| YouTube Channel

नाडीव्रण (nADIvraNa)

 
शब्दसागरः
English
नाडीव्रण
n.
(-णं) An ulcer.
E.
नाडी a sinus, and व्रण a sore. (नालीघा ।)
Yates
English
नाडी-व्रण (णं) 1.
n.
An ulcer.
Spoken Sanskrit
English
नाडीव्रण nADIvraNa
m.
fistula
शतपोनक zataponaka
m.
fistula
कुष्ठसूदन kuSThasUdana
m.
golden shower tree [ Cassia fistula - Bot. ]
कर्णिकार karNikAra
adj.
Indian laburnum tree [ Cassia fistula - Bot. ]
स्वर्णशेफालिका svarNazephAlikA
f.
Indian laburnum tree [ Cassia fistula - Bot. ]
अपालङ्क apAlaGka
m.
Indian laburnum tree [ Cassia fistula - Bot. ]
अरुज aruja
m.
Indian laburnum tree [ Cassia fistula - Bot. ]
कर्ण karNa
m.
Indian laburnum tree [ Cassia fistula - Bot. ]
कृतमाल kRtamAla
m.
Indian laburnum tree [ Cassia fistula - Bot. ]
कृतमालक kRtamAlaka
m.
Indian laburnum tree [ Cassia fistula - Bot. ]
मन्थान manthAna
m.
Indian laburnum tree [ Cassia fistula - Bot. ]
व्याघात vyAghAta
m.
Indian laburnum tree [ Cassia fistula - Bot. ]
शम्पात zampAta
m.
Indian laburnum tree [ Cassia fistula - Bot. ]
शणालु zaNAlu
m.
Indian laburnum tree [ Cassia fistula - Bot. ]
शणालुक zaNAluka
m.
Indian laburnum tree [ Cassia fistula - Bot. ]
सुपर्ण suparNa
m.
Indian laburnum tree [ Cassia fistula - Bot. ]
सुपर्णक suparNaka
m.
Indian laburnum tree [ Cassia fistula - Bot. ]
हेमपुष्प hemapuSpa
m.
Indian laburnum tree [ Cassia fistula - Bot. ]
स्वर्णभूषण svarNabhUSaNa
m.
Indian laburnum tree [ Cassia fistula - Bot. ]
स्वर्णद्रु svarNadru
m.
Indian laburnum tree [ Cassia fistula - Bot. ]
स्वर्णाङ्ग svarNAGga
m.
Indian laburnum tree [ Cassia fistula - Bot. ]
स्वर्णपुष्प svarNapuSpa
m.
Indian laburnum tree [ Cassia fistula - Bot. ]
परिस्राविन् parisrAvin
m.
form of fistula of the anus
शङ्खावर्त zaGkhAvarta
m.
kind of fistula in the rectum
भगन्दर bhagandara
m.
fistula in the vagina or in the anus
सर्वतोभद्रक sarvatobhadraka
m.
fourfold incision in the anus for fistula
गोतीर्थक gotIrthaka
m.
oblique cut applied to fistula of the rectum
शम्बूकावर्त zambUkAvarta
m.
fistula in the shape of a shell in the rectum
Wilson
English
नाडीव्रण
m.
(-णः) An ulcer.
E.
नाडी a sinus, and व्रण a sore.
Monier Williams Cologne
English
नाडी—व्रण
m.
an ulcer, fistula,
L.
