| YouTube Channel

नाडीस्वरसञ्चार (nADIsvarasaJcAra)

 
वाचस्पत्यम्
Sanskrit
नाडीस्वरसञ्चार
पु०
त० नाडोभेदे वायोः वहनरूपे गति-भेदे देहमध्ये वामभागस्थायाम् ईडायां श्वासादिधिक्येनसञ्चारे चन्द्रोदयः, दक्षस्थायां पिङ्गलायां तथा वहनेसूर्य्योदयः इत्येतत् स्वरोदयग्रन्थे प्रसिद्धम् तस्य शुभा-शुभफलादिकं कालविशेषनियमश्च प्रदर्श्यते ग्रहयामले“आदौ चन्द्रः सिते पक्षे भास्करस्तु सितेतरे प्रतिपत्-क्रमतोऽहानि त्रीणि कृत्वोदयत्ययम्” त्रिपुरासारसमुच्चयेतु अमावास्यावध्युदयमाह यथा “आरभ्य दर्शं प्रथमामुदेतिवामे पुटे त्रीणि दिनानि देवः वामेतरे त्रीणि ततोदिनानि पूर्णां तिथिं यावदथैवमेवम् एकस्य पक्षस्यविपर्ययेण रोगाभिभूतिर्भवतीह पुंसाम् पक्षद्वये बन्धु-सुहृद्विपत्तिः पक्षत्रये व्यत्ययतो मृतिः स्यात्” ब्रह्मजामले“चन्द्रोदये यदा सूर्यश्चन्द्रः सूर्य्योदये यदा अशुभंहानिरुद्वेगः, शुभं सर्वं निवारयेत्” चन्द्रोदये वामनाड्यां वायुगमननिरूपितसमये एवं सूर्य्योदये दक्षिण-नाड्यां वायुगमननिरूपितसमये कर्मविशेषे नासिकयोर्वायोः प्रवेशनिर्गमाभ्याञ्च शुभत्वमपि तत्रैव “यात्राकालेविवाहे वस्त्रालङ्कारधारणे शुभकर्मसु सर्वेषु प्रवेशेच शशी शुभः विग्रहद्यूतयुद्धेषु स्नानभोजनमैथुने ।व्यवहारे भये भङ्गे भानुनाडी प्रशस्यते मोहनं शा-न्तिकञ्चैव दिव्यौषधिरसायनम् विद्यारम्भः स्थिरंकार्य कर्तव्यञ्च निशाकरे दूरयुद्धे जयी चन्द्रः सुमा-भन्ने दिवाकरः वहन्नाडीपदे चैव यात्रा भवति सि-दिटा” यस्यां नासिकायां प्राणवायोर्गतिर्भवति तद्दे-शीयपादप्रसारणपूर्विका यात्रा सिद्धिदा भवतीत्यर्थः “श-यने प्रसङ्के वा युवत्यालिङ्गनेऽपि वा यः सूर्य्येप्यपिबेच्चन्द्रं भवेन्मकरध्वजः” सूर्येण दक्षिणनासि-कास्थप्राणवायुना, चन्द्रं वामनासिकागतप्राणवायुं पि-बति तत्सङ्गकाले स्वीयनिःश्वासमतिनिविष्टः सन्ना-कर्षयति तत्फलं तत्रैव “चन्द्रचारो विषं हन्तिसूर्य्यो बालावशं नयेत् सुषुम्णायां भवेन्मोक्ष एकोदेवस्त्रिधा मतः भुक्तमात्रेण मन्दाग्नौ स्त्रीणां वश्येऽथ कर्मणि शयनं सूर्यवाहेन कर्त्तव्यं सर्वदा बुधैः ।शान्ते शोके विवादे ज्वरीते मूर्च्छिते तथा सज्जन-स्यापि वोधार्थे चन्द्रचारं प्रवाहयेत्” भुक्तमात्रादौवामपार्श्वेण, शान्तादिषु दक्षिणपार्श्वेण शयनं कार्यमितितात्पर्य्यम् चतुर्दिक्षूर्द्ध्वमधस्ताच्चान्यतरस्थानमाश्रित्ययदि दूतः पृच्छति तदा कस्यां नाड्यां वायुगतिः शुभे-त्याह “ऊर्द्ध्ववामागतो दूतो ज्ञेयो वामपथस्थितः ।पृष्ठे दक्षे तथाधस्तात् सूर्यवाहगतो मतः पूर्वनाडीगतो दूतो यत् पृच्छति शुभाशुभम् तत्सर्वं सिद्धमा-प्नोति शून्ये शून्यं संशयः आदौ शून्यगतः पृच्छेत्पश्चात् पूर्णो विशेद् यदि तदा सर्वार्थसिद्धिः स्यादितिजानीहि निश्चितम्” इदानीं प्रणावायोः प्रवेशनिर्ग-माभ्यां विशेषमाह “प्रवेशकाले यद्भूतो वाञ्छति स्वप्र-योजनम् तत्सर्वं सिद्धिमाप्नोति निर्गमे नास्ति सुन्द्र-रम्” कर्मविशेषे नाडीविशेषगतिमाह “मारणं मोहनंस्तम्भं विद्वेषोच्चाटनं तथा प्रेरणाकर्षणक्षोभं भानु-नाड्युदये कुरु शान्तिकं पौष्टिकं क्षेमं दिव्यौषधिरसायनम् योगाभ्यासादिकर्माणि कर्तव्यानि निशाकरे” ।