| YouTube Channel

नाडिन्धमः (nADindhamaH)

 
शब्दकल्पद्रुमः
Sanskrit
नाडिन्धमः,
पुं,
(नाडीं वंशनलीं धमतीति ध्माशब्दाग्निसंयोगयोः + “नाडीमुष्ट्योश्च ।” ।२ ३० इति खश् “पाघ्राध्मास्थेति ।” ।३ ७८ इति धमादेशः “खित्यनव्ययस्य ।”६ ६६ इति पूर्व्वपदस्य ह्रस्वः ।) स्वर्ण-कारः इत्यमरः १०
(उच्चनीचा-धिरोहणात् मुहुर्मुहुर्निश्वासैर्नाडीं धमति उप-तापयतीति श्वासकारके, त्रि यथा, भट्टिः ।६ ९४ ।“सत्वमेजयसिंहाढ्यान् स्तनन्धवसमत्विषौ ।कथं नाडिन्धमान् मार्गानागतौ विषमो-पलान्
”)