नाट्योक्ति (nATyokti)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English नाट्योक्ति nATyokti dramatic phraseology
वाग्व्यापार vAgvyApAra customary phraseology
नाट्योक्ति nATyokti dramatic phraseology
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiनाट्योक्तिः
नाट्यम्-उक्तिः -
नाटकीय वाक्यविन्यास
Shabdartha Kaustubha
Kannadaनाट्योक्ति
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ನಾಟ್ಯದಲ್ಲಿ ಉಪಯೋಗಿಸುವ ಪಾರಿಭಾಷಿಕ ಶಬ್ದ
विस्तारः - > "नाट्ये नृत्तगीतादौ उक्तिः"
नाट्योक्ति
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ನಾಟಕಗಳಲ್ಲಿ ನಟರು ಪರಸ್ಪರ ಸಂಬೋಧಿಸಿ ಕರೆಯುವ ಪಾರಿಭಾಷಿಕ ಶಬ್ದ
शब्दकल्पद्रुमः
Sanskritनाट्योक्तिः, (नाट्ये नृत्यगीतादौ या उक्तिः ।)नाटकविषयकवचः । नटानां कर्म्म नाट्यंतत्रोक्तिः नाट्योक्तिः । इति भरतः ॥
तद्यथा ।आर्य्येति ब्राह्मणम् । क्षत्त्रियं महाराजेति ।सखीं हलेति । नीचं हण्डे इति । चेटीं हञ्जेइति । स्वामिनमार्य्यपुत्त्रेति । राजश्यालं राष्ट्रि-येति । समानं हंहो इति । राजानं देवेति ।सार्व्वभौमं भट्टेति । भगिनीपतिमावुत्तेति सम्बो-धयेत् । इति सङ्गीतदामोदरः ॥
गणिकायांअज्जुका । विद्वति भावः । जनके आवुकः ।कुमारे युषराजभर्त्तृदारकौ ॥
राज्ञि देवभट्टा-रकौ । राजसुतायां भर्त्तृदारिका । कृताभिषे-कायां राज्ञ्यां देवी । इतरासु राज्ञीषु भट्टिनी ।अवध्योक्तौ अब्रह्मण्यम् । मातरि अम्बा ।बालायां वासूः । आर्य्ये मारिषः । ज्येष्ठा-भगिन्यां अन्तिका । निष्ठायां निर्व्वहणम् ।इत्यमरः । १ । ७ । ११ -- १५ ॥
(यथाच साहित्य-दर्पणे । ६ । १५४ -- १६० ।“अश्राव्यं खलु यद्वस्तु तदिह स्वगतं मतम् ।सर्व्वश्राव्यं प्रकाशं स्यात्तद्भवेदपवारितम् ॥
रहस्यन्तु यदन्यस्य परावृत्य प्रकाश्यते ।त्रिपताककरेणान्यानपवार्य्यान्तरा कथाम् ॥
अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् ।किं ब्रवीषीति यत् नाट्ये विना पात्रं प्रयुज्यते ॥
श्रुत्वेवानुक्तमप्यर्थं तत् स्यादाकाशभाषितम् ॥
दत्तां सिद्धाञ्च सेनाञ्च वेश्यानां नाम दर्शयेत् ।दत्तप्रायाणि बणिजां चेटचेट्योस्तथा पुनः ॥
वसन्तादिषु वर्ण्यस्य वस्तुनो नाम यद्भवेत् ॥
नाम कार्य्यं नाटकस्य गर्भितार्थप्रकाशकम् ।नायिकानायकाख्यानां संज्ञाप्रकरणादिषु ॥
नाटिकासट्टकादीनां नायिकाभिर्विशेषणम् ।प्रायेण ण्यन्तकः साधिर्गमेः स्थाने प्रयुज्यते ॥
राजा स्वामीति देवेति भृत्यैर्भट्टेति चाधमैः ।राजर्षिभिर्वयस्येति तथा विदूषकेण च ॥
राजन्नित्यृषिभिर्वाच्यः सोऽपत्यप्रत्ययेन च ।स्वेच्छया नामभिर्षिप्रैर्षिप्र आर्य्येति चेतरैः ॥
वयस्येत्यथवा नाम्ना वाच्यो राज्ञा विदूषकः ।वाच्यौ नटीसूत्रधारावार्य्यनाम्ना परस्परम् ॥
सूत्रधारं वदेद्भाव इति वै पारिपार्श्विकः ।सूत्रधारो मारिषेति हण्डे इत्यधमैः समाः ॥
वयस्येत्युत्तमैर्हंहो मध्यैरार्य्येति चाग्रजः ।भगवन्निति वक्तव्याः सर्व्वैर्देवर्षिलिङ्गिनः ॥
वदेद्राज्ञीञ्च चेटीञ्च भवतीति विदूषकः ।आयुष्मन्रथिनं सूतो वृद्ध तातेति चेतरैः ॥
वत्स पुत्त्रक तातेति नाम्ना गोत्रेण वा सुतः ।शिष्योऽनुजश्च वक्तव्योऽमात्य आर्य्येति चाधमैः ॥
विप्रैरयममात्येति सचिवेति च भण्यते ।साधो इति तपस्वी च प्रशान्तश्चोच्यते बुधैः ॥
