नास्ति - प्रनाथते अननाथत् 6, 7
धातुवृत्तिः
Sanskritनाधृँ नाधृ
मानकरूपान्तरम् - नाथृँ
नाथृ (अर्थः) याच्ञा, उपताप, ऐश्वर्या, आशीःषु
(अर्थविवरणम्) उपतापो रोग इति वृत्तौ
उपघात इति तरङ्गिण्याम् आद्यो धान्तः, अपरस्थान्तः अस्य थान्तस्य धान्तकाण्ड पाठोऽर्थसाम्यात् उभवपि दन्त्यादी सर्वं गाधतिवत् द्वितीयस्य तु विशेषः "आशिषिः नाथः'' इत्याशिष्येवात्मपेपदं, कर्मणि शेषत्वेन विवक्षिते षष्ठी च ( सपिषो नाथत इत्यादि) "षष्ठी शेष'' इत्येवात्र षष्ठीसिद्धौ वचनमिदं सर्पिषो नाथनमित्यादौ समासनिवृत्त्यर्थं षष्ठी श्रूयत एव न लुप्यत इति, स ( 1 ) ( 1 ) "षष्ठीलोपश्च समासे' इति क्वाचित्पाठः लोपश्च समासे उक्तं च
साधनैव्र्यपदिष्टे च श्रुयमाणक्रिये पुनः प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये
इति न तर्हींदानीमिदं सम्भवति सर्पिनांथनमिति भवति यदा कृद्योगलक्षणा षष्ठी तथा च वार्तिकं, [ प्रतिपदविधाना च षष्ठी न समस्यते कृद्योगा च षष्ठी समस्य इति ] न चैवं सति समासनिषेधस्य वैयर्थ्यमिति वाच्यम् यतः शेषषष्ठ्याः समासे "समासस्य'' इत्यन्तोदात्तत्वेन भाव्यम्, अन्यस्यास्तु ( सूत्रम्) गतिकरकोपपदात् कृत् (इति सूत्रम्) गत्यादिभ्यः पंर कृदन्तमुत्तरपदं प्रकृतिस्वरमित्युत्तरपदप्रकृतिस्वरेण भाव्यं, स च लिति प्रत्यये पूर्वमुदात्तत्वम् अनाशिषि परस्मैपदं द्रष्टव्यम् ( नाथति ननाथ नाथिता नाथिष्यति नाथतु अनाथद् नाथेत् नाथ्यात् अनाथीत् अनाथिष्यत् निनाथिषतीत्यादि ) यङ्लुक्यझषन्तत्वात् "झषस्तथोर्धो धः'' इति धत्वाभावे "खरि च'' इति चर्त्त्वे ( नानात्ति नानात्तः नानात्थ इत्यादि) विशेषः अत्र मैत्रेयामभरणकारावाद्यं णोपदेशं पठन्तौ "णो नः'' इति धात्वादित्वाण्णकारस्य नकारं विधाय "उपसर्गादसमासेपि णोपदेशस्य'' इति उपसर्गस्थान्निमितात्परस्य णोपदेशनकारस्य समासासमासयोर्णत्वविधानात् (प्रणाधत) इत्यादौ णत्वप्रयोजनमाहतुः सर्वे नादयो णेपदेशा इत्यस्य पर्युदासे नृतिन्दिनर्दिनर्दिनर्दिनक्किनटिनाधृनाथवर्जमित्यत्र च नपेठतुः अत्र काश्यपः नाधतेर्णोपदेशत्वमयुक्तं, गणकारवृत्तिकारादीनामनिष्टत्वादिति नृतिनन्दीतृयादिवाक्ये नाधृनृवर्जं नृत्यादीन् पठित्वैतान्सप्त वर्जयित्वेति वदन् श्रीकरोप्यत्रैवानुकृलः तथापर्युदावाक्ये नर्दतिवर्जं सर्वानेतान् पठतः शाकटायनन्यासकृतोप्ययमेव पक्षोभिमतः उभयोस्थान्तपाठस्तु धान्तप्रकरणविरोधान्नाशक्यः मौ याञ्चायामकथितेप्सिततमाभ्यां द्विकर्मकौ
दुहियाचिरुधिप्रच्छिभिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ
ब्रुविशासिगुणेन च यत्सचते तदकीर्त्तितमाचरितं कविना
