नाडी (nADI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishनाडी - nADI - - pulse
द्विदल - dvidala - - pulse
किलो दालस्य कृते कति रूप्यकाणि? - kilodAlasyakRtekatirUpyakANi? - - Howmuchisthepulseperkilo?
कलिनी - kalinI - - pulse
सञ्चलनाडि - saJcalanADi - - pulse
स्पन्द - spanda - - pulse
कुसूल - kusUla - - pulse
शर्धञ्जह - zardhaJjaha - - pulse
सीतीनक - sItInaka - - pulse
स्नायुस्पन्द - snAyuspanda - - pulse
सूप - sUpa - - boiled pulse
नखगुच्छफला - nakhagucchaphalA - - kind of pulse
नखनिष्पाविका - nakhaniSpAvikA - - kind of pulse
नखनिष्पावी - nakhaniSpAvI - - kind of pulse
नखपुञ्जफला - nakhapuJjaphalA - - kind of pulse
नखफलिनी - nakhaphalinI - - kind of pulse
भृङ्गा - bhRGgA - - kind of pulse
मातुलानी - mAtulAnI - - kind of pulse
सुस्ना - susnA - - kind of pulse
कुलत्थ - kulattha - - kind of pulse
नाडी - nADI - - pulse
नाडी - nADI - - vein
नाडी - nADI - - anytubularorganofthebody
नाडी - nADI - - nerve
नाडी - nADI - - flute
नाडी - nADI - - tubular stalk of any plant or any tubular organ
नाडी - nADI - - any pipe or tube
नाडी - nADI - - juggling trick
नाडी - nADI - - box of a wheel
नाडी - nADI - - sort of bent grass
नाडी - nADI - - artery
नाडी - nADI - - deception
नाडी - nADI - - strap of leather
नाडी - nADI - - fistulous sore
नाडी - nADI - - thong
नाडी - nADI - - any hole or crevice
मध्य-नाडी - madhya-nADI - - central vein [ Bot. ]
नाडी - nADI - - anytubularorganofthebody
वंशक - vaMzaka - - tubular bone
नाडि - nADi - - tubular organ
इडा - iDA - - tubular vessel
नाडिका - nADikA - - any tubular organ
नाल-श्वसन - nAla-zvasana - - tubular breathing
धमनि - dhamani - - any tubular vessel
नालास्त्र - nAlAstra - - any tubular weapon
यन्त्रनाल - yantranAla - - tubular instrument
महानाडी - mahAnADI - - great tubular vessel
वंश - vaMza - - hollow or tubular bone
नाडीयन्त्र - nADIyantra - - any tubular instrument
अध्युद्धि - adhyuddhi - - tubular vessel above the udder
अध्यूध्नी - adhyUdhnI - - tubular vessel above the udder
तन्त्री - tantrI - - any tubular vessel of the body
धामनी - dhAmanI - - any tubular vessel of the body
धारणी - dhAraNI - - any tubular vessel of the body
रसालसा - rasAlasA - - any tubular vessel of the body
सिरा - sirA - - any tubular vessel of the body
षडधिकदशनाडीचक्र - SaDadhikadazanADIcakra - - circle of the 16 tubular vessels
नलिका - nalikA - - tube or tubular organ of the body
धरणी - dharaNI - - vein or tubular vessel of the body
कम्बु - kambu - - vein or tubular vessel of the body
धर - dhara - - vein or tubular vessel of the body
नालि - nAli - - any tubular vessel or vein of the body
नाल - nAla - - any tube or tubular vessel or vein of the body
नाडी - nADI - - tubular stalk of any plant or any tubular organ
पिङ्ग - piGga - - tubular vessel of the human body which according to the yoga system is the channel of respiration and circulation for one side
नाडी - nADI - - vein
सिरा - sirA - - vein
कण्डरा - kaNDarA - - vein
तन्त्री - tantrI - - vein
तन्तुकी - tantukI - - vein
रसालसा - rasAlasA - - vein
सञ्चलनाडि - saJcalanADi - - vein
शिला - zilA - - vein
सिंही - siMhI - - vein
ह्रा - hrA - - vein
वंशी - vaMzI - - vein
शीरी - zIrI - - vein
स्नायु - snAyu - - vein
हिंस्र - hiMsra - - vein
नेतृ - netR - - vein
धमनि - dhamani - - as a vein
धमनील - dhamanIla - - full-veined
प्रतिनाडी - pratinADI - - branch vein
प्रतिशाखानाडी - pratizAkhAnADI - - branch vein
विध्यति { व्यध् } - vidhyati { vyadh } - verb - open a vein
नाडी - nADI - - fistulous sore
रक्तनाडी - raktanADI - - fistulous ulcer on the gum caused by a bad state of blood
नाडी - nADI - - nerve
सिरा - sirA - - nerve
तन्त्रनाडीवेग - tantranADIvega - - nerveimpulse
अनुतन्त्रीपद्धति - anutantrIpaddhati - - sympatheticnervesystem
ईलिका - IlikA - - nerve
वस्नसा - vasnasA - - nerve
स्नायु - snAyu - - nerve
धमनि - dhamani - - nerve
स्नाव - snAva - - nerve
चेता-लोम - cetA-loma - - dendrite [ Anat.
dendron
small processes of a nerve cell ]
ऊरू-चेता - UrU-cetA - - crural nerve
षष्ठी मास्तिष्की - SaSThI mAstiSkI - - abducent nerve [ Anat. ]
मस्तिष्क-चेता - mastiSka-cetA - - cerebral nerve
स्पर्शन - sparzana - - sensitive nerve
स्नायुस्पन्द - snAyuspanda - - beat of the nerves
सिराहर्ष - sirAharSa - - thrill of the nerves
मस्तिष्क-मेरु-चेता - mastiSka-meru-cetA - - cerebro- spinal nerve [ Zool. ]
बान्यायाम - bAnyAyAma - - particular disease of the nerves
स्नायुजालवत् - snAyujAlavat - - covered with a network of sinews or nerves or veins
समीरगजकेसरिन् - samIragajakesarin - - particular mixture used as a remedy for disease of the nerves
Monier Williams Cologne
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Macdonell
EnglishHindi
Hindiसूक्ष्म शरीर के भीतर एक चैनल
Apte Hindi
Hindiनाडी
- नाडि + ङीष्
किसी पौधे का पीला डंठल
नाडी
- नाडि + ङीष्
कमल की खोखली डंडी
नाडी
- नाडि + ङीष्
नलियों के आकार का शरीर का अंग
नाडी
- नाडि + ङीष्
"बाँसुरी, मुरली"
नाडी
- नाडि + ङीष्
"नासूर वाला घाव, नासूर, नाडीव्रण"
नाडी
- नाडि + ङीष्
हाथ या पैर की नब्ज़
नाडी
- नाडि + ङीष्
"चौबीस मिनट के समय के बराबर माप, घड़ी"
नाडी
- नाडि + ङीष्
आधे मुहूर्त का कालमान
नाडी
- नाडि + ङीष्
ऐन्द्रजालिक जाल
नाडी
- नड्+णिच्+इन्=नाडि+ङीष्
पौधे का नलिकामय डण्ठल
नाडी
- नड्+णिच्+इन्=नाडि+ङीष्
कमल का खोखला काण्ड
नाडी
- नड्+णिच्+इन्=नाडि+ङीष्
शरीर का नलिकायुक्त अंग
Shabdartha Kaustubha
Kannadaनाडी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸಿರೆ /ಶರೀರದೊಳಗಿರುವ ಧಮನಿ
निष्पत्तिः - > णल (गन्धे) + णिच् - "अच्" (३-१-१३४) - "ङीष्" (४-१-४१)
प्रयोगाः - > "नाडीनामुदयक्रमेण जगतः पञ्चामृताकर्षणात्"
उल्लेखाः - > मालती० ५-२
विस्तारः - > ಶರೀರದಲ್ಲಿ ೭೦೦ ನಾಡಿಗಳಿರುವುವು.
