| YouTube Channel

नाट्यभाषा (nATyabhASA)

 
Shabdartha Kaustubha
Kannada
नाट्यभाषा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ನಾಟ್ಯದಲ್ಲಿ ಪಾತ್ರಗಳು ಉಪಯೋಗಿಸಬೇಕಾದ ಭಾಷೆಗಳು
वाचस्पत्यम्
Sanskrit
नाट्यभाषा स्त्री नाट्ये प्रयोक्तव्या पात्रभेदेन भाषा ।नाटके प्रयोक्तव्ये पात्रभेदेन भाषाभेदे साच सङ्गीतदा०उक्ता नाटकशब्दे दर्शिता विशेषस्तु सा० द० उक्तो यथा“पुरुषाणामनीचानां संस्कृतं स्यात् कृतात्मनाम् शौर-सेनी प्रयोक्तव्या तादृशीनाञ्च योषिताम् आसामेवतु गाथासु महाराष्ट्रीं प्रयोजयेत् अत्रोक्ता मागधीभाषा राजान्तःपुरचारिणाम् चेटानां राजपुत्राणांश्रेष्ठिनां चार्द्धमागधी प्राच्या विदूषकादीर्ना धूर्त्तानांस्यादवन्तिका योधनागरिकादीनां दाक्षिणात्या हिदीव्यताम् शकाराणां शकादीनां शाकारीं सम्प्रयो-जयेत् वाह्लीकभाषा दिव्यानां द्राविडी द्रविडादिषु ।आभीरेषु तथाऽभीरी चाण्डाली पुक्कसादिषु आ-भीरी शावरी चापि काष्ठपत्रोपजीविषु तथैवाङ्गार-कारादौ पैशाची स्यात् पिशाचवाक् चेटीनामप्य-नीचानामपि स्यात् शौरसेनिका बालानां षण्डका-नाञ्च नीचग्रहविचारिणाम् उन्मत्तानामातुराणांसैव स्यात् संस्कृतं क्वचित् ऐश्वर्य्येण प्रमत्तस्य दारि-द्र्योपस्कृतस्य भिक्षुबन्धधरादीनां प्राकृतं सम्प्रयो-जयेत् संस्कृतं सम्प्रयोक्तव्यं लिङ्गिनीषूत्तमासु ।देवीमन्त्रिसुतावेश्यास्वपि कैश्चित्तथोदितम् यद्देशंनीचपात्रन्तु तद्देशं तस्य भाषितम् कार्य्यतश्चोत्तमा-दीनां कार्य्यो भाषाविपर्य्ययः योषित्सखीबाल-वेश्याकितवाप्सरसां तथा वैदग्ध्यार्थं प्रदातव्यंसंस्कृतं चान्तरान्वरा” नाटकभाषाऽप्यत्र