इतृयत्र भिक्षेरर्थपरत्वात् उक्तं च कैयटे दुह्मादीनां चार्थोपलक्षायोपादानात् पर्यायप्रयोगेपि कर्मसंज्ञा भवतीति अथांश्रय चेयं संज्ञा न दुह्मादिवत्स्वरूपाश्रयेति भिक्षि प्रस्तुत्य वदतो हरदत्तस्यापि मते ऽत्र न विवादः श्लोकार्थस्तु उपयुज्यत इत्युपयोगः, वयःप्रभृतिप्रधानं कर्म, तस्य निमित्तं गवादि तच्च यच्च ब्रुविशास्योर्गुणेन प्रधानकर्मणा धर्मादिना क्रियां प्रति साधनत्वेन गुणत्वात् लब्धगुणव्यपदेशेन सवते सम्बन्धमुपैति माणवकादि, तदुभयं कारकं पूर्वविधौ विशेषेणाविवक्षितत्वादनादनादिसंज्ञाभावे कविना क्रान्तदर्शिना सूत्रकारेणाकथितं कर्मोक्तमिति याचिरिहानुनयार्थः याचनार्थस्य तु भिक्षिणैव सिद्धम् अथान्येपि द्विकर्मकाः प्रसङ्गात् प्रदर्श्यन्ते यदाह - नीवह्मोर्हरतेश्चापि गत्यर्थानां तथैव च द्विकर्मकेषु ग्रहणं कत्तव्यमिति निश्चयः गत्यर्थग्रहणं गत्यादिसूत्रोपात्तानामुपलक्षणम्, जयतेः कर्षतेर्मन्येर्मुषेर्दण्डयतेः पचेः तारेर्ग्रा हेस्तथा मोवेस्त्याजेर्दीपेश्च संग्रहः कारिकायां चशब्देन सुधाकरमुखैः कृतः ग्राहेरिह ग्रहो नैव हरदत्तस्य संमतः यदसौ "गतिबुद्धि'' इत्यत्राथ कथम् "याचितारं नहि देवेवमद्रिः सुतां ग्राहयितुं शशाक' इति स्वतन्त्राः कवयः यद्वा सुतां प्रति नकिंचिदुद्वाहविषयं ग्राहयितुं बोधयितुं शशाकेत्येवं व्याख्येयम् अत्र बुद्धयर्थत्वात् द्विकर्मकत्वं सिद्धमिति समर्थयते इतीयं च निर्व्वाहणा दिक् प्रतिग्रहणस्य ममेदमिति बुद्धिविशेषनिरूप्यत्वात् सुतां ग्राहयितुं ममेयमिति बोधयितुं न शशाक इत्येवं व्याख्यातुमुचितत्वात् इदानीं नकिंचिदुद्वाहविषयमित्याद्यध्याहर्त्तव्यं भवति तथा श्रीकराचार्यस्याप्यभिमतमुपादानर्थस्य द्विकर्मकत्वम् अजिग्रहत्तं जनको धनुस्तद्येनार्दिदद्दैत्यपुरः पिनाकी जिज्ञासमानो बलमस्य बाह्वोहॅंसन्नताक्षीद्रघुनन्दनस्तत् इति भट्टिश्लोकं विवृण्वन्यदाह तद्धनुस्तं रामं जनकोऽजिग्रहत् बोधितवान् अनेन धनुषा त्रिपुरं दग्धमिति, ग्रहेश्च बुद्धयर्थत्वात् "गतिबुद्धि'' इत्यादिना रामस्य कर्मसंज्ञा, धनुषस्तु "कर्तुरीप्सिततमम्'' इति ग्रहहिद्विकर्मकः उपानार्थत्वे तु ग्रहिग्रत्यादिष्वेकोऽपि न भवतीति कथं तमितीति अत एव तमादौ कुलविद्यानार्थमर्थविदां वरः पश्चात्पार्थिवकन्यानां पाणिमग्राहयत पिता इत्यर्थमबोधयदित्यर्थः बुध्यर्थत्वाद् द्विकर्मकत्वमुक्ता पाणिमग्राहयदित्यत्र तेनेत्यध्याहारेण व्याख्यानात् प्रकृत्युपश्लेषेण बुद्धयपादानयोर्ग्रहणं, किं चास्य द्विकर्मकत्वे अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्यामित्यत्र "ण्यन्ते कर्तुश्च कर्मण' इति प्रयोज्यायाधेनोरभिध्णानेन भाव्यं, ततश्च जायया गन्धमाल्ये या धेनुः प्रतिग्राहितेति विग्रहीतव्यम्, अत्र च प्रथमार्थं वर्जयित्वा सर्वविभक्त्यर्थेषु बहुव्रीहिरित्युक्तत्वात्मसमासो न स्यात्, सत्यपिसमासे समानाधिकरणोत्तरपदाभावत् "स्त्रियाः पुंवत्'' इति पुंवद्भावो न स्यात् पक्षान्तरे तु गन्धमाल्ययोरेव कर्मत्वात्वात्तयोरेव क्तस्तेनाभिधानात् जाया प्रतिग्राहिते गन्धमाल्ये यया धेन्वेतृयूडरथादिवत् तृतीयार्थेन समासः सिध्यती गतमदः इतिषशकी च द्विकर्मकौ भाष्यउक्तौ एवं चायाचितारं नहि देवदेवमित्यत्रापि देवः शक्यपेक्षया कर्म सुता प्रहिग्रहापेक्षयेति न संकटं किं चित् अथ द्विकर्मकसाधारणमिदं विचार्यते किमेते तादयः प्रधाने कर्मणि भवन्ति अथाप्रधाने न चानयोर्युगपदभिधानसंभवो भिन्नकक्षत्वात् अत्राह