Schmidt Nachtrage zum Sanskrit Worterbuch
GermanWordnet
Sanskrit नाडी, धमनी, सिरा, शिरा, नालिः, नाली, तन्तुकी
अवयवविशेषः, यया नालिकया शरीरे रक्तं तथा रक्तसहितम् श्लेष्मपित्तादयः समन्ततः विधम्यन्ते।
"नाडीं प्रभञ्जनगतिं सततं परीक्षेत।"
नलिका, नाडी, नाली, नेत्रम्, सुषिः
या स्वस्मिन् वस्तूनि स्थापयित्वा अन्यत्र नयति।
"धमनिरूपा नलिका हृदयं प्रति रक्तं वहति ततः अपनयति च।"
Sanskrit Tibetan
Tibetanchu tshod
१) घटिका २) दण्ड ३) नाडी
अभिधानचिन्तामणिः
Sanskritवस्नसा नु स्नसा स्नायुर्नाड्यो धमनयः शिराः ।
वस्नसा (स्त्री), स्नसा (स्त्री), स्नायु (स्त्री), नाडी (स्त्री), धमनि (स्त्री), शिरा (स्त्री)
अभिधानरत्नमाला
Sanskritइडा
इडा, नाडी, स्वर्ग, क्षिति
मन्युर्दैन्ये क्रतौ कोपे नाडीस्वर्गक्षितिष्विडा ॥ ८४६ ॥
उक्तानामप्यनुक्तानां शब्दानामिह संग्रहः ।
verse 5.1.1.846
page 0097
वैजयन्तीकोषः
SanskritWord: नाडी
Root: नाडी
Gender: स्त्री
Number: all
अर्थः ⇒ षट् क्षणाः
Meaning(s):
⇒ Space of six kshanas
Shloka(s):
2|1|54|1 ► लेशो लेशाः पञ्चदश क्षणो नाडी तु षट् क्षणाः। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
➠ 2|1|54|1 ⇢ नाडी (नाडी) (स्त्री) ⇒ Space of six kshanas ⇒ षट् क्षणाः
Related word(s):
अवयव_अवयवीसंबन्धः ➡ क्षणः
जातिः ➡ कालः
Vedic Reference
English1. Nāḍī denotes a ‘vein’ or ‘artery’ in the human body in
the Atharvaveda^1 and later, ^2 a natural extension of the literal
sense of ‘reed.’
1) vi. 138, 4
x. 7, 15. 16.
2) Kāṭhaka Saṃhitā, xii. 10
Śata-
patha Brāhmaṇa, x. 4, 5, 2
Bṛhad-
āraṇyaka Upaniṣad, ii. 1, 21
iv. 2,
3, etc.
Chāndogya Upaniṣad, viii. 6, 1
Kauṣītaki Upaniṣad, iv. 19.
शब्दकल्पद्रुमः
Sanskritनाडी, (नाडि + “कृदिकारादक्तिनः ।”इति वा ङीष् ।) नालम् । व्रणान्तरम् । (नालीघा इति भाषा । यथा, सुश्रुते निदानस्थाने १०अध्याये ।“तस्यातिमात्रगमनाद्गतिरित्यतश्चनाडीव यद्वहति तेन मता तु नाडी ॥
”दन्तमूलगता नाल्यो यथा, तत्रैव १६ अध्याये ।“नालास्रावी कफकृतो विज्ञेयः सोऽधिमांसकः ।दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः ॥
”)शिरा । गण्डदूर्व्वा । कुहनचर्य्या । षट्क्षण-कालः । इति मेदिनी । डे, १६ ॥
शिरार्थेपर्य्यायः । धमनिः २ सिरा ३ । इत्यमरः । २ ।६ । ६५ ॥
नाडिः ४ नालिः ५ नाली ६ धमनी७ शिरा ८ । इति भरतः ॥
धरणी ९ धरा १०तन्तुकी ११ जीवितज्ञा १२ सिंहा १३ । इतिराजनिर्घण्टः ॥
* ॥
कायनाडी त्रिविधा ।एका वायुवहा । अपरा मूत्रविडस्थिरस-वाहिनी । अपरा आहारवाहिनी । इतिभरतः ॥
“सा तु गर्भस्थबालकस्य सप्तभिर्मासै-र्भवति ।” इति सुखबोधः ॥
(यथा, तोडलतन्त्रे८ उल्लासे ।श्रीदेव्युवाच ।“सार्द्धत्रिकोटिनाडीनामालयञ्च कलेतरम् ।क्रमेण श्रोतुमिच्छामि तद्बदस्व मयि प्रमो ! ॥
श्रीशिव उवाच ।लोम्नि कूपे सपादार्द्धकोटयश्चैव सुन्दरि ! ।हस्तास्ये च तथा पादेऽग्निलक्षनाडयः स्थिताः ॥
उदरे च तथा पायौ पञ्चलक्षाः प्रकीर्त्तिताः ।हृदादिसर्व्वगात्रेषु नवलक्षाः प्रकीर्त्तिताः ॥
अथ पार्श्वे तथा चर्म्मे तथैव सर्व्वसन्धिषु ।रुद्रान्यूनं स्थितं लक्षं शरीरे नाडयः प्रिये ! ॥
ईडा च पिङ्गला चैव सुषुम्ना चित्रिणी तथा ।ब्रह्मनाडी च यन्मध्ये पञ्च नाड्यः प्रकीर्त्तिताः ॥
कुहूश्च शङ्खिनी चैव गान्धारी हस्तिजिह्विका ।नर्द्दिनी च तथा निद्रा रुद्रसंख्या व्यवस्थिता ॥
एता नाड्यः परेशानि ! सुषुम्नायाः प्रजायते ॥
”)नाडीक्रममाह ।“सार्द्धत्रिकोट्यो नाड्यो हि स्थूलाः सूक्ष्माश्चदेहिनाम् ।नाभिकन्दनिबद्धास्तास्तिर्य्यगूर्द्ध्वमधःस्थिताः ॥
द्विसप्ततिसहस्रन्तु तासां स्थूलाः प्रकीर्त्तिताः ।देहे धमन्यो धन्यास्ताः पञ्चेन्द्रियगुणावहाः ॥
तासाञ्च सूक्ष्मशुषिराणि शतानि सप्तस्युस्तानि यैरसकृदन्नरसं वहद्भिः ।आप्याय्यते वपुरिदं हि नृणाममीषा-मम्भःस्रवद्भिरिव सिन्धुशतैः समुद्रः ॥
आपादतः प्रततगात्रमशेषमेषा-मामस्तकादपि च नातिपुरःस्थितेन ।एतन्मृदङ्ग इव चर्म्मचयेन नद्धंकायं नृणामिह शिराशतसप्तकेन ॥
सप्तशतानां मध्ये चतुरधिका विंशतिः स्फुटातासां एका परीक्षणीया या दक्षिणकरचरण-विन्यस्ता । चतुरधिकेति तदुक्तम् ।तिर्य्यक् कूर्म्मो देहिनां नाभिदेशेवामे वक्त्रं तस्य पुच्छञ्च याम्ये ।ऊर्द्ध्वे भागे हस्तपादौ च वामौतस्याधस्तात् संस्थितौ दक्षिणौ तौ ॥
वक्त्रे नाडीद्वयं तस्य पुच्छे नाडीद्वयन्तथा ।पञ्च पञ्च करे पादे वामदक्षिणभागयोः ॥
तासां मध्ये एकेति एकस्या एव पादादूर्द्ध्वगम-नात् दक्षिणेति प्राधान्ये पुरुषाश्रया । यदुक्तम् ।वामे भागे स्त्रिया योज्या नाडी पुंसस्तु दक्षिणे ।इति प्रोक्तो मया देवि ! सर्व्वदेहेषु देहिनाम् ॥
”नपुंसकस्य तु स्त्रीपुंसयोरन्यतराकारप्रकटता-मपेक्ष्य परीक्षा । साम्यन्तु न स्यादेव । कृत्रि-मस्य तु प्रकृतिस्थता । चरणेति वामस्य तुदक्षिणग्रन्थिपश्चात् पार्श्वस्था दक्षिणस्य तु वाम-ग्रन्थिपश्चात् पार्श्वस्थैव सदुपदेशात् । करस्थातु वक्ष्यते ॥
* ॥
परीक्षाप्रकारमाह ।सव्येन रोगधृतिकुर्परभागभाजापीड्याथ दक्षिणकराङ्गुलिकात्रयेण ।अङ्गुष्ठमूलमधिपश्चिमभागमध्येनाडीं प्रभञ्जनगतिं सततं परीक्षेत् ॥
