| YouTube Channel

नादेयं (nAdeyaM)

 
शब्दकल्पद्रुमः
Sanskrit
नादेयं,
क्ली,
(नद्या नदस्य वा इदं तत्र भवं वा ।नदी वा नद + ढक् ।) सैन्धवलवणम् इतिरत्नमाला
सौवीराञ्जनम् इति राजनिर्घण्टः
नदीनदसम्बन्धिजलादौ, त्रि यथा, --(“नादेयं नादेयं शरदि वसन्ते नादेयम् ।पानीयं पानीयं शरदि वसन्ते पानीयम्
”इति वैद्यकराजवल्लभीयद्रव्यगुणे
)“नद्या नदस्य वा नीरं नादेयमिति कीर्त्तितम्
”अस्य गुणाः यथा, भावप्रकाशे ।“नादेयमुदकं रूक्षं वातलं लघु दीपनम् ।अनभिष्यन्दि विशदं कटुकं कफपित्तनुत्
”(न आदेयमिति विग्रहे अग्राह्ये, त्रि यथा, --“सौगन्ध्यहीनं नादेयं पुष्पं कान्तमपि क्वचित्
”)