त्रिपुरासारंसमुच्चये “भूतानामुदयं द्वयोरपि बुधः संलक्ष-येत् पक्षयोस्तत्रादौ वसुधोदयं निहितघीर्घ्राणस्य दण्ड-स्पृशि देवेऽधस्पृशि वारिणोहुतवहस्योर्द्धा गतिश्चो-दयं तिर्यक्संस्पृशि मारुतस्य परितः पृष्ठे मरुद्वर्त्मनः”देवे प्राणवायौ फलं जामले “पृथ्वीजले शुभेतत्त्वेतेजोमिश्रफलोदयम् हानिमृत्युकरौ पुंसामुभयौव्योममारुतौ” कर्मविशेषे भूतोदयफलं त्रिपुरास्मरे“वश्यस्तम्भनयोः प्रशस्त उदयो भूमेर्जलस्योद्रयः शस्तःशान्तिकपौष्टिकादिषु शुभो वन्धाय वह्नेः पुनः शत्रो-र्मारणदारणदिकरणे उच्चाटनोच्छेदयोर्वायोः शान्ति-कनिर्विषीकरणयोर्व्योम्नो हितश्चोदयः कियत्काल-मेकनाडीगतो वायुर्भवति तत्रापि पञ्चभूतोदयः केन ज्ञेयइत्यपेक्षायां नाडीगतिकालं स्थानक्रमेण भूतोदयञ्चाहजामसे “एकैकस्य कलाः पञ्च क्रमेणैवोदयन्ति ताः पृथि-व्यापस्तथा तेजो वायुराकाशमेव मध्ये पृथ्वी त्वध-श्चाप ऊर्द्धे वहति चानलः तिर्यग्वायुप्रवाहश्च नभोवहति संक्रमे” प्रपञ्चसारेऽपि “पुटयोरुभयोश्च दण्ड-संस्था पृथिवी तोयमधःकृशानुरूर्द्धम् पवनस्त्वथ पार्श्वगोऽपि मध्ये गगनं भूतगतिस्तनूद्भवेयम्” तत्रापि बाल्या-द्यवस्थाभेदमाह रुद्रजामले उत्तरखण्डे एकादशपटले“स्वकीयनासिकाग्रन्तु पञ्चमं परिकीर्तितम् यन्नासा-पृटमध्ये तु वायुर्भ्रमति भैरव! तन्नासापथमध्ये तुभावाभावं विचारयेत् आकाशं वायुरूपं हि तैजसं-वारुणं प्रभो! पार्थिवं क्रमशोज्ञेयं बाल्यास्तादि क्र-मेण तु वामोदये शुमा वामा दक्षिणे पुरुषः शुभः ।वायूनां गमनं ज्ञेयं गगनावधिरेव केवलं मध्य-देशे तु गमनं पवनस्य तदाकाशं विजानीयाद्बा-ल्यभावं प्रकीर्त्तितम् तिर्यग्गतिस्तु नासाग्रे वायोरु-दयमेव केवलं भ्रमणं ज्ञेयं सर्वमङ्गलमेव ।किशोरं तद्विजानीयाद्वायौ तिर्यग्गतौ विभो! केवला-र्द्धनासिकाग्रे वायुर्गच्छति दण्डवत् तत्तैजसं विजा-नीयात्तेजसा बलवान् भवेत् यौवनं तद्विजानीयात्कर्मसिद्धिर्भवेद्ध्रुवम् यदा व्याप्य गच्छतीह नासापुटमना-कुलम् जलोदयं विजानीयात् तदाव्यामोहमेव ।तद्वृद्धगतमावञ्च विलम्बोऽधिकचेष्टया प्राप्नोति परमांप्रीतिं वारुणार्णोदयोऽरुणम् यद्यधोगच्छति क्षिप्रंकिञ्चिदूर्द्धमगोचरम् यदा करोति प्राग् वालं तदारो-गाद्बलोदयः पृथिव्या उन्नतं भागं रोगार्त्तं परि-पीडितम् अस्तमितं महादेव अनुलोमविलोमतः ।पवनोगच्छति क्षिप्रं वामदक्षिणभेदतः वामनासापुटंयाति पृथिवी जलमेव सदा फलाफलं दातुमु-दिताकुलमण्डले तयोर्वै वायवी शक्तिं फलभागं तदालभेत्” अवस्थाभेदे तत्फलकथनं तत्रैव “यद्येवंवाममागे तु बालायाः प्रश्नकर्मणि यदि तत्र पुमान्प्रश्नं करोति वामगामिनी तदा रोगमवाप्नोति क-र्मार्हो भवेद्ध्रुवम् यदि वायूदयो वामे दक्षिणेपुरुषः स्थितः तदा कुफलमाप्नोति द्रव्यागमनदुर्लभम् ।