सव्येन करेण । रोगधृतिर्गदधारणमित्यापीडनेहेतुः । रोगाणां वातादिपिशुनवायूनां धारणंयथा स्यात्तथा पीड्येति कश्चित् । भाग इतिसमुदितकफोणिपरं भाजेति परीक्षाकालेऽपितत्र हस्तस्थितये । आपीड्येत्यर्थान्नाडीं एतच्चा-पीडनं वातादिपौर्ब्बापर्य्यबोधनाय । अथेत्या-पीडनानन्तरं न तु परीक्षाकालेऽप्यापीडन-स्थितिः । दक्षिणेति प्रायिकं स्वपरीक्षाया-मन्यथात्वात् । त्रयेति योग्यतया तर्ज्जनीमध्यमा-नामिकाग्रहणम् । पश्चिमेत्यङ्गुष्ठस्याधोभागः ।मूलेति तदुक्तम् ।अङ्गुष्ठस्य तु मूले या धमनी जीवसाक्षिणी ।तस्या गतिवशाद्विद्यात् सुखं दुःखञ्च देहिनाम् ॥
प्रभञ्जनगतिर्यत्रेति नाड्यन्तरनिरासः । सतत-मिति सुस्थदशायामपि । तदुक्तम् । भावि-रोगाभिबोधाय सुस्थनाडीपरीक्षणमिति ॥
* ॥
परीक्षणीयमाह ।वातं पित्तं कफं द्बन्दं सन्निपातन्तथैव च ।साध्यासाध्यविवेकञ्च सर्व्वं नाडी प्रकाशयेत् ॥
सन्निपातमिति सामान्यतः । साध्यासाध्यमितिविशेषतश्चेत्यर्थः । सर्व्वमित्येतदन्यञ्च रोगादिक-मित्युपसंहारः ।” इति नाडीप्रकाशे प्रथमो-द्योतः ॥
* ॥
अथ नाडीज्ञानसमयमाह ।“प्रातः कृतसमाचारः कृताचारपरिग्रहम् ।सुखाशीनः सुखासीनं परीक्षार्थमुपात्तरेत् ॥
प्रातरिति प्रायिकं मध्याह्ने उष्णता इत्युक्तेः ॥
* ॥
निषिद्धकालमाह ।सद्यः स्नातस्य भुक्तस्य क्षुत्तृष्णातपसेविनः ।व्यायामाक्रान्तदेहस्य सम्यङ्नाडी न बुध्यते ॥
तैलाभ्यङ्गे च सुप्ते च तथा च भोजनान्तरे ।तथा न ज्ञायते नाडी यथा दुर्गतरा नदी ॥
सुप्ते निद्राकाले भोजनान्तरे भोजनमध्ये भोज-नावसानमात्रे च । वातमूर्च्छादिक्षणिकरोगेनायं विधिः ॥
* ॥
अथ वातादिस्वभावक्रममाह ।आदौ च वहते वातो मध्ये पित्तं तथैव च ।अन्ते च वहते श्लेष्मा नाडिकात्रयलक्षणम् ॥
आदाविति कफोणिपीडितद्वितीयक्षणे । न तुतर्ज्जनीनिवेशस्थले स्थानभेदस्य कुत्राप्यवक्ष्य-माणत्वात् ॥
* ॥
सुस्थताज्ञानार्थमाह ।भूलतागमनप्राया स्वच्छा स्वास्थ्यमयी शिरा ।प्रायेति बाहुल्येन । स्वच्छा परितो जाड्य-रहिता । स्वास्थ्यमयी सुस्थताव्यञ्जिका च ।तथा ।प्रातः स्निग्धमयी नाडी मध्याह्ने चोष्णतान्विता ।सायाह्ने धावमाना च चिराद्रोगविवर्ज्जिता ॥
चिरादिति अतीतानागतयोर्द्वयोरप्युक्तिः पथ्या-शितानामेव ॥
* ॥
वातादीनां क्रमेण गतिमाह ।वाताद्बक्रगता नाडी चपला पित्तवाहिनी ।स्थिरा श्लेष्मवती ज्ञेया मिश्रिते मिश्रिता भवेत् ॥
वक्रेति वायोस्तिर्य्यग्गमनात्तिरो वहन्तीति ।एवं तत्प्रकोपादिना वार्त्तादिगतिरपि ज्ञातव्या ।चपलेति वह्रेरुर्द्ध्वज्वलनादूर्द्ध्वचञ्चला । स्थिरेतिजलस्य नीचगमनादनुल्वणा । मिश्रिते मिश्र-चिह्ना भवति । तेन द्विदोषजे उभयचिह्ना ।सर्व्वजे सर्व्वचिह्नेति । चपलता स्थिरतयोः समय-भेदेनाविरोधः ॥
* ॥
उक्तवक्रादिसामान्यस्य क्रमेण विशेषमाह ।सर्पजलौकादिगतिं वदन्ति विबुधाः प्रभञ्जनेननाडीम् ।पित्ते च काकलावकभेकादिगतिं विदुः सुधियः ॥
राजहंसमयूराणां पारावतकपोतयोः ।कुक्कुटादिगतिं धत्ते धमनी कफसंवृता ॥
आदिना वाते वृश्चिकगतिर्दोलायिता । आदि-शब्देन पित्ते कलिङ्गकलविङ्कादिगतिः । कफेगजवराङ्गनादिगतिः ॥
* ॥
द्बन्द्वजस्यापि क्रमेणैव भेदानाह ।मुहुः सर्पगतिं नाडीं मुहुर्भेकगतिं तथा ।वातपित्तद्वयोद्भूतां प्रवदन्ति विचक्षणाः ॥
भुजगादिगतिञ्चैव राजहंसगतिं धराम् ।वातश्लेष्मसमुद्भूतां भाषन्ते तद्विदो जनाः ॥
मण्डूकादिगतिं नाडीं मयूरादिगतिं तथा ।पित्तश्लेष्मसमुद्भूतां प्रवदन्ति महाधियः ॥
त्रिदोषजामप्याह ।उरगादिलावकादिहंसादीनाञ्च बिभ्रती गमनम् ।वातादीनाञ्च समं धमनीसम्बन्धमाधत्ते ॥
सममिति न्यूनाधिकतानिरासः ॥
क्रमगत्या तुनासाध्यत्वम् । तथा, --लावतित्तिरिवार्त्ताकगमनं सन्निपाततः ।कदाचिन्मन्दगा नाडी कदाचिच्छीघ्रगा भवेत् ॥
त्रिदोषप्रभवे रोगे विज्ञेया हि भिषग्वरैः ।पित्तक्रमतया कृच्छ्रसाध्यत्वमसाध्यत्वञ्च ॥
* ॥
सामान्यतः सुखसाध्यत्वमाह ।यदायं धातुमाप्नोति तदा नाडी तथा गतिः ।तथाहि सुखसाध्यत्वं नाडीज्ञानेन बुध्यते ॥
अयमर्थः । अपराह्णादौ नाडी वातोल्वणाप्रथमं वातगत्यैव वहति ततो यथायथं पित्तादि-गत्या न तु पित्तोल्वणत्वे वातादिगत्या तदासुखसाध्यत्वं व्यतिरेकेण व्यतिरेकः । तदुक्तमन्यैः ।नाडी यथाकालगतिस्त्रयाणांप्रकोपशान्त्यादिभिरेव भूयः ॥
* ॥
तथासाध्यरूपमाह ।मन्दं मन्दं शिथिलशिथिलं व्याकुलं व्याकुलं वास्थित्वा स्थित्वा वहति धमनी याति नाशञ्चसूक्ष्मा ।नित्यं स्थानात् स्खलति पुनरप्यङ्गुलिं संस्पृशेद्वाभावैरेवं बहुविधविधैः सन्निपातादसाध्या ॥
मन्दं मन्दं मुहुरनुद्भटं अप्रखरमिति यावत् ।शिथिलेति स्खलद्गतिरूपम् । व्याकुलेति त्रस्त-वदितस्ततः । वाशब्दः समुच्चये । स्थित्वास्थित्वेत्यावृत्त्या च तद्रूपैव गतिः । नाशमदर्श-नम् । गच्छति कदाचिन्नाडीस्पन्दोऽपि न सम्भा-व्यते इत्यर्थः । सूक्ष्मेति यदि लभ्यते तदा तथैवा-नित्यं प्रायः स्थानमङ्गुष्ठमूलं तस्मात् स्खलतिकदापि तत्र न स्पन्दत इत्यर्थः । तदुक्तम् । हन्तिच स्थानविच्युतेति किञ्चित् स्फुरती कुत्रापि ।पुनरपीति कियद्विलम्बन अङ्गुलीमङ्गुलीमूल-मेवमित्यवंरूपर्बहुभिर्भावैर्धर्म्मैः । उक्तञ्चान्यत्र ।महातापेऽपि शीतत्वं शीतत्वे तापिता शिरा ।नानाविधगतिर्यस्य तस्य मृत्युर्न संशयः ॥
महेत्याशयाकृष्टपित्तादिकृततापनिरासः शीतत्वइत्यत्रापि महेति सम्बध्यते । तथा, --त्रिदोषे स्पन्दते नाडी मृत्युकालेऽपि निश्चला ।निश्चला स्पन्दसामान्याभाववती । अतीसारादौहस्तपादादिस्वेदादिना स्पन्दोपलम्भात् । तथा ।पूर्व्वं पित्तगतिं प्रभञ्जनगतिं श्लेष्माणमाबिभ्रतींसन्तानभ्रमणं मुहुर्व्विदधतीं चक्राधिरूढामिव ।तीव्रत्वं दधतीं कलापि गतिकां सूक्ष्मत्वमात-न्वतींनोऽसाध्यां धमनीं वदन्ति सुधियो नाडीगति-ज्ञानिनः ॥
