| YouTube Channel

नाथवान् (nAthavAn)

 
शब्दकल्पद्रुमः
Sanskrit
नाथवान्, [त्] त्रि, (नाथो विद्यतेऽस्येति नाथ +मतुप् मस्य वः ।) पराधीनः इत्यमरः ।१ १६
प्रभुविशिष्टः
(रक्षकवान् यथा, रामायणे ६२ १२ ।“नाथवांश्च शुनःशेफो यज्ञश्चाविघ्नतो भवेत्
”स्त्रियां ङीप् यथा, रामायणे ३८ ।“तस्यां चीरं वसानायां नाथवत्यामनाथवत् ।प्रचुक्रोश जनः सर्व्वो धिक् त्वां दशरथन्त्विति
”)