अगृहीताभिधः पूज्यः शिष्याद्यैर्विनिगद्यते ।उपाध्यायेति चाचार्य्यो महाराजेति भूपतिः ॥
स्वामीति युवराजस्तु कुमारो भर्त्तृदारकः ।सौम्य भद्रमुखेत्येवमधमैस्तु कुमारकः ॥
वाच्या प्रकृतिभी राज्ञः कुमारी भर्त्तृदारिका ॥
पतिर्यथा तथा वाच्या ज्येष्ठमध्याधमैस्त्रियः ।हलेति सदृशी प्रेष्या हञ्जे वेश्याऽञ्जका तथा ॥
कुट्टिन्यम्बेत्यनुगतैः पूज्या च जरतीजनैः ।आमन्त्रणैश्च पाषण्डा वाच्याः स्वसमयागतैः ॥
शकादयश्च सम्भाष्या भद्रदत्तादिनामभिः ।यस्य यत् कर्म्म शिल्पं वा विद्या वा जातिरेव वा ॥
तेनैव नाम्ना वाच्योऽसौ ज्ञेयाश्चान्ये यथोचि-तम् ॥
”)
वाचस्पत्यम्
Sanskritनाट्योक्ति स्त्री नाट्ये उक्तिर्विशेषोक्तिः । लौकिकप्रसिद्धा-र्थकशब्दान्तरेण नाट्ये पदार्थान्तराणामुक्तौ तथा चकेषाञ्चित् शब्दानामन्यार्थे पारिभाषिकत्वं नाट्ये ज्ञेयम्सा च सा० द० निर्णीता यथा“अश्राव्यं खलु यद्वस्तु तदिह स्वगतं १ मतम् ।सर्वश्राव्यं प्रकाशं २ स्यात्तद्भवेदपवारितम् ३ । रहस्यन्तुयदन्यस्य परावृत्य प्रकाश्यते । त्रिपताककरेणान्यानप-वार्य्यान्तरा कथा । अन्थोन्यामन्त्रणं यत्स्याज्जनान्तेतज्जनान्तिकम् ४ । किं ब्रवीषीति यन्नाट्ये विना पात्रं ।प्रयुज्यते । श्रुत्वेवानुक्तमप्यर्थं तत्स्यादाकाशभाषितम् ५ ।दत्तां सिद्धाञ्च सेनाञ्च वेश्यानां नाम दर्शयेत् । दत्त-प्रायाणि बणिजां चेटचेट्योस्तथा पुनः । वसन्तादिषुवर्ण्यस्य वस्तुनो नाम यद्भवेत् । नाम कार्य्यं नाटकस्यगर्भतार्थप्रकाशकम् । नायिकानायकाख्यानां संज्ञा-प्रकरणादिषु । नाटिकासट्टकादीनां नायिकाभिर्विशेष-णम् । प्रायेण ण्यन्तकः साधिर्गमेः स्थाने प्रयुज्यते ।राजा स्वामीति देवेति भृत्यैर्भट्टेति चाधमैः । राजर्षि-भिर्वयस्येति तथा विदूषकेण च । राजन्नित्यृषिभिर्वाच्यःसोऽपत्यप्रत्ययेन च । स्वेच्छया नामभिर्विप्रैर्विप्र आर्येतिचेतरेः । वयस्येत्यथ वा नाम्ना वाच्यो राज्ञा विदूषकः ।वाच्यौ नटीसूत्रधारावार्य्यनाम्ना परस्परम् । सूत्रधारोभवेद्भाव इति वै पारिपार्श्विकः । सूत्रधारो मारिषेतिहण्डे इत्यधमैः समाः । वयस्येत्युचमैर्हंहो मध्यै-रार्य्येति चाग्रजः । भगवन्निति वक्तव्याः सर्वैर्देवर्षि-लिङ्गिनः । वदेद्राज्ञीञ्च चेटीञ्च भवतीति विदूषकः ।आयुष्मन् रथिनं सूतो वदेत् तातेति चेतरः । वत्स पुत्रकतातेति नाम्ना गोत्रेण वा सुतः । शिष्योऽनुजश्चवक्तव्योऽमात्य आर्य्येति चाधमैः । विप्रैरयममात्येतिसचिवेति च भण्यते । साधो इति तपस्वी च प्रशान्त-श्चोच्यते बुधैः । अगृहीताभिधः पूज्यः शिष्याद्यैर्विनि-नद्यते । उपाध्यायेति चाचार्य्यो महाराजेति भूपतिः ।स्वामीति युवराजस्तु कुमारो भर्तृदारकः । सौम्य भद्र-मुखेत्येवमधभैस्तु कुमारकः । वाच्या प्रकृतिभीराज्ञःकुमारी भर्तृदारिका । पतिर्यथा तथा वाच्या ज्येष्ठ-मध्याधमैस्त्रियः । हलेति सदृशी प्रेष्या हञ्जे वेश्या-ऽर्जका तथा । कुट्टिन्यम्बेत्यनुगतैः पूज्या च जरती-जनैः । आमन्त्रणैश्च पाषण्डा वाच्याः स्वसमयागतैः ।शकादयश्च सम्भाष्या भद्रदत्तादिनामभिः । यस्य यत्कर्मशिल्पं वा विद्या वा जातिरेव वा । तेनैव नाभ्नावाच्योऽसौ ज्ञेयाश्चान्ये यथोचितम्” । “अमरे तुवासुराचार्यस्तु मारिषः” वासुरधिकः पठितः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
