| YouTube Channel

नाडीवलय (nADIvalaya)

 
Monier Williams Cologne
English
नाडी—वलय
n.
equinoctial circle,
Gol.
Shabdartha Kaustubha
Kannada
नाडीवलय
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಕಾಲಪರಿಜ್ಞಾನಕ್ಕಾಗಿ ವಲಯಾಕಾರವಾಗಿ ಮಾಡಿರುವ ಒಂದು ಯಂತ್ರ
व्युत्पत्तिः - > नाड्या घटिकाया ज्ञानार्थं वलयं वलयाकारं यन्त्रम्
वाचस्पत्यम्
Sanskrit
नाडीवलय
न०
नाड्या घटिकायाः ज्ञानार्थं बलयं वलयाकारं यन्त्रम् सि० शि० उक्ते लग्नादिज्ञानार्थे नाडीरूप-कालज्ञानोपाये यन्त्रभेदे“अपवृत्ते कुजलग्ने लग्नं चाथो खगोलनलिकान्तः ।भूस्थं ध्रुवयष्टिस्थं चक्रं षष्ट्या निजोदयैश्चाङ्क्यम् ।व्यस्तैर्यष्टीभायामुदयेऽर्कं न्यस्य नाडिका ज्ञेयाः इष्ट-च्छायासूर्यान्तरेऽथ लग्नं प्रभायां केनचिदाधारेणध्रुवाभिमुखकीलकेऽत्र धृते अथ वा कीलच्छायातत्व-मध्ये स्युर्नता नाड्यः” मू० “अत्र सारदारुमयमिष्टाप्र-माणं चक्राकारं समं नेम्यां षष्टिघटिकाङ्कं यन्त्रं खगो-लमध्यस्थायां ध्रुवयष्टौ पृथ्वीमध्यस्थाने प्रोतं कार्यम् ।तथा स्वोदयप्रमाणैर्मेषादिराशिभिरसमैरुभयपार्श्वयोः षड्व-र्गेण बुद्धिमताङ्कनीयम् तैश्चोदयैर्विलोमैरङ्क्यम् ।मेषात् पश्चिमतो वृषो वृषात् पश्चिमतो मिथुनम् इत्थादि ।स चाङ्कनप्रकारः सर्वतोभद्रयन्त्रे मया पठितः “वृतौचक्रभागैस्तदन्वर्घटीभिः स्वदेशोदयैश्चाङ्कयेदस्य पार्श्वम् ।प्रतिस्वोदयं स्वाग्निमिः ३० क्षेत्रभागैस्त्रिभागाभिधैर्द्वादशां-शै० ३० र्नवांशैः २० त्रिभागै १० र्द्वि भागै १५ स्तथा सस्वनाथैःप्रयत्नेन षडवर्गमेवं विभज्य” एवं यन्त्रं कृत्वा यस्मिन्दिने तेन कालज्ञानं तस्मिन् दिने यावानौदयिको रविस्त-द्भुक्तान् राशीन् मेषादेर्दत्त्वा भुज्यमानराशेर्भागान् क्षेत्र-भागेषु दत्त्वाग्रे रविचिह्नं कार्यम् तस्मिन् दिन उदय-काले यष्टिच्छाया या पश्चिमतो गता तस्यां छायायां रवि-चिह्नं यथा भवति तथा यन्त्रं स्थिरं कार्यम् ततोऽ-नन्तरं रविर्यथा यथोपरि याति तथा तथा छायाऽधोगच्छति छायार्कचिह्नयोर्मध्ये या घटिकास्ता दिन-गता ज्ञेयाः तथा यष्टिच्छायायां यो राशिर्ये क्षे-त्रांशास्तल्लग्नं ज्ञेयम् षड्वर्गः अथ वा किंखगोलान्तःस्थेन यष्टिप्रोतेन, चक्रान्तरिष्टप्रमाणं की-लकं प्रोतं कृत्वा कीलको घ्रुवाभिमुखो यथा भवतितथा केनचिदाधारेण चक्रं स्थिरं कार्यम् तथाकृते इष्टकाले कीलच्छाया यत्र लगति तस्य यन्त्राधश्चि-ह्नस्य मध्ये नतनाडिका ज्ञेयाः” प्रमिता०