अयमर्थः । पूर्व्वमिति क्रमविपर्य्यये पित्तादिगति-मतीं वारं वारमेवं क्रमेण चक्रोपरिभ्राम्यमाणा-मिव । तथा तीव्रत्वमतिशयवेगं एवञ्च कदाचि-न्मयूरवद्गमनाम् । तथोत्तरोत्तरं कृशतामापा-दयन्तीति विशिष्टो हेतुः । तथा चान्यत्र ।“यात्युञ्चा च स्थिरात्यन्ता या चेयं मांस-वाहिनी ।या च सूक्ष्मा च वक्रा च तामसाध्यां विदु-र्बुधाः ॥
अत्युच्चा सहजतोऽप्युच्चतरा पृथगिवोद्गता वाकदाचिदिति स्थिरा प्रणिधानेनैव गम्यमान-स्पन्दा च । मांसवाहिनी मांसाहार इव गति-मती लगुडप्रायेति । तदुक्तं मांसेन लगुडा-कृतिः । मांसेन समं वहतीति न युक्तं तद्रूप-परिज्ञापकप्रकारस्यानुक्तत्वात् । इयमपिविशिष्टबोधनाय । या च सूक्ष्मा च वक्रा चेतिपृथगिव वाक्यान्तरमिति ॥
* ॥
असाध्यत्वापवादमाह ।भारप्रवाहमूर्च्छाभयशोकप्रमुखकारणान्नाडी ।संमूर्च्छितापि गाडं पुनरपि सा जीवितं धत्ते ॥
चिरतरबहुलभारोद्बहनेन वा विषवेगधारा-वाहिरुधिरदर्शनादिजनितमूर्च्छया वा राक्ष-सादिसन्दर्शनादिभयेन वा पुत्त्रादिविरह-जनितशोकातिरेकेण वा संमूर्च्छितापि अति-निस्पन्दापि । गाढमिति सुतरां कार्श्यादियोगे-ऽपीत्यर्थः । पुनरिति साध्यतां यातीत्यर्थः ।भावानां रत्यादीनां प्रवाह इति न युक्तं भय-शोकयोः पृथग्विधानात् । प्रमुखेत्यनेन हेत्व-न्तराभिधानम् । तदुक्तम् ।पतितः सन्धितो भेदी नष्टशुक्रश्च यो नरः ।शाम्यते विस्मयस्तस्य न किञ्चिन्मृत्युकारणम् ॥
पतितः उच्चादितः सन्धितः अस्थ्यादिसन्धानेनसंहितः भेदी अतीसारवान् नष्टशुक्रो यक्ष्मा-दिनातिरमणेन वा शुक्रक्षयवान् । विस्मयो-ऽसाध्यत्वानुमानं शाम्यति नावतरति । कारणंप्रागुक्तं तत्तदेव । अन्यत्रापि ।तथा भूताभिसङ्गेऽपि त्रिदोषवदुपस्थिता ।समाङ्गा वहते नाडी तथा च न क्रमं गता ॥
अपमृत्युन रोगाङ्गा नाडी तत्सन्निपातवत् ।भूताभिषङ्गे तथा भूतसामान्याभिषङ्गे च देव-जुष्टादां नाडी सन्निपातधर्म्मशालिनी उप-स्थिता । आपातत एव भवति न तु तत्फल-प्रदा । भेदमाह । समेति वातपित्तकफस्वभाव-क्रमवती तथाक्रमं व्यतिक्रमं न गता । तस्मा-देव अपमृत्युः अपगतो मृत्युर्यस्याः सा तथा ।परमार्थतः सन्निपातवदपि सन्निपातजन्या नस्यात् इति । तदुक्तम् ।स्वस्थानहीने शोके च हिमाक्रान्ते च निर्गदाः ।भवन्ति निश्चला नाड्यो न किञ्चित्तत्र दूषण-मिति ॥
स्वस्थानहीन उच्चादितः पतने । अङ्गुष्ठमूलत-श्चरण इति तुल्यार्थः । निर्गदा इत्यसङ्गतिःनिर्गदा अपि निश्चला भवन्ति । दूषणमसाध्यत्व-भ्रमः । अन्ये त्वाहुः ।स्तोकं वातकफं दुष्टं पित्तं वहति दारुणम् ।पित्तस्थानं विजानीयात् भेषजं तस्य कारये-दिति ॥
अयमर्थः । वातकफाभ्यां नाडी किञ्चिद्बहतिदुष्टं क्षीणत्वाधिकत्वाभ्यामपि विशेषादुल्वणंपित्तं विषमवेगेन वहति तदा तत्प्रतिकारार्थंभेषजं कुर्य्यात् । असाध्यता न स्यादिति यावत् ।अत्र कश्चित् ।स्वस्थानच्यवनं यावद्धमन्या नोपजायते ।तावच्चिकित्सासत्त्वेऽपि नासाध्यत्वमिति स्थिति-रिति ।तच्च प्रायिकं बहुधा व्यभिचारदर्शनात् । हन्तिच स्थानविच्युतेत्यत्र चकारस्यायोगव्यवच्छेदकत्व-मित्यर्थः ॥
* ॥
प्रसङ्गात् कालनिर्णयमाह ।भूलताभुजगाकारा नाडी देहस्य संक्रमात् ।विशीर्णा क्षीणतां याति मासान्ते मरणं भवेत् ॥
कदाचित् महीलतावत् कृशा तद्गतिवदति-मसृणवक्रगमना च । कदाचित् सर्पवत् परि-पुष्टा तद्गतिवद्बलवत्तरवक्रगमना च इति वैशि-ष्ट्येन सुस्थदशातो भेदः । इत्थञ्च कदाचिद-लक्ष्यतामतिकृशताञ्च यदा गच्छति । देहेऽति-देहक्रममपेक्ष्य तेन देहोऽपि यदा स्थूलः शोथा-दिना कदाचिच्च कृशः स्यात् तदा द्बितीयेमासि म्रियत इति । तथा, --क्षणाद्गच्छति वेगेन शान्ततां लभते क्षणात् ।सप्ताहान्मरणं तस्य यद्यङ्गे शोथवर्ज्जितः ॥
क्षणादिति द्रुतंद्रुतं न तु कदाचिदिति । शान्तता-मनुपलभ्यमानत्वम् । शोथेति तन्मात्रसम्बन्धेतु नाचिरं मरणाय चिरमेवेत्यर्थः । तथा, --हिमवद्बिशदा नाडी ज्वरदाहेन तापिनाम् ।त्रिदोषस्पर्शभजतां तदा मृत्युर्दिनत्रयात् ॥
यदा निरन्तरं ज्वरदाहतापौ शैत्यञ्च नाड्याः ।त्रिदोषेति । सन्निपातलक्षणसत्त्व एव भवति ॥
तदा, --निरीक्ष्या दक्षिणे पादे तदा चैषा विशेषतः ।मुखे नाडी वहेन्नित्यं ततस्तु दिनतूर्य्यकम् ॥
गतिन्तु म्रमरस्येव वहेदेकदिनेन तु ।कन्देन स्पन्दते नित्यं पुनर्लगति चाङ्गुलौ ॥
मध्ये द्वादशयामानां मृत्युर्भवति निश्चितम् ।दक्षिण इति पुसः । स्त्रियास्तु वाम एव तथेतिकरस्थैव विशेषतो विशेषज्ञानार्थम् । यदिचोभयनाड्यपि मुखे पुरोभागे नित्यं सदा वहतितदा दिनचतुष्टयं प्राप्य भ्रमरस्य परिभ्रमण-रूपं गमनमिव मुख एव यदि वहति तदैक-दिनेन । कन्दे मूले स्पन्दनस्थाने कदाचित् नस्पन्दते स्वल्पं स्पन्दत इति सम्भाव्यते । नित्यंप्रायः पुनश्चाङ्गुलौ तन्मूले कदापि लगति तदातस्मादारभ्य द्वादशप्रहरमध्य एव मृत्युरिति ।तथा, --स्थित्वा नाडी मुखे यस्य विद्युद्द्योतिरिवेक्ष्यते ।दिनैकं जीवितं तस्य द्बितीये म्रियते ध्रुवम् ॥
स्थित्वेत्यावृत्त्या स्थित्वा स्थित्वा विद्युत्स्फुरण-मिव लक्ष्यते द्वितीय इत्यष्टप्रहरादूर्द्ध्वमित्यर्थः ।तथा, --स्वस्थानविच्युता नाडी यदा वहति वान वा ।ज्वाला च हृदये तीव्रा तदा ज्वालावधि-स्थितिः ॥
न वेति स्थित्वा स्थित्वेत्यर्थः । इत्थञ्च यदसाध्य-लक्षणमुक्तमवस्थानादपवादविरहे सति तस्यार्थ-प्रवेशो यथायथमार्य्यमतिभिरवगन्तव्य इति नेहप्रतन्यते ग्रन्थगौरवभयात् । मन्दं मन्दमितिअनेन न च भूलतागमनाकारेति विरुध्यतेतस्य तात्कालिकमरणविषयत्वात् । सर्व्वमिदंसर्व्वरोग एव वेदितव्यं ज्वरमात्रे तु भ्रम एवेति ।”इति नाडीप्रकाशे द्वितीयोद्योतः ॥