Shabdartha Kaustubha
Kannada
नाडीव्रण
पदविभागः - > पुल्लिङ्गः, नपुंसकलिङ्गः
कन्नडार्थः - > ಕೊಳವೆಯಾಕಾರದ ಒಂದು ವ್ರಣ /ಭಗಂದರ
व्युत्पत्तिः - > नाड्यां व्रणम्
विस्तारः - > "शोफं पक्वमिति पक्वमुपेक्षते यो यो वा व्रणं प्रचुरपूयमसाधुवृत्तः अभ्यन्तरं प्रविशति प्रविदार्य तस्य स्थानानि पूर्वविहितानि ततः पूयः तस्यातिमात्रगमनाद्गतिरित्यतश्च नाडीव यद्वहति तेन मता तु नाडी" - सुश्रुत० निदान० १०-९, १०
अभिधानचिन्तामणिः
Sanskrit
--source--
गतिर्नाडीव्रणे वृद्धिः कुरण्डश्चाण्डवर्धने
-wordlist-
गति (स्त्री), नाडीव्रण (पुं), वृद्धि (स्त्री), कुरण्ड (पुं), अण्डवर्धन (क्ली)
शब्दकल्पद्रुमः
Sanskrit
नाडीव्रणः,
पुं,
(नाडीसंलग्नो व्रणः ।) सर्व्वदा-गलद्व्रणः नाली घा इति भाषा इत्यमरः ।२ ५४
तस्य निदानं यथा, --“यः शोथमामभिति पक्वमुपेक्षतेऽज्ञोयो वा व्रणं प्रचुरपूयमसाधुवृत्तः ।अभ्यन्तरं प्रविशति प्रविदार्य्य तस्यस्थानानि पूर्व्वविहितानि ततः सपूयः
तस्यातिमात्रगमनाद्गतिरिष्यते तुनाडीव यद्वहति तेन मता तु नाडी
*
वातादिदोषभेदेन तस्य रूपाणि यथा, --“दोषैस्त्रिभिर्भवति सा पृथगेकशश्चसंमूर्च्छितैरपि शल्यनिमित्ततोऽन्या ।तत्रानिलात् परुषसूक्ष्ममुखी सशूलाफेनानुविद्धमधिकं स्रवति क्षपासु
पित्तात्तृषाज्वरकरी परिदाहयुक्तापीतं स्रवत्यधिकमुष्णमहःसु चापि ।ज्ञेया कफाद्बहुघनार्ज्जुनपिच्छिलास्रास्तब्धा सकण्डुररुजा रजनीप्रवृद्धा
दाहज्वरश्वसनमूर्च्छनवक्त्रशोषायस्यां भवन्त्यभिहितानि लक्षणानि ।तामादिशेत् पवनपित्तकफप्रकोपात्घोरामसुक्षयकरीमिव कालरात्रिम्
दोषद्बयाभिहतलक्षणदर्शनेनतिस्रो गतीर्व्यतिकरप्रभवास्तु विद्यात्
”शल्यनिमित्तलक्षणं यथा, --“नष्टं कथञ्चिदनुमार्गमुदीरितेषुस्थानेषु शल्यमचिरेण गतिं करोति ।सा फेनिलं मथितमच्छमसृग्विमिश्र-मुष्णं करोति सहसा सरुजञ्च नित्यम्
”असाध्यकृच्छ्रसाध्ययोर्लक्षणं यथा, --“नाडी त्रिदोषप्रभवा सिध्येत्शेषाश्चतस्रः खलु यत्नसाध्याः
”इति माधवकरः
*
“विडङ्गत्रिफला कृष्णाचूर्णं लीढं समाक्षिकम् ।हन्ति कुष्ठं कृमीन्मेहनाडीव्रणभगन्दरान्
”इति गरुडपुराणम्
(अस्य चिकित्सान्तरं यथा, --“नाडीनां गतिमन्विष्य शस्त्रेणापाट्य कर्म्मवित् ।सर्व्वव्रणक्रमं कुर्य्यात् शोघनं रोपणादिकम्
नाडीं वातकृतां साधु पाटितां लेपयेद्भिषक् ।प्रत्यक् पुष्पीफलयुतैस्तिलैः पिष्टैः प्रलेपयेत्
पैत्तिकीं तिलमञ्जिष्ठानागदन्तीनिशायुगैः ।श्लैष्मिकीं तिलयष्ट्याह्वनिकुम्भारिष्टसैन्धवैः
शल्यजां तिलमध्वाज्यैर्लेपयेच्छिन्नशोधिताम् ।आरग्वधनिशाकालाच्चूर्णाज्यक्षौद्रसंयुता ।सृत्रवर्त्तिर्व्रणे योज्या शोधनी गतिनाशनी
घोण्टाफलत्वङ्मदनात् फलानिपूगस्य त्वक् लवणञ्च मुख्यम् ।स्नुह्यर्कदुग्धेन सहैष कल्कोवर्त्तीकृतो हन्त्यचिरेण नाडीम्
