| YouTube Channel

नाट्यालङ्कार (nATyAlaGkAra)

 
Shabdartha Kaustubha
Kannada
नाट्यालङ्कार
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ನಾಟ್ಯದ ಅಲಂಕಾರ /ನಾಟ್ಯದ ಸೊಗಸಿಗೆ ಕಾರಣವಾದ ಸಂದರ್ಭ
विस्तारः - > ನಾಟ್ಯಾಲಂಕಾರವು ೩೩ ವಿಧ. १)आशीः २)आक्रन्दः ३)कपटम् ४)अक्षमा ५)गर्वः ६)उद्यमः ७)आश्रयः ८)उत्प्रासनम् ९)स्पृहा १०)क्षोभः ११)पश्चात्तापः १२)उपपत्तिः १३)आशंसा १४)अध्यवसायः १५)विसर्पः १६)उल्लेखः १७)उत्तेजनम् १८)परीवादः १९)नीतिः २०)अर्थविशेषणम् २१)प्रोत्साहनम् २२)साहाय्यम् २३)अभिमानः २४)अनुवर्तनम् २५)उत्कीर्तनम्स २६)याञ्चा २७)परिहारः २८)निवेदनम् २९)प्रवर्तनम् ३०)आख्यानम् ३१)युक्तिः ३२)प्रहर्षः ಮತ್ತು ३३)उपदेशनम् - सा० द०
शब्दकल्पद्रुमः
Sanskrit
नाट्यालङ्कारः,
पुं,
(नाट्यस्य अलङ्कारः ।) नाट्य-भूषणहेतुः तु अष्टषष्ठिप्रकारः यथा, --“सिद्धिर्म्मनोरथोऽभ्रेशो निरुक्तिश्च विशेषणम् ।गुणाभिपात उद्दिष्टविचारप्राप्तिनीतयः
अभिप्रायः परीहारो गर्हणानुनयौ तथा ।अर्थापत्तिः प्रसिद्धिश्च दाक्षिण्यं प्रियभाषणम्
अभिमानाख्यानगर्व्वा हर्षक्षोभोद्यमाश्रयाः ।पश्चात्तापः स्पृहाक्रन्दौ कपटञ्च प्रवर्त्तनम्
उत्तेजनञ्च दृष्टान्तः शोभोदाहरणे अपि ।संशयोऽक्षरसंघातो विमलोक्तिः पदोच्चयः
परीवादोऽनुक्तसिद्धिरक्षमाध्यवसायकौ ।प्रोत्साहनं तुल्यतर्क उपपत्त्यनुतर्कणे
निवेदनञ्च साहाय्यं याच्ञा पृच्छा विशोषणम् ।अभिज्ञानञ्च स्वारूप्यं गुणकीर्त्तनमुक्तयः
विपर्य्ययश्चातिशयो भूषाहेतुनिदर्शनम् ।मानालेशश्च संक्षेपसमीहाश्रीविसर्पकाः
उल्लेख उपदिष्टी चेत्यष्टषष्टिमिता अमी ।अलङ्कारा मता नित्यं नाटकादिषु सूरिभिः
”इति सङ्गीतदामोदरः
(साहित्यदर्पणमते त्रयस्त्रिंशत् नाट्यालङ्काराः ।यथा, तत्रैव २०० -- २३२ ।“आशीराक्रन्दकपटाक्षमागर्वोद्यमाश्रयाः ।उत्प्रासनं स्पृहाक्षोभपश्चात्तापोपपत्तयः
आशंसाध्यवसायौ विसर्पोल्लेखसङ्ज्ञितौ ।उत्तेजनं परीवादो नीतिरर्थविशेषणम्
प्रोत्साहनञ्च साहाय्यमभिमानोऽनुवर्त्तनम् ।उत्कीर्त्तनं तथा याच्ञा परीहारो निवेदनम्
प्रवर्त्तनाख्यानयुक्तिप्रहर्षाश्चोपदेशनम् ।इति नाट्यालङ्कृतयो नाट्यभूषणहेतवः
आशीरिष्टजनाशंसाक्रन्दः प्रलपितं शुचा ।कपटं मायया यत्र रूपमन्यद्विभाव्यते
अक्षमा सा परिभवः स्वल्पोऽपि नाभिसह्यते ।गर्वोऽवलेपजं वाक्यं कार्य्यस्यारम्भ उद्यमः
ग्रहणं गुणवत्कार्य्यहेतोराश्रय उच्यते ।उत्प्रासनन्तूपहासो योऽसाधौ साधुमानिनि
आकाङ्क्षा रमणीयत्वाद्वस्तुनो या स्पृहा तु सा ।अधिक्षेपवचःकारी क्षोभः प्रोक्तः एव तु
मोहावधीरितार्थस्य पश्चात्तापः एव तु ।उपपत्तिर्मता हेतोरुपन्यासोऽर्थसिद्धये
आशसनं स्यादाशंसा प्रतिज्ञाध्यवसायकः ।विसर्पी यत्समारब्धं कर्म्मानिष्टफलप्रदम्