* ॥
अथ रोगेषु निरूपणीयेषु प्रधानतया प्रथमंज्वरनिरूपणमाह । तत्र ज्वरपूर्व्वरूपे ।“अङ्गग्रहेण नाडीनां भवन्ति मन्थराः प्लवाः ।प्लवः प्रबलतां याति ज्वरदाहोऽभिभूतये ॥
सान्निपातिकरूपेण भवन्ति सर्व्ववेदनाः ॥
ज्वररूपमाह ।ज्वरकोपे च धमनी सोष्णा वेगवती भवेत् ।उष्णा पित्तादृते नास्ति ज्वरो नास्त्युष्मणा विना ॥
उष्णा वेगधरा नाडी ज्वरकोपे प्रजायते ॥
अन्यत्र च ।ज्वरे च वक्रा धावन्ती तथा च मरुतः प्लवे ।रमणान्ते निशि प्रातस्तप्ता दीपशिखा यथा ॥
तत्रापि विशेषमाह ।सौम्या सूक्ष्मा स्थिरा मन्दा नाडी सहज-वातजा ।स्थूला च कठिना शीघ्रा स्पन्दते तीव्रमारुते ॥
द्रुता च सरला शीघ्रा दीर्घा पित्तज्वरे भवेत् ।शीघ्रमाहननं नाड्याः काठिन्याच्च चला तथा ॥
मलाजीर्णेनातितरां स्पन्दनञ्च प्रकीर्त्तितम् ।नाडी तन्तुसमा मन्दा शीतला श्लेष्मदोषजा ॥
द्वन्द्वजमाह ।चञ्चला तरला स्थूला कठिना वातपित्तजा ।ईषच्च दृश्यते तूष्णा मन्दा स्यात् श्लेष्मवातजा ॥
निरन्तरं खरं रूक्षं मन्दश्लेष्मातिवातलम् ।रूक्षवातभवे तस्य नाडी स्यात् पित्तसन्निभा ॥
सूक्ष्मा शीता स्थिरा नाडी पित्तश्लेष्मसमुद्भवा ॥
प्रसङ्गादाह ।मध्ये करे वहेन्नाडी यदि सन्तापिता ध्रुवम् ।तदा नूनं मनुष्यस्य रुधिरापूरिता मलाः ॥
आगन्तुकरूपभेदमाह ।भूतज्वरे सेक इवातिवेगाधावन्ति नाड्यो हि यथाब्धिगामाः ।तथा, --ऐकाहिकेन क्वचन प्रदूरेक्षणान्तगामा विषमज्वरेण ।द्वितीयके वापि तृयीयतूर्य्येगच्छन्ति तप्ता भ्रमिवत् क्रमेण ॥
अन्यत्रापि ।उष्णा वेगधरा नाडी ज्वरकोपे प्रजायते ।उद्वेगक्रोधकामेषु भयचिन्ताश्रमेषु च ॥
भवेत् क्षीणगतिर्नाडी ज्ञातव्या वैद्यसत्तमैः ॥
प्रसङ्गादाह ।व्यायामे भ्रमणे चैव चिन्तायां श्रमशोकतः ।नानाप्रभावगमना शिरा गच्छति विज्वरे ॥
अजीर्णरूपमाह ।अजीर्णे तु भवेन्नाडी कठिना परितो जडा ।प्रसन्ना च द्रुता शुद्धा त्वरिता च प्रवर्त्तते ॥
तत्र विशेषमाह ।पक्वाजीर्णे पुष्टिहीना मन्दं मन्दं वहेज्जडा ।असृक्पूर्णा भवेत् कोष्णा गुर्व्वी सामा गरीयसी ॥
प्रसङ्गाद्भक्षणज्ञानमाह ।पुष्टिस्तैलगुडाहारे मांसे च लगुडाकृतिः ।क्षीरे च स्तिमिता वेगा मधुरे भेकवद्गतिः ॥
रम्भागुडवटाहारे रूक्षशुष्कादिभोजने ।वातपित्तार्त्तिरूपेण नाडी वहति निष्क्रमम् ॥
अथ रसज्ञानम् ।मधुरे वर्हिगमना तिक्ते स्याद्भूलतागतिः ।अम्ले कोष्णा प्लवगतिः कटुके भृङ्गसन्निभा ॥
कषाये कठिना म्लाना लवणे सरला द्रुता ।एवं द्बित्रिचतुर्योगे नानाधर्म्मवती धरा ॥
तथा, --द्रवेऽतिकठिना नाडी कोमला कठिनाशने ।द्रवद्रव्यस्य काठिन्ये कोमला कठिनापि च ॥
क्षौद्रे पृथग्ग्रन्थिलेव पिष्टे पुष्टैव जायते ॥
अग्निमान्द्यधातुक्षयलक्षणमाह ।मन्दाग्नेः क्षीणधातोश्च नाडी मन्दतरा भवेत् ॥
तदुक्तम् ।क्षीणधातौ च मन्दाग्नौ नाडी क्षीणतमा ध्रुवम् ॥
तथा, --मन्देऽग्नौ क्षीणतां याति नाडी हंसाकृति-स्तथेति ॥
अन्ये तु ।आमाश्रये पुष्ठिविवर्द्धनेनभवन्ति नाड्योऽग्रभुजाभिवृत्ताः ।आहारमान्द्यादुपवासतो वातथैव नाड्यो भुजगाग्रमानाः ॥
प्रसङ्गाद्दीप्ताग्निज्ञानमाह ।लघ्वी भवति दीप्ताग्नेस्तथा वेगवती मता ।प्रसङ्गाद्ग्रहणीमप्याह ।पादे च हंसगमना करे मण्डुकसंप्लवा ।तस्याग्नेर्मन्दता देहे त्वथवा ग्रहणीगदे ॥
तथा, --भेदेन शान्ता ग्रहणीगदेननिवीर्य्यरूपा त्वतिसारभेदे ।विलम्बिकायां प्लवगा कदाचि-दामातिसारे पृथुता जडा च ॥
* ॥
अथ विसूचिकाज्ञानम् ।निरोधे मूत्रशकृतोर्विड्ग्रहे त्वितराश्रिताः ।विसूचिकाभिभूते च भवन्ति भेकवत् क्रमाः ॥
* ॥
प्रसङ्गादानाहमूत्रकृच्छ्रज्ञानमाह ।आनाहे मूत्रकृच्छ्रे च भवेन्नाडी गरिष्ठता ॥
* ॥
शूलज्ञानमाह ।वातेन शूलेन मरुत्प्लवेनसदैव वक्रा हि शिरा वहन्ती ।ज्वालामयी पित्तविचेष्टितेनसाध्या न शूले न च पुष्टरूपा ॥
* ॥
अथ प्रमेहज्ञानम् ।प्रमेहे ग्रन्थिरूपा सा सुतप्ता त्वामदूषणे ॥
* ॥
विषविष्टम्भगुल्मज्ञानमाह ।उत्पित्सुरूपा विषरिष्टिकायांविष्टम्भगुल्मेन च वक्ररूपा ।अत्यर्थवातेन अधः स्फुरन्तीउत्तानभेदिन्यसमाप्तिकाले ॥
* ॥
गुल्मे विशेषमाह कश्चित् ।गुल्मेन कम्पोऽथ पराक्रमेणपारावतस्येव गतिं करोति ॥
* ॥
अथ भगन्दरज्ञानम् ।व्रणार्थं कठिने देहे प्रयाति पैत्तिकं क्रमम् ।भगन्दरानुरूपेण नाडीव्रणनिवेदने ।प्रयाति वातिकं रूपं नाडी पावकरूपिणी ॥
अथ वान्तादिज्ञानम् ।वान्तस्य शल्याभिहतस्य जन्तो-र्वेगावरोधाकुलितस्य भूयः ।गतिं विधत्ते धमनी गजेन्द्र-मरालमानेव कफोल्वणेन ॥
स्त्रीरोगादिकमपि रक्तादिज्ञानक्रमेण ज्ञातव्यम् ।क्वचित्प्रकरणोल्लेखात् क्वचिदौचित्यमात्रतः ।क्वचिद्देशात् क्वचित् कालात् सङ्कीर्णगदनिर्णयः ॥
नाडीपरिचयज्ञानं प्रायशो नैव दृश्यते ।तेन धार्ष्ट्या मयोक्तं यत्तत् समाधेयमुत्तमैः ॥
”इति श्रीशङ्करसेनकविराजकृते नाडीप्रकाशेतृतीयोद्योतः ॥
वाचस्पत्यम्