अकस्माद्द्रव्यहानिः स्यान्मनीगतफलापहम् सुहृद्भङ्गंविवादञ्च भिन्ने भिन्नोदयात् शुभम् केवलं वरुणस्यैवपुरुषो दक्षिणे शुभः अशुभं पृथिवीदक्षे भेदोऽयंवरदुर्लभः सदोदयं दक्षिणे वायोस्तेजसएव ।आकाशस्य विजानीयात् शुभाशुभफलं प्रभो! यदिभाग्यवशादेव वायोर्मन्दा गतिर्भवेत् दक्षनासा मध्यदेशे-तदा वामोदयं शुभम् तदा वामे विचारश्च वायुतेजः-स्वरस्य ज्ञात्वोदयं विजानीयान्मित्रे हानिः स्वरेभयम् एवं स्वभुवनागारे यदि गच्छति वायवी ।तस्मिन् काले पुमान् वामदक्षभागस्थसम्मुखः तदाकन्यादानफलं यथा प्राप्नोति मानवः तदा वायुप्रसादेनप्राप्नोति धनमुत्तमम् देशान्तरात् शुभा वार्त्ता आयातिपुत्रसम्पदः” इति स्त्रीपुंसभेदेन फलकथनं सूक्ष्मस्वरोदये“गुरुशुक्रबुधेन्दूनां वासरे वामनाडिकाः सिद्ध्यन्तिसर्वकार्येषु कृष्णपक्षे विशेषतः अर्काङ्गारकशौराणांवासरे दक्षनाडिका स्यात्तथा चिरकालेन शुक्ले नैवो-दयःस्थितः क्रमादेकैकनाड्यास्तु तत्त्वानां पृथगुद्भवः ।अहोरात्रस्य मध्ये तु ज्ञेया द्वादश संक्रमाः वृषकर्कट-कन्यालिमृगमीननिशाकरे मेषे सिंहे वनुषि-तुलायां मिथुने घटे उदयो दक्षिणे ज्ञेयः शुभाशुभविनिर्णयः” वारादिभेदेन नाडीविशेषफलकथनम् ।“तिष्ठेत् पूर्वोत्तरे चन्द्रोभानुः पश्चिमदक्षिणे दक्ष-नाड्याः प्रवाहे तु गच्छेद्दक्षपश्चिमे” इति नाडी-विशेषेण दिग्गतिः “वामचारप्रवाहे तु गच्छेत्पूर्व उत्तरे परिपन्थो भवेत्तस्य गतोऽसौ निवर्त्तते ।तस्मादत्र गन्तव्यं बुधैः सर्वहितेप्लुभिः तदा तत्र तुसङ्घाते मृत्युरेव संशयः” इति वहन्नाडीकस्य दिग्-विशेषगमननिन्दा “शुक्लपक्षे द्वितीयायामर्के वहतिचन्द्रमाः प्रदृश्यते महाँल्लाभः पुंसः सौख्यं प्रजायतेसूर्य्योदये यदा सूर्य्यश्चन्द्रे चन्द्रोदयो भवेत् सिध्यन्तिसर्वकार्य्याणि दिवारात्रिगतान्यपि” स्वस्वनाडा-फलकृथनम् “चन्द्रकार्थे यदा सूर्यः सूर्यश्चन्द्रोदये भवेत् ।उद्वेगः कलहो हानिः शुभं सर्वं निवारयेत्” इतिविपरीतनिन्दा “सूर्यस्य वाहे प्रवदन्ति लाभं प्रकाशनेयुक्तमनःस्थिरञ्च श्वासेन युक्तस्य तु शीतरश्मेः प्रवाह-काले फलमन्यदस्मात् यदा प्रत्यूषकाले तु विपरीतोदयोभवेत् चन्द्रस्थाने स्थिते चार्के रविस्थाने चन्द्रमाः ।प्रथमे मानसोद्वेगं धनहानिं द्वितीयके तृतीये गमनंविद्यादिष्टनाशं चतुर्थके पञ्चमे राज्यविभवं षष्ठे स-र्वार्थनाशनम् सप्तमे व्याधिदुःखानि अष्टमे मृत्यु-मृच्छति” इति दिनभेदेन विपरीतफलम् “कालत्रयंविनाऽनिष्टो विपरीतः यदा भवेत् तदा दुष्टफलं प्रोक्तंकिञ्चिन्न्यूनेऽतिशोभनम् प्रातर्मध्याह्नयोश्चन्द्रः सायं-काले दिवाकरः तदा नित्यं जयं लाभं विपरीतन्तुदुःखदम्” इति कालभेदेन फलम् “वामे वा दक्षिणेवापि यत्राप्याक्रम्यते स्वरः कृत्वा तत्पदमाद्यञ्च यात्राभवति सिद्धिदा” इति वहन्नाडीकस्य यात्राफलम्