नाट्यालङ्कारः (nATyAlaGkAraH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritनाट्यालङ्कारः, (नाट्यस्य अलङ्कारः ।) नाट्य-भूषणहेतुः । स तु अष्टषष्ठिप्रकारः । यथा, --“सिद्धिर्म्मनोरथोऽभ्रेशो निरुक्तिश्च विशेषणम् ।गुणाभिपात उद्दिष्टविचारप्राप्तिनीतयः ॥
अभिप्रायः परीहारो गर्हणानुनयौ तथा ।अर्थापत्तिः प्रसिद्धिश्च दाक्षिण्यं प्रियभाषणम् ॥
अभिमानाख्यानगर्व्वा हर्षक्षोभोद्यमाश्रयाः ।पश्चात्तापः स्पृहाक्रन्दौ कपटञ्च प्रवर्त्तनम् ॥
उत्तेजनञ्च दृष्टान्तः शोभोदाहरणे अपि ।संशयोऽक्षरसंघातो विमलोक्तिः पदोच्चयः ॥
परीवादोऽनुक्तसिद्धिरक्षमाध्यवसायकौ ।प्रोत्साहनं तुल्यतर्क उपपत्त्यनुतर्कणे ॥
निवेदनञ्च साहाय्यं याच्ञा पृच्छा विशोषणम् ।अभिज्ञानञ्च स्वारूप्यं गुणकीर्त्तनमुक्तयः ॥
विपर्य्ययश्चातिशयो भूषाहेतुनिदर्शनम् ।मानालेशश्च संक्षेपसमीहाश्रीविसर्पकाः ॥
उल्लेख उपदिष्टी चेत्यष्टषष्टिमिता अमी ।अलङ्कारा मता नित्यं नाटकादिषु सूरिभिः ॥
”इति सङ्गीतदामोदरः ॥
(साहित्यदर्पणमते त्रयस्त्रिंशत् नाट्यालङ्काराः ।यथा, तत्रैव । ६ । २०० -- २३२ ।“आशीराक्रन्दकपटाक्षमागर्वोद्यमाश्रयाः ।उत्प्रासनं स्पृहाक्षोभपश्चात्तापोपपत्तयः ॥
आशंसाध्यवसायौ च विसर्पोल्लेखसङ्ज्ञितौ ।उत्तेजनं परीवादो नीतिरर्थविशेषणम् ॥
प्रोत्साहनञ्च साहाय्यमभिमानोऽनुवर्त्तनम् ।उत्कीर्त्तनं तथा याच्ञा परीहारो निवेदनम् ॥
प्रवर्त्तनाख्यानयुक्तिप्रहर्षाश्चोपदेशनम् ।इति नाट्यालङ्कृतयो नाट्यभूषणहेतवः ॥
आशीरिष्टजनाशंसाक्रन्दः प्रलपितं शुचा ।कपटं मायया यत्र रूपमन्यद्विभाव्यते ॥
अक्षमा सा परिभवः स्वल्पोऽपि नाभिसह्यते ।गर्वोऽवलेपजं वाक्यं कार्य्यस्यारम्भ उद्यमः ॥
ग्रहणं गुणवत्कार्य्यहेतोराश्रय उच्यते ।उत्प्रासनन्तूपहासो योऽसाधौ साधुमानिनि ॥
आकाङ्क्षा रमणीयत्वाद्वस्तुनो या स्पृहा तु सा ।अधिक्षेपवचःकारी क्षोभः प्रोक्तः स एव तु ॥
मोहावधीरितार्थस्य पश्चात्तापः स एव तु ।उपपत्तिर्मता हेतोरुपन्यासोऽर्थसिद्धये ॥
आशसनं स्यादाशंसा प्रतिज्ञाध्यवसायकः ।विसर्पी यत्समारब्धं कर्म्मानिष्टफलप्रदम् ॥
कार्य्यग्रहणमुल्लेख उत्तेजनमितीष्यते ।स्वकार्य्यसिद्धयेऽन्यस्य प्रेरणाय कठोरवाक् ॥
र्भत्सना तु परीवादो नीतिः शास्त्रेण वर्त्तनम् ॥
उक्तस्यार्थस्य यत्तु स्यादुत्कीर्त्तनमनेकधा ।उपालम्भस्वरूपेण तत् स्यादथविशेषणम् ॥
प्रोत्साहनं स्यादुत्साहगिरा कस्यापियोजनम् ।साहाय्यं सङ्कटे यत् स्यात् सानुकूल्यं परस्य च ॥
अभिमानः स एव स्यात् प्रश्रयादनुवत्तनम् ।अनुवृत्तिर्भूतकार्य्याख्यानमुत्कीर्त्तनं मतम् ॥
याच्ञा तु क्वापि याच्ञायाः स्वयं दूतमुखेन वा ।परीहार इति प्रोक्तः कृतानुचितमार्ज्जनम् ॥
अवधीरितकर्त्तव्यकथनन्तु निवेदनम् ।प्रवर्त्तनन्तु कार्य्यस्य यत् स्यात् साधुप्रवर्त्तनम् ॥
आख्यानं पूर्व्ववृत्तोक्तिः युक्तिरर्थावधारणम् ।प्रहर्षः प्रमदाधिक्यं शिक्षा स्यादुपदेशनम् ॥
”एतेषामुदाहरणन्तु तत्रैव द्रष्टव्यम् ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