Sanskritनाडी स्त्री नल--गन्धे अच् लस्य डः । नड--भ्रंशेअच् वा गौरा० ङीष् । सिरायां काथस्थसिरास्वरूप-भेदादिकं भावप्र० उक्तं यथा“अथ सिरामाह सन्धिबन्धनकारिण्यो दोपष्ठातुःवहाः सिराः । नाभ्यां सर्वा निबद्धास्ताःप्रतन्वन्ति सम-न्ततः । शरीरं सकलञ्चैतत् सिराभिः पोष्यते सदा ।प्रणालीभिरिवारामाः कुल्याभिः क्षेत्रधान्यवत्” । अत्रप्रणालीभिः कुल्याभिरिति दृष्टान्तद्वयं स्थूलसूक्ष्मसिराभेदात् । “प्रसारणाकुञ्चनादिक्रियाभिः सततंतनौ । सिरा एवोपकुर्वन्ति ताः स्युः सप्त शतानि तु ।यथा द्रुमदले साक्षात् दृश्यन्ते प्रतताः सिराः” । तथैव“नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिरुपाश्रिता ।सिराभिरावृता नाभिश्चक्रनाभिरिवारकैः” । तद्यथातासां खलु स्थूलसिराः चत्वारिंशत् तासां दश वात-वहाः दश पित्तवहाः दश श्लेष्मवहाः दश रक्तवहाः ।तासां खलु वातवहानां वातस्थानगतानां सपञ्चसप्त-तिशतानि १७५ भवन्ति । तावत्य १७५ एव पित्तवहाःपित्तस्थानगताः । श्लेष्मवहाः तावत्यः १७५ श्लेष्म-स्थानगता रक्तवहास्तावत्यः १७५ यकृत्प्लीहगता एवंसिराः सप्तशतानि भवन्ति । तत्र वात्वहाः एकस्मिन्सक्थ्नि पञ्च विंशतिः एतेनेतरसक्थि २५ वाहू च व्या-ख्यातौ (५०) । विशेषतः कोष्ठे चतुस्त्रिंशत् तासांश्रोण्यां मुदमेढ्रादिश्रिता अष्टौ । द्वे द्वे पार्श्वयोः ४ ।षट् पृष्ठे तावत्य ६ एवोदरे दश वक्षसि एवं (३४) ।एकचत्वारिंशद् जत्रुण ऊर्द्ध्वम् तासां चतुर्द्दश १४ग्रीवायां ४ चतस्रः कर्णयोः ९ नव जिह्वायां ६ षट्नासिकायां ८ अष्टौ नेत्रयोः (४१) । एवं वातवहानांसपञ्चसप्ततिशतं १७५ भवन्ति । एवं विभागः पित्त-वहानामपि विशेषतस्तु पित्तवहा नेत्रयोर्दश १०कर्णयोर्द्वे २ एवं रक्तवहा श्लेष्मवहास्तु षोडश १६ग्रीवायां कर्णयो र्द्वे एवं सिराणां सप्तशतानि व्या-ख्यातानि । “क्रियाणामप्रतीघातममोहं बुद्धिकर्म-णाम् । करोत्यन्यान् गुणांश्चापि स्वाः सिराः पवनश्च-रन्” । क्रियाणां प्रसारणाकुञ्चनादीनाम् । अमोहंबुद्धिकर्मणाम् बुद्धीन्द्रियाणां मनसो बुद्धेश्च स्वे स्वेविषये ज्ञानं न करोतीत्यर्थः । अन्यान् गुणान् रसादि-व्यापनद्वारा शरीरपोषणादीन् । “यदा तु कुपितोवायुः स्वाः सिराः प्रतिपद्यते । तदास्य विविधा रोगाजायन्ते वातसम्भवाः । भ्राजिष्णुतामन्नरुचिमग्निदीप्तिमरोगताम् । करोत्यन्यान् गुणांश्चापि पित्तमात्मसिरा-श्चरन्” अरोगतां पैत्तिकरोगानुत्पत्तिं करोति । अन्थान्गुणान् मेधाबुद्धिदर्शनशक्त्यादीन् । “यदा तु कुपितंपित्तं सेवते स्वबहाः सिराः । तदास्य विविधारोगा जायन्ते पित्तसम्भवाः । स्नेहभङ्गेषु सन्धीनांस्थैर्य्यं बलमरोगताम् । करोत्यन्यान् गुणांश्चापिवलासः स्वाः सिराश्चरन्” । अरोगतां श्लैष्मिकरोगा-नुत्पत्तिम् अन्यान् गुणान् बलपुष्ट्यादीन् । “यदातु कुपितः श्लेष्मा स्वाः सिराः प्रतिपद्यते । तदास्यविविधा रोगा जायन्ते श्लेष्मसम्भवाः । धातूनां पूरणंसम्यक् स्पर्शज्ञानमसंशयम् । स्वसिरासु चरढ्रक्तं कु-र्य्याच्चान्थान् गुणानपि” अन्यान् गुणान् बलपुष्ट्य-दीन् । “यदा तु कुपितं रक्तं सेवते स्ववहाः सिराः ।तदास्य विविधा रोगा जायन्ते रक्तसम्भवाः । तत्रा-रुणा वातवहाः पूर्य्यन्ते वायुना सिराः । पित्त-दुष्टश्च नीलाश्च शीता गौर्य्यः स्थिराः कफात् । असृ-ग्ष्टरास्तु ता रक्ताः स्युश्चलात्युष्णशीतलाः” । याज्ञव०नाडीसंख्या अन्यथैवोक्ता । कायशब्दे १९१० पृ० दृश्या ।पदार्थादर्शे च “पूर्वोक्तायाः सुषुम्णाया मध्यस्थायाःसुलोचने । नाभिहृत्कण्ठतालुभ्रू मध्यपर्व समुद्ववाः ।अधोमुख्यः सिराः काश्चित् काश्चिदूर्द्ध्वमुखास्तथा । सिरा-स्तिर्यग्गतास्याश्च तत्र शतत्रयाधिकाः । नाड्योऽर्द्धलक्ष-सङ्ल्याताः प्रधानाः समुदीरिताः । तमु सर्वासु वलवान्प्राणो नादः समन्ततः” । संस्थितः सर्वदेहान्तः” इतितत्रापि दशनाडीनां प्राधान्येनोत्कीर्त्तनं सा० ति० यथा“नाडीर्दश विदुस्तासु मुख्यास्तिस्रः प्रकीर्त्तिताः । ईडावामे तयोर्मध्ये सुपुम्णा पिङ्गलाऽपरे । मध्ये तास्वपिनाडी स्यादग्निषोमस्वरूपिणी । गान्धारी हस्तिजिह्वाच सप्तलालङ्कृता तथा । यशस्विनी शङ्खिनी च कुहूःस्युः सप्त नाडयः । नाड्योनन्ताः समुत्पन्ना सुषुम्णापञ्चप-र्वसु” । रोगविशेषज्ञानार्थं नाडीपरीक्षा मावप्र० उक्ता यथाअथ नाडीपरीक्षामाह । पुंसो दक्षिणहस्तस्य स्त्रियोवामकरस्य तु । अङ्गुष्ठमूलनां नाडीं परीक्षेत भिष-ग्वरः । अङ्गलीभिस्तु तिसृभिर्नाडीमवहितः स्पृशेत् ।तच्चेष्टया सुखं दुःखं जानीयात्कुशलोऽखिलम् । सद्यः-स्नातस्य सुप्तस्य क्षुत्तृष्णातपशीलिनः । व्यायामश्रान्त-देहस्य सम्यक् नाडी म बुध्यते । वातेऽधिके भवेन्नाडीप्रव्यक्ता तर्जनीतले । पित्ते व्यक्ता मध्यमायां तृतीया-ङ्गुलिगा कफे । तर्जनीमध्यमामध्ये वातपित्ताधिकेस्फुटा । अनामिकायां तर्जन्यां व्यक्ता वातकफे भवेत् ।मध्यमानामिकामध्ये स्फुटा पित्तकफेऽधिके । अङ्गुलित्रितयेऽपि स्यात्प्रव्यक्ता सन्निपाततः । वाताद्वक्रगति-न्धत्ते पित्तादुत्प्लुत्य गामिनी । कफान्मन्दगतिर्ज्ञेयासन्निपातादतिद्रुता । वक्रमुत्प्लुत्य चलति धमनीवातपित्ततः । वहेद्वक्रञ्च मन्दञ्च वातश्लेष्माधिकत्वतः ।उत्प्लुत्य मन्दञ्चलति नाडी पित्तकफेऽधिके । कामात्क्रोधाद्वेगवहा क्षीणा चिन्ताभयप्लुता स्थित्वास्थित्वा च लेह्या सा हन्ति स्थानच्युता तथा । अति-क्षीणा च शीता च प्राणान् हन्ति न संशयः । ज्वर-कोपेन धमनी सोष्णा वेगवती भवेत् । मन्दाग्नेः क्षीणधातोश्च सैव मन्दतरा मता । चपला क्षुधितस्य स्यात्तृप्तस्य भवति स्थिरा । सुखिनोऽपि स्थिरा ज्ञेया तथाबलवती सता” । अत्र विशेषो नाडीप्रकाशे“सार्द्धत्रिकोट्यो नाड्यो हि स्थूलाः सूक्ष्माश्च देहि-नाम् । नाभिकन्दनिबद्धास्तास्तिर्य्यगूर्द्ध्वमधः स्थिताः ।