प्रधानर्मण्याख्येये लादीनाहुद्विकर्मणाम् अप्रधाने दुहादीनां ण्यन्ते कर्तृश्च कर्मणः इति अभिधान इति शेषः अत्र द्विकर्मणामित्यनेन "नीवह्मोर्हरतेश्च' इति च शब्दसमुच्चितः कृषिः नयत्यादयश्च त्रय उच्यन्ते अन्येषां विशेषस्य वक्ष्यमाणत्वात् तथा दुह्मादीनामित्यनेन कारिकोपात्ताश्चशब्दसमुच्चितेष्वहेतुमण्ण्यन्तादज्णयादयश्चोच्यन्ते, ण्यन्त इत्यनेन तु गत्यादिसूत्रोपाताश्चशब्दसमुच्चितास्तार्यादयश्च अक्ष बुद्धिप्रत्यवसानार्थशब्दकर्मकेषु प्राकृते वा कमणि प्रयोज्ये वा लादयः यदाह कथितेभिहिते त्वविधिस्त्वमतिगुणकर्मणि लादिविधिः सपरे ध्रुवचेष्टितयुक्तिषु चाप्यगुणे तदनल्पमतेर्वचनं स्मरति अस्यार्थः तत्र प्रथमः प्रधानकर्मणि लादिभिरमिहिते गुणकर्मणि षष्ठीत्येकीयमतदुषणपर इति इहानुपयोगात् न व्याख्यायते सपरे गत्यादिसूत्रोपात्तसहिते दुह्मादौ गुणकमेणि लादयः गुणकर्मति पुरुषप्रवृत्तेः पयः प्रभूत्यर्थत्वात् दुह्मादावप्रधानं गवाद्यच्युते ण्यन्ते तु शब्दतः प्रयोजकव्यापारस्य प्राधान्यं प्रयीज्यव्यापारस्य त्वप्राधान्यमिति तदाप्यधर्माद्युच्यते ध्रुव्युक्तयोऽकर्मकाः, चेष्टितयुक्तयो गत्यर्थाः एष्वगुणे प्रयोज्ये, तदेतदनल्पमतेर्मेधाविन आचार्यस्य वचनमिति अत्र स्मरतोत्यनेनागमस्याविच्छेदं दर्शयति एवं चात्रापि याचनस्य धनाद्यर्थत्वात्तस्यैव प्राधान्यादन्यद्राजादि कर्माप्रधानमिति तत्रैव लादयो भवन्तीति ( नाथ्यते राजा धनं नाथ्यः नाथितः सुनाथ ) इत्यादि भवति नाथिता धनस्य राज्ञ इतयत्र च कर्मणि षष्ठयुभयत्र भवति गुणकर्मण्युभयथा ( गोणिकायुत्र ) इति भाष्ये उक्तत्वात् द्वितीयापि द्रष्टव्या ( नाथिता धनस्य राजानमिति ) भाष्ये नयतेरुदाहरणं प्रदर्शनमात्रं, स्पष्टं चैतत पदमञ्जर्यादिषु ( नाथितव्यो राजा धनं देवदत्तेनेत्यत्र कर्तृकर्मणा ) प्राप्ता कृद्योगलक्षणा षष्ठी ( सूत्रम्) कृत्यानां कर्त्तरि वा (इति सूत्रम्) इतृयत्र कृत्यानामिति योगं विभजृय प्राप्तौ नेति चानुवर्त्त्य उभयप्राप्तौ नेति चानुवर्त्त्य उभयप्राप्तौ कृत्ये षष्टयाभावस्य भाष्ये प्रतिपादितत्वाच्च भवति स्पष्टं चैतत्कैयटादौ यत्तु "कृत्वार्ना' इत्यत्रोभयप्राप्तौ कृत्ये षष्ठीपतिषेध इति वृत्तिमुपादाय प्रतिषेधो ऽयं कर्त्तरि षष्ठयाः कर्मणि षष्ठी तु प्रधानस्य कर्मणः कृत्वेनाभिधानादन्यस्याप्राधानादप्रसङ्ग इति न्यासे ऽर्थसत्वमुक्तं उभयप्राप्तिव्यतिरिक्तकृत्यविषयः ( नाथितव्यं सर्पिर्देवदत्तेन देवदत्तस्येति वा )6-7
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
कृदन्तरूपमाला
Sanskrit1 {@“नाधृ याच्ञोपतापैश्वर्याशीःषु”@} 2 नाधकः-धिका, नाधकः-धिका, निनाधिषकः-षिका, नानाधकः-धिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकगाधतिवत् 3 ज्ञेयानि।
4 नाधितः।
01 (९५१)
02 (१-भ्वादिः-७-अक। सेट्। आत्म।)
03 (३९४)
04 [[आ। ‘द्रक्ष्यन् हरिं नाधितलोकनाथकं देधे मुदास्कुन्दितमन्तरिन्द्रियम्।।’ धा। का। १। २।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