कार्य्यग्रहणमुल्लेख उत्तेजनमितीष्यते ।स्वकार्य्यसिद्धयेऽन्यस्य प्रेरणाय कठोरवाक्
र्भत्सना तु परीवादो नीतिः शास्त्रेण वर्त्तनम्
उक्तस्यार्थस्य यत्तु स्यादुत्कीर्त्तनमनेकधा ।उपालम्भस्वरूपेण तत् स्यादथविशेषणम्
प्रोत्साहनं स्यादुत्साहगिरा कस्यापियोजनम् ।साहाय्यं सङ्कटे यत् स्यात् सानुकूल्यं परस्य
अभिमानः एव स्यात् प्रश्रयादनुवत्तनम् ।अनुवृत्तिर्भूतकार्य्याख्यानमुत्कीर्त्तनं मतम्
याच्ञा तु क्वापि याच्ञायाः स्वयं दूतमुखेन वा ।परीहार इति प्रोक्तः कृतानुचितमार्ज्जनम्
अवधीरितकर्त्तव्यकथनन्तु निवेदनम् ।प्रवर्त्तनन्तु कार्य्यस्य यत् स्यात् साधुप्रवर्त्तनम्
आख्यानं पूर्व्ववृत्तोक्तिः युक्तिरर्थावधारणम् ।प्रहर्षः प्रमदाधिक्यं शिक्षा स्यादुपदेशनम्
”एतेषामुदाहरणन्तु तत्रैव द्रष्टव्यम्
)
वाचस्पत्यम्
Sanskrit
नाट्यालङ्कार
पु०
सा० द० उक्ते षट्त्रिंशद्विधे नाट्य-स्यालङ्कारभेदे यथा“आशीराक्रन्दकपटाक्षमागर्वोद्यमाश्रयाः उत्प्रासनंस्पृहाक्षोभपश्चास्तापोपपत्तयः आशसाध्यवसायौ चविसर्पोल्लेखसज्ञितौ उत्तेजनं परीवादो नीतिरर्थ-विशेषणम् प्रोत्साहनञ्च साहाय्यमभिमानोऽनुवर्त्त-नम् उत्कीर्त्तनं तथा याच्ञा परीहारो निवेदनम् ।प्रवर्त्तनाख्यानयुक्तिप्रहषाश्चोपदेशनम् इति नाट्या-लङ्कृतयो नाट्यभूषणहेतवः” इत्युद्दिश्य आशी रि-ष्टजनाशंसाऽऽक्रन्दः प्रलपितं शुचा कपटं माययायत्र रूपमन्यद्विभाव्यते अक्षमा सा परिभवः स्वल्पो-ऽपि नाभिसह्यते गर्वो ऽवलेपजं वाक्यं कार्य्यस्यारम्भउद्यमः ग्रहणं गुणवत्कार्य्यहेतोराश्रय उच्यते ।उत्प्रासन न्तूपहासो योऽसाधौ साधुमानिनि आ-काङ्क्षा रमणीयत्वाद्वस्तुनो या स्पृहा तु सा अधि-क्षेपवचःकारी क्षोभः १० प्रोक्तः एव तु मोहावधी-रितार्थस्य पश्चात्तापः ११ एव तु उपपत्ति १२ र्मताहेतोरुपन्यासोऽर्थसिद्धये आशंसनं स्यादाशंसा १३ प्रति-ज्ञाध्यवसायकः १४ विसर्पो १५ यत्समारब्धं कर्मानिष्टफलप्रदम् कार्यग्रहणमुल्लेखः १६ उत्तेजन १७ मितीष्यते ।स्वकार्यसिद्धयेऽन्यस्य प्रेरणाय कठोरवाक् भर्त्सना तुपरीवादः १८ नीतिः १९ शास्त्रेण वर्त्तनम् उक्तस्यार्थस्ययत्तु स्यादुत्कीर्त्तनमनेकधा उपालम्भस्वरूपेण तत्स्यादर्थविशेषणम् २० प्रोत्साहनं २१ स्यादुत्साहगिराकस्यापि योजनम् साहाय्यं २२ सङ्कटे यत्स्यात्सानुकूल्यं परस्य अभिमानः २३ एव स्यात्प्रश्रयादनुवर्त्तनम् अनुवृत्तिः भूतकार्य्याख्यानमु-त्कीर्त्तनं २८ मतम् याच्ञा २९ तु क्वापि याच्ञाया स्वयं दूतमुखेन वा परीहार ३० इति प्रोक्तः कृता-नुचितमार्जनम् अवधीरितकर्त्तव्यकथनन्तु निवेदनम् ३१प्रत्वर्त्तन ३२ न्तु कार्य्यस्य यत्स्यात् साधुप्रवर्त्तनम् आ-ख्यानं ३३ पूर्बवृत्तोक्तिर्युक्ति ३४ रर्थावधारणम् प्रहर्षः ३५प्रमदाधिक्यं शिक्षा स्यादुपदेशनम् ३६” लक्षितानि