द्विसप्ततिः सहस्रन्तु तासां स्थूलाः प्रकीर्त्तिताः । देहेधमन्यो धन्यास्ताः पञ्चेन्द्रियगुणावहाः । तासाञ्चसूक्ष्मशुषिराणि शतानि सप्त स्य स्तानि यैरसकृदन्नरसंवहद्भिः । आप्याय्यते वपुरिदं हि नृणाममीषामम्भःस्ववद्भिरिव मिन्धुशतैः समुद्रः । आपादतः प्रततगात्र-मशेषमेषामा मस्तकादपि च नाभिपुरःस्थितेन । एतन्मृगङ्ग इव चर्म च येन नद्धं कायं नृणामिह सिरा-शतसप्तकेन । सप्तशतानां मध्ये चतुरधिका विंशतिःस्फुटास्तासाम् । एका परीक्षणीया दक्षिणकरचरण-विन्यस्ता । “तिर्य्यक्कूर्मो देहिनां नाभिदेशे वामे वक्रंतस्य पुच्छञ्च याम्ये । ऊर्ध्वे भागे हस्तपादौ च वामौतस्याधस्तात् संस्थितौ दक्षिणौ तौ । वक्त्रे नाडीद्वयंतस्य पुच्छे नाडीद्वयं तथा । पञ्च पञ्च करे पादे वाम-दक्षिणभागयोः । वामे भागे स्त्रिया योज्या नाडीपुंसस्तु दक्षिणे । इति प्रोक्तो मया देवि! सर्वदेहेषुदेहिनाम्” । नपुंसकस्य तु स्त्रीपुंसयोरन्यतराकारप्रक-टतामपेक्ष्य परीक्षा । साम्यन्तु न स्यादेव । कृत्रि-मस्य तु प्रकृतिस्थता । “अङ्गुष्ठस्य तु या मूले धमनीजीवमाक्षिणी । तस्या गतिवशाद्विद्यात् सुखं दुःखंञ्चदेहिनाम् । वातं पित्तं कफं द्वन्द्वं सन्निपातन्तथैव च ।साध्यासाध्यविवेकञ्च सर्वं नाडी प्रकाशयेत् । प्रातः-कृतसमाचारः कृताचारपरिग्रहम् । सुखासीनःसुखासीनं परीक्षाथमुपाचरेत् । सद्यः स्नातस्य भुक्तस्यक्षुत्तृष्णातपसेविनः । व्यायामाक्रान्तदेहस्य सम्यङ्-नाडी न बुध्यते । तेलाभ्यङ्गे च सुप्ते च तथा चमोजनान्तरे । तथा न ज्ञायते नाडी यथा दुर्गतरानदी । आदौ च वहते वातो मध्ये पित्तं तथैव च ।अन्ते च वहते श्लेष्मा नाडिकात्रयलक्षणम् । भूलतागमनप्राया स्वच्छा स्वास्थ्यमयी सिरा । प्रातःसिग्धमयीनाडी मध्याह्ने चीष्णतान्विता । सायाह्ने धावमाना चचिराद्रोगविवर्जिता । वाताद्वक्रगता नाडी चपलापित्तवाहिनी । स्थिरा श्लेष्मवती ज्ञेया मिश्रिते मिश्रिताभवेत् । सर्पजलौकादिगतिं वदन्ति विबुधाः प्रभञ्जनेननाडीम् । पित्ते च काकलावकभेकादिगतिं विदुःसुधियः । राजहसमयराणां पारावतकपोतयोः ।कुक्कुटादिगतिं धत्ते धभनी कफसंवृता । मुहुः सर्प-गतिं नाडीं मुहुः मेकगतिं तथा । वातपित्तद्वयोद्भूतांप्रवदन्ति विचक्षणाः । भुजगादिगतिञ्चैव राजहंसगतिं सिराम् । वातश्लेष्मसमुद्भूतां भाषन्ते तद्विदोजनाः । मण्डूकादिगतिं नाडीं मयूरादिगति तथा ।पित्तश्लेष्मसमुद्भूतां प्रवदन्ति महाधियः” ।“लावतित्तिरिवार्त्तीकगमनं सन्निपाततः । कदाचिन्मन्द-गा नाडी कदाचिच्छीग्रगा भवेत् । त्रिदोषप्रमवे रोगेविज्ञेया हि भिषग्वरैः । यदा यं धातुमाप्नोति तदानाडी तथा गतिः । तथाहि सुखसाध्यत्वं नाडी-जानेन बुध्यते” । “नाडी यथा कालगतिस्त्रयाणांप्रकोपशान्त्यादिभिरेव भूयः” । “मन्दं मन्दं शिथिल-शिथिलं व्याकुलाव्याकुलं वा स्थित्वा स्थित्वा वहतिधमनी याति नाशञ्च सूक्ष्मा । नित्यं स्थानात् स्खलतिप्रनरप्यङ्गुलिं संस्पृशेद्वा भावैरेवं बहुविधविधैः सन्नि-पातादसाध्या । सह्रातापेऽपि शीतत्वं शीतत्वे तापितासिरा । नानाविधगतिर्यस्य तस्य मृत्युर्न संशयः । त्रि-दोषे स्पन्दते नाडी मृत्युकालेऽपि निश्चला । पूर्वंपित्तततिं प्रभञ्जनगतिं श्लेष्माणमाबिभ्रतीम् सन्तान-भ्रमणं सुहुर्विदधतीं चक्राधिरूढामिव । तीव्रत्वदधतीं कलापिगतिकां सूक्ष्मत्वमातन्वतीं न साध्यां धमनींवदन्ति सुधियो नाडीगतिज्ञानिनः । यात्युच्चा चस्थिरात्यन्ता या चेथं मांसवाहिनी । या चं सूक्ष्मा चवक्रा च तामसाध्यां विदुर्बुधाः । भारप्रवाहमूर्च्छाभयशोवप्रमुस्वकारणान्नाडी । संमूर्च्छितापि गाढं पुनरपिसा जीवितं धत्ते । पातितः सन्धितो भेदी नष्टशुक्रश्चयो नरः । शाम्यते विस्मयस्तस्य न किञ्चिन्मृत्युका-रणम्” । अन्यत्रापि । “तथा भूताभिषङ्गेऽपि त्रिदोष-वदुपस्थिता । समं वा वहते नाडी तथा च न क्रमंगता । अपमृत्युर्न रोगाङ्गा नाडी तत्सन्निपातवत् ।स्वस्थानहीने शोके च हिमाक्रान्ते च निर्गदाः ।भवन्ति निश्चला नाड्यो न किञ्चित् तत्र दूषणमिति” ।अन्ये त्वाहुः “तोकवातकफैर्दुष्टं पित्तं वहति दारुणम् ।षित्तस्थानं विजानीयात् भेषजं तस्य कारयेदिति” । अत्रकश्चित् “स्वस्थानच्यवनं यावद्धमन्या नोपजायते ।तावच्चिकित्सासत्त्वेऽपि नासाध्यत्वमिति स्थितिरिति” ।प्रसङ्गात् कालनिर्णयमाह “भूलताभुजगाकारा नाडीदेहस्य संक्रमात् । विशीर्णा क्षीणतां याति मासान्तेमरण भवेत् । क्षणाद्गच्छति वेगेन शान्ततां लभतेक्षणात् । सप्ताहान्मरणं तस्य यद्यङ्गं शोथवर्जितम् ।हिमवद्विशदा नाडी ज्वरदाहेन तापिनाम् । त्रिदोष-स्पर्शभजतां तदा मृत्युर्दिनत्रयात् । निरीक्ष्या दक्षिणेमादे तदा चैषा विशेषतः । मुखे नाडी वहेन्नित्यं ततस्तुदिनतुर्य्यकम् । गतिन्तु भ्रमरस्येव वहेदेकदिनेन तु ।कम्पेन स्पन्दते नित्यं पुनर्लगति चाङ्गुलौ । मध्येद्वादशयामानां मृत्युर्भवति निश्चितम्” । दक्षिण इतिपुंसः । स्त्रियास्तु वाम एव तथेति । “स्थित्वा नाडीमुखे यस्य विद्युद् द्योतिरिवेक्ष्यते । दिनैकं जीवितं तस्यद्वितीये म्रियते ध्रुवम् । स्वस्थानविच्युता नाडी यदावहति वा न वा । ज्वाला च हृदये तीव्रा तदा ज्वाला-वधि स्थितिः । अङ्गग्रहणे नाडीनां सान्निपातिक-रूपेण भवन्ति सर्ववेदनाः” ज्वररूपमाह । “ज्वर-कोपे च धमनी सोष्णा वेगवती भवेत् । उष्मा पित्ता-दृते नास्ति ज्वरो नास्त्युष्मणा विना । उष्णा वेगधरानाडी ज्वरकोपे प्रजायते” । अन्यत्र च “ज्वरे चवक्रा धावन्ती तथाच भरुतः प्लवे । रमणान्ते निशि-प्रातः तप्ता दीपशिखा यथा” । तत्रापि विशेषमाह“सौम्या सूक्ष्मा स्थिरा मन्दा नाडी सहजवातजा ।