| YouTube Channel

नाट्योक्तिः (nATyoktiH)

 
Apte Hindi
Hindi
नाट्योक्तिः
स्त्री*
नाट्यम्-उक्तिः -
नाटकीय वाक्यविन्यास
शब्दकल्पद्रुमः
Sanskrit
नाट्योक्तिः,
स्त्री,
(नाट्ये नृत्यगीतादौ या उक्तिः ।)नाटकविषयकवचः नटानां कर्म्म नाट्यंतत्रोक्तिः नाट्योक्तिः इति भरतः
तद्यथा ।आर्य्येति ब्राह्मणम् क्षत्त्रियं महाराजेति ।सखीं हलेति नीचं हण्डे इति चेटीं हञ्जेइति स्वामिनमार्य्यपुत्त्रेति राजश्यालं राष्ट्रि-येति समानं हंहो इति राजानं देवेति ।सार्व्वभौमं भट्टेति भगिनीपतिमावुत्तेति सम्बो-धयेत् इति सङ्गीतदामोदरः
गणिकायांअज्जुका विद्वति भावः जनके आवुकः ।कुमारे युषराजभर्त्तृदारकौ
राज्ञि देवभट्टा-रकौ राजसुतायां भर्त्तृदारिका कृताभिषे-कायां राज्ञ्यां देवी इतरासु राज्ञीषु भट्टिनी ।अवध्योक्तौ अब्रह्मण्यम् मातरि अम्बा ।बालायां वासूः आर्य्ये मारिषः ज्येष्ठा-भगिन्यां अन्तिका निष्ठायां निर्व्वहणम् ।इत्यमरः ११ -- १५
(यथाच साहित्य-दर्पणे १५४ -- १६० ।“अश्राव्यं खलु यद्वस्तु तदिह स्वगतं मतम् ।सर्व्वश्राव्यं प्रकाशं स्यात्तद्भवेदपवारितम्
रहस्यन्तु यदन्यस्य परावृत्य प्रकाश्यते ।त्रिपताककरेणान्यानपवार्य्यान्तरा कथाम्
अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् ।किं ब्रवीषीति यत् नाट्ये विना पात्रं प्रयुज्यते
श्रुत्वेवानुक्तमप्यर्थं तत् स्यादाकाशभाषितम्
दत्तां सिद्धाञ्च सेनाञ्च वेश्यानां नाम दर्शयेत् ।दत्तप्रायाणि बणिजां चेटचेट्योस्तथा पुनः
वसन्तादिषु वर्ण्यस्य वस्तुनो नाम यद्भवेत्
नाम कार्य्यं नाटकस्य गर्भितार्थप्रकाशकम् ।नायिकानायकाख्यानां संज्ञाप्रकरणादिषु
नाटिकासट्टकादीनां नायिकाभिर्विशेषणम् ।प्रायेण ण्यन्तकः साधिर्गमेः स्थाने प्रयुज्यते
राजा स्वामीति देवेति भृत्यैर्भट्टेति चाधमैः ।राजर्षिभिर्वयस्येति तथा विदूषकेण
राजन्नित्यृषिभिर्वाच्यः सोऽपत्यप्रत्ययेन ।स्वेच्छया नामभिर्षिप्रैर्षिप्र आर्य्येति चेतरैः
वयस्येत्यथवा नाम्ना वाच्यो राज्ञा विदूषकः ।वाच्यौ नटीसूत्रधारावार्य्यनाम्ना परस्परम्
सूत्रधारं वदेद्भाव इति वै पारिपार्श्विकः ।सूत्रधारो मारिषेति हण्डे इत्यधमैः समाः
वयस्येत्युत्तमैर्हंहो मध्यैरार्य्येति चाग्रजः ।भगवन्निति वक्तव्याः सर्व्वैर्देवर्षिलिङ्गिनः
वदेद्राज्ञीञ्च चेटीञ्च भवतीति विदूषकः ।आयुष्मन्रथिनं सूतो वृद्ध तातेति चेतरैः
वत्स पुत्त्रक तातेति नाम्ना गोत्रेण वा सुतः ।शिष्योऽनुजश्च वक्तव्योऽमात्य आर्य्येति चाधमैः
विप्रैरयममात्येति सचिवेति भण्यते ।साधो इति तपस्वी प्रशान्तश्चोच्यते बुधैः
अगृहीताभिधः पूज्यः शिष्याद्यैर्विनिगद्यते ।उपाध्यायेति चाचार्य्यो महाराजेति भूपतिः
स्वामीति युवराजस्तु कुमारो भर्त्तृदारकः ।सौम्य भद्रमुखेत्येवमधमैस्तु कुमारकः
वाच्या प्रकृतिभी राज्ञः कुमारी भर्त्तृदारिका
पतिर्यथा तथा वाच्या ज्येष्ठमध्याधमैस्त्रियः ।हलेति सदृशी प्रेष्या हञ्जे वेश्याऽञ्जका तथा
कुट्टिन्यम्बेत्यनुगतैः पूज्या जरतीजनैः ।आमन्त्रणैश्च पाषण्डा वाच्याः स्वसमयागतैः
शकादयश्च सम्भाष्या भद्रदत्तादिनामभिः ।यस्य यत् कर्म्म शिल्पं वा विद्या वा जातिरेव वा
तेनैव नाम्ना वाच्योऽसौ ज्ञेयाश्चान्ये यथोचि-तम्
”)