वर्त्तीकृतं माक्षिकसंप्रयुक्तंनाडीघ्नमुक्तं लवणोत्तमं वा ।दुष्टव्रणे यद्बिहितञ्च तैलंतत् सेच्यमानं गतिमाशु हन्ति
जात्यर्कसम्पाककरञ्जदन्ती-सिन्धूत्थसौवर्च्चलयावशूकैः ।वर्त्तिः कृता हन्त्यचिरेण नाडींस्नुक्क्षीरपिष्टा सह चित्रकेण
महिषदधिकोद्रवान्नमिश्रं हरति चिरविरूढाञ्च ।भुक्तं कङ्कुनिकामूलचूर्णमतिदारुणां हन्ति
कृशदुर्ब्बलभीरूणां गतिर्म्मर्म्माश्रिता या ।क्षारसूत्रेण तां भिन्द्यान्न शस्त्रेण कदाचन
एषण्या गतिमन्विष्य क्षारसूत्रानुसारिणीम् ।सूचीं विदध्याद्गत्यन्ते चोन्नम्याशु निर्हरेत्
सूत्रस्यान्तं समानीय गाढबन्धनमाचरेत् ।ततः क्षारबलं वीक्ष्य सूत्रमन्यत् प्रवेशयेत्
क्षाराक्तं मतिमान् वैद्यो यावन्न च्छिद्यते गतिः ।भगन्दरेऽप्येष विधिः कार्य्यो वैद्येन जानता
गुग्गुलुस्त्रिफलाव्योषैः समांशैराज्ययोजितः ।नाडीदुष्टव्रणं शूल-भगन्दरविनाशनः
इति सप्ताङ्गगुग्गुलुः
स्वर्ज्जिका सिन्धुदन्त्यग्निरूपिकानलनीलिका ।खरमञ्जरीबीजेषु तैलं गोमूत्रपाचितम्
दुष्टव्रणप्रशमनं कफनाडीव्रणापहम्
इति स्वर्ज्जिकाद्यं तैलम्
समूलपत्रां निर्गुण्डीं पीडयित्वा रसेन तु ।तेन सिद्धं समं तैलं नाडीदुष्टव्रणापहम्
हितं पामापचीनान्तु पानाभ्यञ्जननावनैः ।विविधेषु स्फोटेषु तथा सर्व्वव्रणेषु
इति निर्गुण्डीतैलम् ।हंसपाद्यरिष्टपत्रं जातीपत्रं ततो रसैः ।तत्कल्कैश्च पचेत्तैलं नाडीव्रणविशोधनम्
इति हंसपादादितैलम्
”इति वैद्यकचक्रपाणिसंग्रहे नाडीव्रणाधि-कारः
)
वाचस्पत्यम्
Sanskrit
नाडीव्रण
पु०
न०
नाडीव व्रणम् माधवकरोक्ते ब्रणभेदे(नालीघा) “यः शोथमाममिति पक्वमुपेक्षतेऽज्ञो योवा व्रणं प्रचूरपूयमसाधुवृत्तः अभ्यन्तरं प्रविशतिप्रविदार्य तस्य स्थानानि पूर्वविहितानि ततः सपूयः ।तस्यातिमात्रगमनाद्गतिरिष्यते तु नाडीव यद्वहति तेनमता तु नाडी” वातादिदोषभेदेन तस्य रूपाणि यथा“दोषैस्त्रिभिर्भबति सा पृथगेकशश्च संमूर्च्छितैरपि चशल्यनिमित्ततोऽन्या तत्रानिलात् परुषसूक्ष्ममुखी स-शूला फेनानुविद्धमधिकं स्रवति क्षपासु पित्तात्तृषाज्वर-करी परिदाहयुक्ता पीतं स्रवत्यधिकमुष्णमहःसुतापि ।ज्ञेया कफाद्बहुघनार्जनपिच्छिलास्रा स्तब्धा सकण्डूररुणा रजनीप्रवृद्धा दाहज्वरश्वसनमूर्च्छनवक्त्रशोषायस्यां भवन्त्यमिहितानि लक्षणानि तामादिशेत्पवनपित्तकफप्रकोपाद् घोरामसुक्षयकरीमिव काल-रात्रिम् दोषद्वयाभिहतलक्षणदर्शनेन तिस्रो गतीर्व्य-तिकरप्रभवास्तु विद्यात्” शल्यनिमित्तलक्षणं यथा“नष्टं कथञ्चिदनुमार्गमुदीरितेषु स्थानेषु शल्यमचिरेणगतिं करोति सा फेनिलं मथितमच्छमसृग्विमिश्रमुष्णंकरोति सहसा सरुजञ्च नित्यम्” असाध्यकृच्छ्रसा-ध्ययोर्लक्षणं यथा “नाडी त्रिदोषप्रभबा सिध्येत्शेषाश्चतस्रः खलु यत्नसाध्याः”