स्थूला च कठिना शीघ्रा स्पन्दते तीव्रमारुते । द्रुता चसवला शोघ्रा दीर्घा पित्तज्वरे भवेत् । शीघ्रमाहननंनाड्याः काठिन्याच्च चला तथा । मलाजीर्णेनाति-तरां सस्पन्दञ्च प्रकीर्त्तितम् नाडी तन्तुसमा मन्दाशीतला श्लेष्मदोषजा” । द्वन्तजामाहृ “चञ्चला तरलास्यूलकठिना वातपित्तजा । ईषच्च दृश्यते तूष्णा मन्दास्यात् शेष्मवातजा निरन्तरं खरं रूक्ष मन्दश्लेष्मातिवातलम् । दक्षवातभवे तस्य नाडी स्यात् पित्तसन्निभा ।सूक्ष्मा शीता स्थिरा नाडी पित्तश्लं ष्मसमुद्भवा” ।“मध्ये करे वहेन्नाडी यदि सन्तर्पिता ध्रुवम् । तदान्यूनं मनुष्यस्य रुधिरा पूरिता मलाः” । आग-न्तुकरूपभेदमाह “भूतज्वरे सेक इवातिवेगा धा-वन्ति नाड्यो हि यथाम्बुवेगाः” । तथा “ऐकाहिकेन क्वचन प्रदूरे क्षणान्तगा सा विषमज्वरेण । द्विती-यके वापि तृतीयतुर्य्ये गच्छन्ति तप्ता भ्रमिवत् क्र-मेण” । अन्यत्रापि “उष्णा वेगधरा नाडी ज्वरकोपेप्रजायते । उद्वेगक्रोधकामेषु भयचिन्ताश्रमेषु च ।मवेत् क्षीणगतिर्नाडी ज्ञातव्या वैद्यसत्तमैः” ।“व्यायामे भ्रमणे चैव चिन्तायां श्रमशोकतः । नामा-प्रभावगमना सिरा गच्छति विज्वरे” । अजीर्णरूप-माह “अजीर्णे तु भवेन्नाडी कठिना परितोजडा!प्रसन्ना च द्रुता शुद्धा त्वरिता च प्रवर्त्तते” । तत्रविशेषमाह “पक्वाजीर्णे पुष्टिहीना मन्दं मन्दं वहे-ज्जडा । असृक्पूर्णा भवेत् कोष्णा गुर्वी सामा गरीयसी ।नाड्या भक्षितद्रव्यज्ञानम् यथा “पुष्टिस्तैलगुडाहारे मांसेच लगुडाकृतिः । क्षीरे च स्तिमितावेगा मधुरे भेक-वद्गतिः । रम्भागुडवटाहारे रूक्षशुष्कादिभोजने ।वातपित्तार्त्तिरूपेण नाडी वहति निष्क्रमम्” । नाड्यापीतरसज्ञानम् “मधुरे बर्हिगमना तिक्ते स्याद्भूलतागतिः । अम्ले कोष्णा प्लवगतिः कटुके भृङ्गसन्निभा ।कषाये कठिना म्लाना लवणे सरला द्रुता । एवं द्वित्रि-चतुर्योगे नानाधर्मवती सिरा” । तथा “द्रवेऽतिकठिनानाडी कोमला कठिनाशने । द्रवद्रव्यस्य काठिम्ये को-मला कठिनापि च । क्षौद्रे पृथग्ग्रन्थिलेव पिष्टेपुष्टैव जायते” । अग्निमान्द्यधातुक्षयलिङ्गम् “मन्दाग्नेःक्षीणधातोश्च नाडी मन्दतरा भवेत्” तदुक्तम् “क्षीण-धातौ च मन्दाग्नौ नाडी क्षीणतमा ध्रुवम्” । तथा“मन्देऽग्नौ क्षीणतां याति नाडी हंसाकृतिस्तथेति”अन्ये तु “आमाचये पुष्टिविवर्द्धनेन भवन्ति नाड्योऽग्र-भुजाभिवृत्ताः । आहारमान्द्यादुपवासती वा तथैवनाड्यो भुजगाग्रमाना । प्रसङ्गाद्दीप्ताग्निज्ञानमाह“लघ्वी भवति दीप्ताग्नेः करे मण्डूकसंप्लवा । तस्या-ग्नेर्मन्दता देहे त्वथ वा ग्रहणीगदे” । तथा “भेदेनशान्ता ग्रहणीगदेन निर्वीर्य्यरूपा त्वतिसारभेदे । विल-म्बिकायां प्लवगा कदाचिदामातिसारे पुथुलाजडा च” ।अथ विसूचिका ज्ञानम् । “निरोधो मूत्रशकृतोर्विड्-ग्रहे त्वितराश्रिताः । विसूचिकाभिभूते च भवन्तिभेकवत्क्रमाः” । प्रसङ्गादानाहमूत्रकृच्छ्रज्ञानमाह“आनाहे मूत्रकृच्छ्रे च भवेन्नाडीगरिष्ठता” । शूलज्ञान-माह “वातेन शूलेन मरुत्प्लवेन सदैव वक्रा हि सिरावहन्ति । ज्वालामयी पित्तविचेष्टितेन साध्या न शूलेन च पुष्टरूपा” । अथ प्रमेहज्ञानम् । “प्रमेहे ग्रन्थि-रूपा सा सुतप्ता त्वामदूषणे” । विषविष्टम्भगुल्म-ज्ञानमाह “उत्पित्सुरूपा विषरीष्टिकायां विष्टम्भगुल्मेन च वक्ररूपा । अत्यर्थवातेन अधःस्फुरन्तीउत्तानभेदिन्यसमाप्तिकाले” । गुल्मे विशेषमाह कश्चित्“गुल्मेन कम्पोऽथ पराक्रमेण पारावतस्येव गतिं करोति”अथ भगन्दरज्ञानम् “व्रणार्थं कठिने देहे प्रयाति पै-त्तिकं क्रमम् । भगन्दरानुरूपेण नाडीव्रणनिवेदने ।प्रयाति वातिकं रूपं नाडी पावकरूपिणी” । अथवान्तादिज्ञानम् “वान्तस्य शल्यामिहतस्य जन्तोर्वेगाव-रोधाद्गिलितस्य भूयः । गतिं विधत्ते घमनी गजेन्द्र-मरालमानेव कफोल्वणेन । रोगादिकमपि रक्तादि-ज्ञानक्रमेण ज्ञातव्यम् । “क्वचित् प्रकरणोल्लेखात् क्वचि-दौचित्यमात्रतः । क्वचित् देशात् क्वचित् कालात् सङ्कीर्णगदनिर्णयः” । नाडीपरिचयज्ञानं प्रायशो नैव दृश्यते ।तेन धार्ष्ट्यात् मयोक्तं यत्तत् समाधेयमुत्तमैः” ।“मातुस्तु खलु रसरहायां नाड्यां गर्भनामिनाडीप्रतिवद्धा” सुश्रु० “प्राग् नाडीच्छेदनात् पुंसो जातकर्मविधीयते” इति स्मृतिः “शतं चैका च हृदयस्य नाड्यः”श्रुतिः “प्रवृत्ता हृदयात् सर्वाः तिर्य्यगूर्द्धमधस्तथा ।वहन्त्यन्नरसान् नाड्यो दशप्राणप्रचोदिताः” भा० व०२१२ अ० । २ व्रणान्तरे ३ गण्डदूर्वायाम् कुहकचर्य्यायाञ्चघटीरूपे दण्डात्मके ४ समयभेदे च मेदि० । “दशगुर्वक्षरःप्राणः षड्भिः प्राणैर्विनाडिका । तत्षष्ट्या तु भवे-न्नाडी” सू० सि० । तत्कालज्ञाने यन्त्रादिकं घटीशब्देदर्शितम् । “त्रियामां रजनीं प्राहुस्त्यक्त्वाद्यन्तचतुष्टयम् ।नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते” ति० त० ।नक्षत्रविशेषज्ञापके ५ नाड्याकारे रेखाभेदे उपयमशब्देनाडीकूटनिरूपणे १२५४ पृ० दृश्यम् । “एकराश्या-दियोगे च नाडीदोषो न विद्यते” ज्यो० त० “अश्वि-न्यादिलिखेच्चक्रं सर्पाकारं त्रिनाडिकम्” ज्यो० त० ।चक्रशब्दे पण्णाडीनिर्णये २८१६ पृ० दृश्यम् “आर्द्रा-दिकं लिखेच्चक्र मृगान्तञ्च त्रिनाडिकम्” “एकना-डीस्थधिष्ण्यानि यत्र स्युर्वरकन्ययोः” तत्रैव । स्वरोदयेषड्नाडीचक्रनवनाडीचक्रयोस्तु चक्रशब्दे दर्शितयो-रपि रेखाविशेषस्यैव नाडीशब्दार्थत्वम् । सिराबोध-कस्य नाडीशब्दस्य स्वाङ्गवाचकत्वात् “नीडीतन्त्र्योःस्वाङ्गे” पा० बहु० न कप् । बहुनाडिः कायः ।अस्वाङ्गत्वे तु कप् । षष्टिनाडीको दिवसः । ६ प्रणा-ल्याञ्च सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः” रघुःनाले शाकादीनां (डाटा) ख्याते ७ अवयवभेदे च ।
Grassman
GermanStchoupak
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
